________________
१६२
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः कूपमण्डूक ! अहं गृहाद् निर्गत्य वीरवृत्त्या सर्वत्राऽप्रतिहतोऽभ्राम्यं कन्याश्च पर्यणैषं, यथावसरं मिलितैर्बन्धुभिरादरात् प्राथितो गृहमागां च, न पुनस्त्वमिव स्वयम्' । ततः शाम्बः पूज्यतिरस्कारं ज्ञात्वा कृताञ्जलि: स्वमौद्धत्यं निन्दन् पितामहं क्षमयामास ।
*** इतश्च यवनद्वीपादिभ्यो वणिजो महाभाण्डान्युपादाय जलमार्गेण तत्राऽऽगता अन्यवस्तूनि विक्रीय रत्नकम्बलं विक्रेतुं राजगृहं ययुः । तत्र वास्तव्यैर्वणिग्भिश्च ते मगधेशपुत्र्या जीवयशसो गृहे नीताः । ते च तत्र जीवयशसो रत्नकम्बलानुष्णे शीतान् शीते चोष्णान् मृदुरोम्णोऽदर्शयन् । तया कम्बलानां मूल्यार्धे कथिते च ते वयं द्वारकां मुक्त्वा किमर्थमिहाऽऽगता इति पूच्चक्रुः । ततो जीवयशास्तेभ्यो द्वारकायां कृष्णादीनां समृद्धिं श्रुत्वा मद्भर्तुर्हन्ताऽद्याऽपि जीवतीति रुदती जरासन्धेन दृष्ट्वा कारणं पृष्टा च कृष्णवृत्तान्तमाख्यायाऽद्यैवाऽग्नि प्रवेक्ष्यामि, अतः परं न जीविष्यामीत्युवाच ।
जरासन्धश्च कृष्णादिवधं तामाश्वास्य मन्त्रिभिर्वार्यमाणोऽपि सैन्यं प्रयाणायाऽऽदिशत् । महाबलाः सहदेवादयः पुत्राश्चेदिनृपादयो दुर्योधनादयश्च तमन्वयुः । स च मुकुटपातादिष्वशकुनेषु सत्स्वपि न विरराम । सैन्यैः परिवृतो गन्धगजमारूढः पश्चिमां प्रस्थितः । नारदश्चराश्च तवृत्तान्तं कृष्णाय शशंसुः । कृष्णश्चाऽपि तच्छृत्वा स्वपक्ष्यान् नृपानेकत्रीकृत्य सबन्धुवर्गः स परिजनपरिच्छदो रामेण सह गरुडाङ्क रथमारुह्य पूर्वोत्तरां दिशं प्रतस्थे । पुरात् पञ्चचत्वारिंशतं योजनानि गत्वा च सेनपल्लीग्रामे तस्थौ ।
अष्टमं पर्व - सप्तमः सर्गः
१६३ जरासन्धसैन्याच्चतुभिर्योजनैरर्वाक् स्थिते कृष्णसैन्ये च केचिद् विद्याधरोत्तमाः समेत्य समुद्रविजयं नत्वा 'वयं वसुदेवगुणगृह्याः, तदस्मान् स्वसामन्तवर्गे गणये'ति प्रार्थयामासुः। एवमस्त्विति नृपेणोक्ते च ते पुनरूचुः-'कृष्णस्याऽग्रे जरासन्धस्तृणवत्, तद्वैताढ्याद्री जरासन्धगृह्यान् प्रत्यस्मान् वसुदेवं सेनान्यं कृत्वा प्रद्युम्नशाम्बाभ्यां सह समादिश' । ततः समुद्रविजयः कृष्णानुज्ञया वसुदेवं प्रद्युम्न-शाम्बौ च तैः खेचरैः सह प्रेषीत् । तदानीं चाऽरिष्टनेमिना जन्मस्नात्रे सुरैर्बाहौ बद्धास्त्रवारिण्यौषधिः प्रददे । ___इतश्च हंसको मन्त्री परैर्मन्त्रिभिः सहाऽऽगत्य जरासन्धमुवाच'पुरा कंसोऽमन्त्रितं कृत्वा दुष्फलं प्राप, रौहिण्याः स्वयंवरे च वसुदेवो दृष्टबलोऽस्ति, द्यूते कोटिजयात् त्वत्सुताया जीवनाच्च स ज्ञातोऽस्ति, तदानीं स घातितोऽपि स्वप्रभावाद् न मृतः । अस्मादेव जातौ राम-कृष्णौ, एनौ च पाण्डवा अपि व्यसने श्रितवन्तः । प्रद्युम्ना-ऽर्जुन-भीमादयश्चाऽप्रतिमबला: । त्वदीये सैन्ये रुक्मिप्रभृतयः पुराऽपि तैः पराजिताः । नेमिः कृष्णो बलश्च परसैन्येऽतिरथाः, स्वबले त्वमेवैकोऽतिरथः । तद्योर्बलयोर्महदन्तरं, सुराश्च कृष्णगृह्या: कालादिमृत्युना ज्ञाता एव सन्ति । तत्तेन योद्धं न युज्यतेऽधुना । त्वय्ययुध्यमाने च कृष्ण: स्वयं वलित्वा यास्यति' ।
एवं तद्वचः श्रुत्वा क्रुद्धो जरासन्ध उवाच-'त्वं छलिभिर्यादवैआंदितोऽसि, तत एव शत्रु प्रशंसन् मां भीषयसि, अहं गोपालानामेषां बलं क्षणाद् भस्मसात् करिष्यामि, तवेमां मतिं धिक्' । तत उम्भको नाम चाटुकार उवाच-'रणात् पराङ्मुखत्वापेक्षया वीराणां मरणं वरं, निजे बले चक्रव्यूहं कृत्वा परबलं युद्धेऽवश्यं हनिष्यामः' । ततो हृष्टो जरासन्धस्तं प्रशस्य सेनापतीन् चक्रव्यूहाय