________________
१६४
पुरुषतम्-गद्यात्मकसारोद्धारः
समादिदेश । ततो हंसक - हिण्डकौ सचिवौ सेनापतयश्च चक्रव्यूहं चक्रुः । सहस्रारे तस्मिश्चक्रे य यथायथं राजानः सैन्याश्च निवेशिताः । ततो जरासन्धस्तस्य चक्रव्यूहस्य सेनापतित्वे कौशलेश्वरं सत्यसन्धमभिषिषेच ।
तदानीं रविश्चाऽस्तमियाय । यदवोऽपि च चक्रव्यूहं प्रति गरुडव्यूहं चक्रुः । तत्र य यथायथमङ्गेषु प्रत्येकं राजानः सैन्यश्च स्थापिताः । तस्य शिरोभागे राम कृष्णौ स्थितौ । शक्रश्च नेमिं युद्धोद्यतं ज्ञात्वा भ्रातृस्नेहाद् मातलिना सह निजं सहजं रथं प्रेषयामास । नेमिश्च तद्रथमलङ्कृतवान् । ततः समुद्रविजयोऽनाधृष्टि कृष्णाग्रजं सेनापतित्वेऽभिषिषेच । तदानीं च कृष्णसैन्ये जयजयारावो जज्ञे । तेन जरासन्धबले सर्वतः प्रक्षोभोऽभवत् ।
अथ द्वयोर्व्यूहयोः सैन्यैर्दारुणं युद्धं प्रारेभे । ततः स्वामिभक्तैर्जरासन्धसैन्यैश्चिरं युद्ध्वा गरुडव्यूहाग्रसैनिका अभज्यन्त । ततः कृष्णः करमुत्क्षिपन् सैनिकान् स्थिरीचकार । ततो नेमिरर्जुनोअनाधृष्टिश्च क्रुद्धाः स्वं शङ्खमधमन् । ततश्च सर्वे सैनिकास्तूर्यानताडयन् । तन्नादेन च जरासन्धसैन्या अक्षुभ्यन् । नेम्यादयस्त्रयोऽपि च शरान् वर्षन्तो महान्तं विक्रमं चक्रुः । तेन चक्रव्यूहसंस्थिता राजानो घातमसहिष्णवो दुद्रुवुः तैस्त्रिभिश्च चक्रव्यूहस्त्रिषु स्थानेष्वभञ्जि । ते च त्रयश्चक्रव्यूहं मार्गं विधाय प्रविविशुः । ताननुसरन्तोऽन्ये सैनिकाश्चाऽपि तत्र विविशुः । दुर्योधनादयश्च तान् रुरुधुः । ततस्तेषां मिथो द्वन्द्वयुद्धं प्रावर्त्तेत ।
तत्र च नेमी रुक्मिणं निरायुधं विरथं च चकार । तद्रक्षणायाऽऽपततः शत्रुन्तपादीन् सप्त नृपांश्च नेमिर्युगपद् बाणवृष्टि विधाय
१६५
अष्टमं पर्व सप्तमः सर्गः विचापांश्चक्रे । ततः शत्रुन्तपाश्चिरं युद्ध्वा जाज्वल्यमानां शक्ति चिक्षेप । तया च यदवोऽक्षुभ्यन् । बहवः सैनिकाश्च तच्छक्तिप्रहारेण भुवि पेतुः । ततो मातलि र्बलीन्द्रेण तपसा शत्रुन्तपेन प्राप्तेयं शक्तिर्वज्रेणैव भेद्येत्युक्त्वा नेमिशरे शीघ्रं वज्रं समाक्रमयत् । ततो नेमिस्तं बाणं वज्रबद्धं प्रहृत्य शक्तिं भुवि पातयामास । शत्रुन्तपं च विरथं निरस्त्रं च चकार । तथा नेमिरन्येषामपि षण्णां नृपाणां धनूंषि चिच्छेद । ततो रुक्मी रथान्तरमारुह्य पुनरपि दधाव । एवं च तेऽष्टावपि सम्भूय नेमिना युयुधिरे । ततो नेमिः शस्त्राशस्त्रि युद्ध्वा बाणेन रुक्मिणं भाले जघान । तेन च विह्वलं तं वेणुदारी दूरं निनाय । ततोऽन्येऽपि च सप्त नृपास्ततो द्रुतं दुदुवुः । समुद्रविजयादिभिर्यदुभटैश्चाऽन्येऽपि नृपा भग्नाः सेनापति हिरण्यनाभं शरणं ययुः ।
इतश्च भीमा-र्जुनौ बलभद्रसुताश्च धार्तराष्ट्रान् दुर्योधनादीन् घना हंसानिव व्यद्रावयन् । अर्जुनमुक्तैः शरैश्च दिगन्तं व्याप्तं गाण्डीवघोषैश्च जगद्बधिरीकृतम् । कोऽपि जनो बाणानाकर्षन्तंमुञ्चन्तं चाऽर्जुनं नाऽलक्ष्यत । ततो दुर्योधनादयः सम्भूय पार्थमधावन्त । सहदेवादयश्च शकुन्यादिभिरयुध्यत । तत्राऽर्जुनो दुर्योधनं बाणवृष्ट्या विरथं विवर्माणं च चकार । कासिप्रमुखानन्यानपि दश भटान् स उपद्रुद्राव । युधिष्ठिरेण च शक्तिप्रहारेण शल्यो हतः । भीमश्च दुर्योधनभ्रातरं जघान । शकुनिं प्रतिक्षिप्तं बाणं च दुर्योधनो मध्य एव स्वबाणेन चिच्छेद । ततः सहदेवो दुर्योधनं मायीत्याक्षिप्य बाणवृष्ट्या छादयामास । ततो दुर्योधनेन सहदेववधाय मुक्तं मन्त्रितं बाणं पार्थः स्वबाणेन निवारयामास । तथा शरैः प्राहरन्तं शकुनिं सहदेवो बाणैविरथं निरस्त्रं च कृत्वा तच्छिरश्चकर्त्त ।