________________
अष्टमं पर्व - सप्तमः सर्गः
१५७ भीरुरित्यपराभिधेयः पुत्रो बभूव । कृष्णस्याऽन्यासामपि पत्नीनां महाबलपराक्रमाः पुत्रा अभूवन् । शाम्बश्च मन्त्रि-सारथिपुत्रैः सह वर्धमानः क्रमात् सर्वाः कला जग्राह ।
१५६
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः प्रद्युम्नश्च प्रज्ञप्त्या तज्ज्ञात्वा मत्तुल्यपुत्रकाङ्क्षया तं हारमादत्स्वेति जननीमुवाच । ततो रुक्मिण्या 'त्वयैव कृतार्थाऽस्मि, स्त्रीरत्नं पुनर्न प्रसूते' इत्युक्त: 'का तेऽभीष्टा, यस्यै हारं ददामी'ति पुनः पृष्टवान् । ततो जाम्बवत्यास्त्वत्समः पुत्रो भवत्विति रुक्मिण्योक्तो जाम्बवतीमाहूय विद्याप्रभावात् तां सत्यभामारूपां कृतवान् । रुक्मिण्या च सर्वमाख्याय सा कृष्णगृहे प्रेषिता सायं गत्वा कृष्णेन हारार्पणपूर्वकं सप्रमोदं भुक्ता । तदैव च महाशुक्रात् कैटभः सुरश्च्युत्वा सिंहस्वप्नसूचितो जाम्बवत्याः कक्षाववाततार । ततो जाम्बवती हृष्टा निजगृहं जगाम।
सत्यभामा च वासकार्थिनी कृष्णगृहमाजगम । कृष्णच 'भोगातृप्तेयं कयाऽपि रूपपरिवर्त्तनेन च्छलिताऽस्मि वे'ति वितर्कयन्नियं खिन्ना मा भूदिति तया सह रेमे । प्रद्युम्नश्च तस्या रमणसमयं ज्ञात्वा कृष्णस्य भेरीमताडयत् । कृष्णश्च क्षुब्धः केनेयं भेरी ताडितेति पृष्टेन परिच्छदेन 'प्रद्युम्नेन ताडिते'ति ज्ञात्वा स्मित्वा दध्यौ'सत्यभामाऽद्य प्रद्युम्नेन च्छलिता, सापत्नो हि सपत्नीदशकसमो भवति । तत्किञ्चित् सभयं सम्भोगात् सत्यभामाया भीरु: पुत्रो भविता' ।
प्रातश्च रुक्मिणीगृहं गतः कृष्णो जाम्बवतीं तेन दिव्यहारेण भूषितां पश्यन् जाम्बवत्या 'किमीक्षसे, सैवाऽहं जाम्बवती'त्युक्तः। ततो रात्रिवृत्तं सर्वं ज्ञात्वा जाम्बवत्याः सिंहस्वप्नं च ज्ञात्वा तव प्रद्युम्नतुल्यः पुत्रो भवितेति तामाख्याय ततो निर्ययौ । जाम्बवत्यपि पूर्णे समये शाम्ब नामाऽतुल्यबलं सुतमसूत ।
तदानीमेव च सारथेर्दारुको जयसेनश्च मन्त्रिणश्च सुबुद्धिरित्येते बालाः समभूवन् । सत्यभामायाश्च भानुकनामा गर्भानुसाराद्
अन्यदा च रुक्मिणी रुक्मिणो वैदर्भी नाम पुत्रीं प्रद्युम्नेन परिणाययितुं भोजकटे दूतं प्रेषीत् । स दूतश्च गत्वा नत्वा वैदर्भी प्रद्युम्नाय प्रदीयतामिति रुक्मिण्युक्तं निवेदयामास । रुक्मी च प्राग्वैरं स्मरन्नुवाच-'अन्यस्मै चाण्डालायाऽपि सुतां दास्यामि, किन्तु कृष्णस्य कुले नैव' । दूतश्च परावृत्त्य रुक्मिण्यै तवृत्तमाख्यत् । तच्छ्रुत्वा च खिन्ना प्रद्युम्नेन किं खिन्नाऽसीति पृष्टा रुक्मिणी सर्वं रुक्मिवृत्तान्तं जगाद । ततो मा ताम्येति तामाश्वास्य प्रद्युम्न: शाम्बेन सह भोजकटं गत्वा किन्नरस्वरचाण्डालरूपी भूत्वा गायन्तौ पौराणां मनो जहूतुः ।
इतो रुक्मिनृपश्च तज्ज्ञात्वा तावाहूय सुतां स्वोत्सङ्गस्थां बिभ्रान् मायाचाण्डालावगापयत् । प्रसन्नश्च तयोर्द्रव्यं दत्त्वा युवां कुत आयातावित्यपृच्छत् । ततस्ताभ्यां स्वार्गाद् देवैः कृतां द्वारकापुरीमायाताविति कथिते वैदर्भी मुदिता पप्रच्छ-"किं युवां कृष्णपुत्रं प्रद्युम्नं जानीथ ?' तत: शाम्ब उवाच-'को नाम कामाकृति महाबलं प्रद्युम्नं न जानीयात्' । तच्छृत्वोत्कण्ठिता वैदर्भी प्रद्युम्ने सानुरागा जाता । तदानीमेव च कोऽपि मत्तो गजः स्तम्भमुत्पाट्य धावमानः पुरमुपाद्रवन् केनाऽपि हस्तिपकेन वशीकर्तुमशक्यो जनान् क्षोभयामास । ततो नृपेण 'य इमं वशीकरोति तस्मा अभीप्सितं ददामी'ति पटहघोषणामकारयत् । केनाऽप्यधृतश्च पटहस्ताभ्यां