Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 05
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 96
________________ mmmmmm..१५७ १६६ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः नकुलेन विद्रावित उलूको दुर्मर्षणादिभिः सह दुर्योधनं शरणं ययौ । दुर्योधनश्च नृपैः सम्भूयाऽर्जुनं योधयामास । अर्जुनश्च रामसुतैः परिवृतो बाणैर्जयद्रथमवधीत् । ततः कर्णः क्रुद्धोऽर्जुनं हन्तुमधावत । बहुशो युद्ध्वा चाऽर्जुनो भग्नरथं खड्गमात्रधरं कर्णमवधीत् । ततो भीमः सिंहनादं चकार, अर्जुनश्च शङ्ख दध्मौ, पार्थसैन्याश्च जगणुः । ततः क्रुद्धो दुर्योधनो भीमं हन्तुमधावत । भीमश्च रथादिना रथादिकमास्फाल्याऽऽस्फाल्य दुर्योधनसैन्यं व्यनाशयत् । ततो भीम-दुर्योधनौ मिथो गर्जन्तौ क्रुद्धौ सिंहाविव शस्वैश्चिरं युयुधाते । ततो भीमो द्यूतवैरं स्मरन् गदया सरथं दुर्योधनं पिपेष । तस्मिन् हते च सैनिकाः पलाय्य सेनान्यं हिरण्यनाभं शरणं ययुः । ___ अथ क्रुद्धो हिरण्यनाभोऽभि यदून् दधाव । अभिचन्द्रेणाऽऽक्षिप्तश्च हिरण्यनाभस्तस्मिन् शरांश्चिक्षेप । अर्जुनश्च तान् शरान् मध्ये स्वबाणैर्निवारयामास । ततोऽर्जुनाय क्षिप्तान् हिरण्यनाभशरान् भीमो गदया चूर्णयामास रथं च बभञ्ज । ततो लज्जितो हिरण्यनाभो रथान्तरमारुह्य यदुसैन्ये सकले बाणान् ववर्ष । न कोऽपि यदुसैन्ये तादृशोऽभूद् यस्तस्य शरैर्न विद्धः । ततः क्रुद्धं समुद्रविजयपुत्रजयसेनं धावमानं हिरण्यनाभ आक्षिप्य तत्सारथि निपातयामास । जयसेनोऽपि तस्य कवचं धनुर्ध्वजं सारथिं च चूर्णयामास । ततः क्रुद्धो हिरण्यनाभो बाणान् प्रहृत्य जयसेनमवधीत् । ततो जयसेनभ्राता क्रुद्धो रथादवतीर्य खड्ग-खेटधरो हिरण्यनाभमधावत । हिरण्यश्च दूरादपि क्षुरप्रेण तच्छिरोऽकर्त्तयत्। ततः क्रुद्धोऽनाधृष्टिस्तमयोधयत् । अष्टमं पर्व - सप्तमः सर्गः अन्ये जरासन्धनृपाश्च भीमादिभिर्द्वन्द्वयुद्धेनाऽयुध्यन्त । प्राग्ज्योतिषमहीपतिर्भगदत्तश्च गजारूढः समुद्रविजयात्मजं महानेमिमधावत । महानेमिसारथिश्च तद्गजं वेगेनाऽऽगच्छन्तं दृष्ट्वा रथं मण्डलेनाऽभ्रमयत् । महानेमिश्च शरैस्तद्गजं तलपादेषु विव्याध । तेन च विदीर्णपादो गजः सभगदत्तः पपात। इतश्च भूरिश्रवाः सात्यकिश्च यथाक्रमं जरासन्ध-कृष्णजयेच्छया देवद्विपौ दन्तैरिव दिव्यास्त्रादिभिर्युध्यमानौ क्षीणास्त्रौ बाहुभ्यां मुष्टिभिश्च मिथप्राहरन्ती पतनोत्पतनैर्भूमिमकम्पयतां भुजास्फोटैर्दिशो बधिरयामासतुः । तत्र सात्यकि रिश्रवसं योत्क्रबन्धेन बद्ध्वा गलं पृष्ठे वालयित्वा जानुनाऽऽक्रम्याऽवधीत् । इतश्चाऽनाधृष्टिना चापे छिन्ने हिरण्यनाभस्तस्मै परिघममुञ्चत् । अनाधृष्टिना बाणैस्तस्मिन् खण्डिते च तज्जिघांसया हिरण्यनाभश्चर्मा-ऽसिधरः पद्भ्यामधावत् । रामेण रथादुत्तीर्य खड्गखेटकधारिणा विचित्रगत्या चिरं खेदितः । तदानीं चाऽवसरं प्राप्याऽनाधृष्टिरसिना हिरण्यनाभमवधीत् । तदा जरासन्धस्य नृपास्तं शरणं ययू रविश्चाऽस्तं ययौ । अनाधृष्टिश्चाऽपि यदुभिः पूजितः कृष्णमुपययौ। कृष्णाज्ञयाऽन्येऽपि नृपाः स्वं स्वं शिबिरं ययुः । अथ जरासन्धो मन्त्रयित्वा तदैव शिशुपालं सेनापतित्वेऽभ्यषिञ्चत् । प्रातश्च यदवो गरुडव्यूहं कृष्णाज्ञया विधाय तथैव रणभूमिमधितस्थुः । शिशुपालोऽपि चक्रव्यूहं निर्ममौ । जरासन्धश्च रणभूमिमियाय । तत्र च जरासन्धेन पृष्टो हंसकः परसैनिकान् कृष्णादींश्चाऽङ्गल्या दर्शयन् नामग्राहमुपलक्षयामास । ततः क्रुद्धो जरासन्धो धनुरास्फालयन् राम-कृष्णौ प्रति वेगतो रथं प्रेरयामास । जरासन्धपुत्रो यवनश्च क्रुधा वसुदेवसुता नक्रूरादीन्

Loading...

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159