________________
त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः
मायाचाण्डालाभ्यां धारितः । तथा ताभ्यां गानेन स महागजः स्तम्भितः । ततो द्वावपि तं गजमारुह्याऽऽलाने बबन्धतुः । राज्ञा चाऽऽहूयाऽभीष्टं याचेथामित्युक्तौ चेमां वैदर्भी प्रदेहीत्युक्तवन्तौ । तच्छ्रुत्वा च क्रुद्धो रुक्मिी तौ पुराद् निरवासयत् ।
१५८
ततः प्रद्युम्नः शाम्बमुवाच- 'रुक्मिणी दुःखेन तिष्ठति तद् वेदर्थ्याः परिणयने विलम्बोऽसह्यः' । एवं कथयति च तस्मिन् रात्रिः प्रवृत्ता । ततः सुप्तेषु लोकेषु प्रद्युम्नो विद्याबलात् प्रासादस्य सप्तमीं भूमिमधिष्ठितां वैदर्भी प्राप्य कृत्रिमं रुक्मिणीस्नेहपत्रं तस्यै ददौ । साऽपि च तद् वाचयित्वा किं ते ददामीत्युवाच । 'मह्यमात्मानमेव देहि, अहमेव प्रद्युम्न' इति प्रद्युम्नेनोक्ता दैवेन साधु घटितमित्युक्त्वा तद्वचः स्वीचकार । ततः विद्याप्रभावादग्नि साक्षिणं कृत्वा बद्धकङ्कणां श्वेतवस्त्रां तां परिणीय स्वैरं रमयित्वा रात्रिशेषे 'अहं यामि, केनाऽपि पृच्छ्यमाना चेमं वृत्तान्तं न कथयेः, मया त्वच्छरीरोपद्रवरक्षा कृताऽस्तीत्युक्त्वा ततः प्रद्युम्न निर्ययौ ।
वैदर्भी चाऽपि रात्रिजागरादतिश्रमाच्च सुष्वाप । प्रभाते जातेऽपि च न प्रबुद्धा । ततस्तत्राऽऽगता धात्री कङ्कणादिकं विवाहचिह्नं दृष्ट्वा साशङ्का तामुत्थाप्य पप्रच्छ । वैदर्भी च किमपि नाऽवोचत् । ततः सा धात्री स्वापराधच्छेदाय भयविह्वला रुक्मिणे राज्यै च सर्वं शशंस । पितृभ्यामपि समागत्य पृष्टा सा न किमप्युवाच । सम्भोगचिह्नं प्रकटं दृष्ट्वा च रुक्मिणा 'अदत्ताऽपीयं केनाऽपि भुक्ता वरं चाण्डालाभ्यामपि दत्ते 'ति विचार्य तौ मायाचाण्डालावाहूय वेदर्भी तयोर्दत्ता । तौ च वैदर्भीमूचतुः - 'राजपुत्रि ! आवयोर्गृहे चर्मरज्ज्वादिविक्रयं करिष्यसि किम् ?' ततो वैदर्भ्यपि रहस्यज्ञा
अष्टमं पर्व सप्तमः सर्गः
१५९
'यद् भाग्यं कारयिष्यति तत् सर्वं करिष्यामीत्युवाच । ततस्तौ तामुपादायाऽन्यतो जग्मतुः । रुक्मिी च पश्चात्तापात् पर्षदि विलपन् गम्भीरं तूर्यशब्दं श्रुत्वा कुतोऽयमित्यपृच्छत् ।
ततो नियोगिन ऊचुः - नगराद् बहिः प्रद्युम्न - शाम्बौ वैदर्भीसहितौ विमानोपमे प्रासादे तिष्ठतः, तौ च चारणैः स्तूयमानौ वाद्यमनोहरं सङ्गीतकं कारयतः । तस्याऽयं नादः ' । ततः प्रसन्नो रुक्मी तौ निजे गृहे समाहूय स्वयं भागिनेय- जामातृस्नेहात् सातिशयं पूजयामास । तत: प्रद्युम्नो रुक्मिणमापृच्छ्य वैदर्भी - शाम्बसहितौ द्वारकामगात् । तत्र च प्रद्युम्नो नवोढया तया वैदर्भ्या रममाणः सुखं कालं निनाय । शाम्बोऽपि हेमाङ्गदनृपपुत्र्या वेश्याकुक्षिजया सुहिरण्याख्यया यथासुखं रेमे ।
अथ शाम्बो नित्यं भीरुं क्रीडन् जघान । तथा द्यूते धनं हारयित्वा दापयामास । भीरुश्च रुदन् सत्यभामायै सा च कृष्णाय सोऽपि जाम्बवत्यै तद्वृत्तं शशंस। ततो जाम्बवती जगाद - 'इयत्कालं मया शाम्बस्य दुर्विनया न श्रुतः, अद्य किमस्ति ?' ततः कृष्णः सिंही स्वपुत्रं सौम्यं भद्रं च मन्यते, किन्तु गजा एव तस्य क्रीडां जानन्ति, अद्य तच्चेष्टा दर्शयामीत्युक्त्वाऽऽ भीररूपधरो जाम्बवतीमाभीरीरूपां कृत्वा तौ तक्रं विक्रीणानौ द्वारकापुरीं प्रविष्टौ शाम्बकुमारेण दृष्टौ गोरसं क्रीणामीत्याहूतौ च तत्समीपं जग्मतुः ।
ततः शाम्बो देवगृहं प्रविश्य तामाहूतवान् । सा च 'न देवगृहं प्रवेक्ष्यामि, अत्रैव मूल्यं देही'त्युवाच । त्वयाऽत्राऽवश्यं प्रवेष्टव्यमित्युक्त्वा शाम्बस्तां करे गृहीत्वा चकर्ष । ततश्चाऽऽभीरः किं