________________
१५४
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः कृष्णश्च कोऽयं मुमूर्षुरिति वदन् शाङ्गमास्फालयन् ससैन्यो दधाव । प्रद्युम्नश्च विद्याबलात् तत्सैन्यं भक्त्वा कृष्णं निरायुधं चकार । कृष्णश्च स्पन्दितं वामेतरं भुजं बलभद्राय निवेदितवान् । तदानीं च नारदः समेत्य 'युद्धवार्त्तयाऽलम्, एष रुक्मिणीसहितः पुत्रो गृह्यतामिति कृष्णमुवाच । प्रद्युम्नश्च कृष्णं रामं च ननाम । ताभ्यां च स सप्रेममालिङ्गय मूनि चुम्बितः । ततः कृष्णः प्रद्युम्नमङ्गे समारोप्य रुक्मिण्या सहित: पौराणां कुतूहलं जनयन् समहोत्सवं द्वारकां प्राविशत् ॥ ६ ॥ इति अष्टमे पर्वणि रुक्मिण्यादिपरिणयन-पाण्डवद्रौपदीस्वयंवर
प्रद्युम्नचरितवर्णनात्मकः षष्ठः सर्गः ॥६॥
सप्तमः सर्गः अथ द्वारकायां प्रद्युम्नागमोत्सवे जायमाने दुर्योधनो वासुदेवं न्यवेदयत्-'प्रभो ! मम पुत्री केनाऽप्यधुनाऽपह्रता, तत्सा मृग्यता, यथा भानुकस्तां परिणयति' । ततः कृष्ण उवाच-नाऽहं सर्वज्ञः, अन्यथा प्रद्युम्नमेव हृतं किं न जानीयाम् ?' ततः प्रद्युम्नः प्रज्ञप्त्या तां ज्ञात्वाऽऽहं तामत्राऽऽनेष्यामीत्युक्त्वा तामानैषीत् । ततः कृष्णेन दीयमानां तां प्रद्युम्नो मम वधूरेषेत्युक्त्वा न जग्राह । ततो भानुकस्तां परिणिनाय । ततः कृष्णः समहोत्सवमनिच्छताऽपि प्रद्युम्नेन विद्याधरेन्द्र-नरेन्द्रकन्यकाः पर्यणाययत् । तथा रुक्मिणीकृष्णौ प्रद्युम्नानयनहेतो रदं पूजयित्वा व्यसृजताम् ।
सत्यभामा च प्रद्युम्नस्य महद्धर्या खिद्यमाना कोपगृह शिश्राय । तत्राऽऽयातेन कृष्णेन कोपकारणं पृष्टा च सोवाच-'यदि मे प्रद्युम्नतुल्य: पुत्रो न भवेत् तदा निश्चयं मरिष्यामि' । तत: कृष्णस्तदाग्रहं ज्ञात्वा नैगमेषिणं देवमुद्दिश्याऽष्टमभक्तेन पौषधं स्वीकृतवान् । ततो नैगमेषी प्रकटीभूय कृष्णेन प्रद्युम्नतुल्यपुत्रं याचितश्च 'त्वममुं हारं परिधाय यस्यां ते पुत्रेच्छा तां भजस्वे'त्युक्त्वा हारं प्रदाय च तिरोहितवान् । कृष्णश्च मुदितः सत्यभामायै वासकं ददौ ।