________________
mmmmmm..१५७
१६६
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः नकुलेन विद्रावित उलूको दुर्मर्षणादिभिः सह दुर्योधनं शरणं ययौ । दुर्योधनश्च नृपैः सम्भूयाऽर्जुनं योधयामास । अर्जुनश्च रामसुतैः परिवृतो बाणैर्जयद्रथमवधीत् । ततः कर्णः क्रुद्धोऽर्जुनं हन्तुमधावत । बहुशो युद्ध्वा चाऽर्जुनो भग्नरथं खड्गमात्रधरं कर्णमवधीत् । ततो भीमः सिंहनादं चकार, अर्जुनश्च शङ्ख दध्मौ, पार्थसैन्याश्च जगणुः । ततः क्रुद्धो दुर्योधनो भीमं हन्तुमधावत । भीमश्च रथादिना रथादिकमास्फाल्याऽऽस्फाल्य दुर्योधनसैन्यं व्यनाशयत् । ततो भीम-दुर्योधनौ मिथो गर्जन्तौ क्रुद्धौ सिंहाविव शस्वैश्चिरं युयुधाते । ततो भीमो द्यूतवैरं स्मरन् गदया सरथं दुर्योधनं पिपेष । तस्मिन् हते च सैनिकाः पलाय्य सेनान्यं हिरण्यनाभं शरणं ययुः । ___ अथ क्रुद्धो हिरण्यनाभोऽभि यदून् दधाव । अभिचन्द्रेणाऽऽक्षिप्तश्च हिरण्यनाभस्तस्मिन् शरांश्चिक्षेप । अर्जुनश्च तान् शरान् मध्ये स्वबाणैर्निवारयामास । ततोऽर्जुनाय क्षिप्तान् हिरण्यनाभशरान् भीमो गदया चूर्णयामास रथं च बभञ्ज । ततो लज्जितो हिरण्यनाभो रथान्तरमारुह्य यदुसैन्ये सकले बाणान् ववर्ष । न कोऽपि यदुसैन्ये तादृशोऽभूद् यस्तस्य शरैर्न विद्धः । ततः क्रुद्धं समुद्रविजयपुत्रजयसेनं धावमानं हिरण्यनाभ आक्षिप्य तत्सारथि निपातयामास । जयसेनोऽपि तस्य कवचं धनुर्ध्वजं सारथिं च चूर्णयामास । ततः क्रुद्धो हिरण्यनाभो बाणान् प्रहृत्य जयसेनमवधीत् । ततो जयसेनभ्राता क्रुद्धो रथादवतीर्य खड्ग-खेटधरो हिरण्यनाभमधावत । हिरण्यश्च दूरादपि क्षुरप्रेण तच्छिरोऽकर्त्तयत्। ततः क्रुद्धोऽनाधृष्टिस्तमयोधयत् ।
अष्टमं पर्व - सप्तमः सर्गः
अन्ये जरासन्धनृपाश्च भीमादिभिर्द्वन्द्वयुद्धेनाऽयुध्यन्त । प्राग्ज्योतिषमहीपतिर्भगदत्तश्च गजारूढः समुद्रविजयात्मजं महानेमिमधावत । महानेमिसारथिश्च तद्गजं वेगेनाऽऽगच्छन्तं दृष्ट्वा रथं मण्डलेनाऽभ्रमयत् । महानेमिश्च शरैस्तद्गजं तलपादेषु विव्याध । तेन च विदीर्णपादो गजः सभगदत्तः पपात। इतश्च भूरिश्रवाः सात्यकिश्च यथाक्रमं जरासन्ध-कृष्णजयेच्छया देवद्विपौ दन्तैरिव दिव्यास्त्रादिभिर्युध्यमानौ क्षीणास्त्रौ बाहुभ्यां मुष्टिभिश्च मिथप्राहरन्ती पतनोत्पतनैर्भूमिमकम्पयतां भुजास्फोटैर्दिशो बधिरयामासतुः । तत्र सात्यकि रिश्रवसं योत्क्रबन्धेन बद्ध्वा गलं पृष्ठे वालयित्वा जानुनाऽऽक्रम्याऽवधीत् । इतश्चाऽनाधृष्टिना चापे छिन्ने हिरण्यनाभस्तस्मै परिघममुञ्चत् । अनाधृष्टिना बाणैस्तस्मिन् खण्डिते च तज्जिघांसया हिरण्यनाभश्चर्मा-ऽसिधरः पद्भ्यामधावत् । रामेण रथादुत्तीर्य खड्गखेटकधारिणा विचित्रगत्या चिरं खेदितः । तदानीं चाऽवसरं प्राप्याऽनाधृष्टिरसिना हिरण्यनाभमवधीत् । तदा जरासन्धस्य नृपास्तं शरणं ययू रविश्चाऽस्तं ययौ । अनाधृष्टिश्चाऽपि यदुभिः पूजितः कृष्णमुपययौ। कृष्णाज्ञयाऽन्येऽपि नृपाः स्वं स्वं शिबिरं ययुः ।
अथ जरासन्धो मन्त्रयित्वा तदैव शिशुपालं सेनापतित्वेऽभ्यषिञ्चत् । प्रातश्च यदवो गरुडव्यूहं कृष्णाज्ञया विधाय तथैव रणभूमिमधितस्थुः । शिशुपालोऽपि चक्रव्यूहं निर्ममौ । जरासन्धश्च रणभूमिमियाय । तत्र च जरासन्धेन पृष्टो हंसकः परसैनिकान् कृष्णादींश्चाऽङ्गल्या दर्शयन् नामग्राहमुपलक्षयामास । ततः क्रुद्धो जरासन्धो धनुरास्फालयन् राम-कृष्णौ प्रति वेगतो रथं प्रेरयामास । जरासन्धपुत्रो यवनश्च क्रुधा वसुदेवसुता नक्रूरादीन्