________________
१६०
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः मद्भार्यां गृह्णासीत्युक्त्वा तं द्रुतं जघान' कृष्णः प्रकटश्च बभूव । जाम्बवत्यपि प्रकटिता । शाम्बश्च पितरौ दृष्ट्वा मुखं पिधाय पलायितवान् । कृष्णश्च सुतचरितं दृष्टमिति जाम्बवतीमुक्तवान् । द्वितीयदिवसे च कृष्णेन हठाद् गृहमानीयमानः स कीलिका घटयन्नागच्छन् किं घटयसीति पृष्टो 'यो मे ह्यस्तनं वचनं वदिष्यति तस्य मुखे एषा कीलिका क्षेपणीये'त्यमुं घटयामीत्युवाच । ___ ततः कृष्णेन स निर्लज्जः कामुक स्वैरी चेति नगराच्छाम्बो निर्वासित: प्रद्युम्नश्च प्राग्जन्मन्यपि भ्रात्रे नगर्या गच्छते स्नेहात् प्रज्ञप्तिविद्यां ददौ ।
इतश्च प्रद्युम्नो नित्यं भीरुकं पीडयन् 'शाम्ब इव नगर्याः किं न यासीति सत्यभामयोक्तः क्व यामीति पृष्टवान् । सा च क्रोधात् श्मशानं गच्छेत्युक्तवती । कदा मयाऽऽगन्तव्यमिति प्रद्युम्नेन पृष्टा च यदाऽहं शाम्बं हस्ते गृहीत्वाऽत्राऽऽनयामि तदा त्वया समागन्तव्यमिति क्रुधा सत्यभामोवाच । प्रद्युम्नश्च मातुरादेशः प्रमाणमित्युक्त्वा श्मशानं जगाम । शाम्बोऽपि भ्रमंस्तत्राऽऽययौ । तौ द्वौ चाऽधिकं दाहशुल्कं गृहीत्वा श्मशाने पौराणां मृतकानि दग्धुं ददतुः।
इतश्च सत्यभामा भीरवे एकोनकन्याशतमेकत्र मेलयित्वाऽन्यामेकां कन्यामन्वेषयामास । प्रद्युम्नश्च प्रज्ञप्त्या तद्विज्ञाय चमूं विवृतवान् । स्वयं च जितशत्रुर्नाम नृपोऽभवत् । शाम्बश्च देवकन्यातुल्यकन्यारूपोऽभवत् । भीरुधात्री च तां सखीपरिवतां क्रीडन्तीं दृष्ट्वा केयमिति कुतश्चिज्ज्ञात्वा सत्यभामायै निवेदयामास । सा च भीरवे तां जितशत्रु ययाचे ।
अष्टमं पर्व - सप्तमः सर्गः
ततो जितशत्रुणा 'यदि सत्यभामाऽमूं हस्ते गृहीत्वा द्वारकां प्रविशेत्, तथा विवाहकालेऽस्या: करं भीरोः करस्योपरि स्थापयेत्, तदैनां ददामी'त्युक्ता सत्यभामा तत् स्वीकृत्य तच्छिबिरं जगाम । शाम्बश्च प्रज्ञप्तिमुवाच-'सत्यभामा तस्याः परिजनश्च मां शाम्बमेव कन्यारूपं यथा पश्यति तथा कुरु'। प्रज्ञप्त्या च तथा कृते सत्यभामया दक्षिणे करे गृहीतः शाम्बो द्वारकापुरीं प्राविशत् । सत्यभामया भीरोर्विवाहार्थं कन्याऽऽनीतेति जना विस्मिता जाताः । सत्यभामागृहे च शाम्बो भीरोदक्षिणं कर स्ववामकरस्योपरि कृत्वाऽन्यस्यैकोनकन्याशतस्य पाणीन् दक्षिणपाणिना धृत्वा युगपदग्निप्रदक्षिणां व्यधात् । कन्यकाश्च शाम्बं पश्यन्त्यः पुण्यात् त्वं मम पतिर्जात इत्यूचुः । विवाहं कृत्वा च शाम्बस्ताभिः समं वासगृहं गतवान् । भीरुश्च शाम्बेन सह तत्राऽऽगतस्तेन भृकुट्या तजितो भीत: परावृत्तवान् ।
सत्यभामा च तज्ज्ञात्वा स्वयं गत्वा शाम्बं दृष्टवती । शाम्बोऽपि तां प्रणनाम । ततः क्रुद्धया तया केनाऽत्राऽऽनीतोऽसीति पृष्टः शाम्ब'स्त्वयैव करे गृहीत्वाऽऽनीयोद्वाहितोऽस्मि, अत्र पौरा: प्रमाणमि'त्युवाच । पौरैश्च तद्वचसि प्रमाणिते कन्यारूपोऽयं मामच्छलयदिति तमाक्रोशन्ती रोषात् ततो निर्गता । ततः कृष्णः पौरसमक्षं ताः कन्या: स्वयं शाम्बाय ददौ । जाम्बवती चोत्सवं चकार ।
ततः शाम्बो वसुदेवं नमस्कर्तुं गत उवाच-'तात ! त्वया महीं भ्रान्त्वा चिरेण कन्या ऊढाः, मया त्वभ्रान्त्वैकत्रैव युगपत् कन्याशतं परिणीतं, तत आवयोरन्तरं स्पष्टम्' । ततो वसुदेव उवाच-'रे !