________________
.....१५३
१५२
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः किञ्चिद् दातुमिच्छाऽस्ति तर्हि देहि, अन्यथा सत्यभामागृहं यास्यामि' । ___ततो रुक्मिण्युवाच-'मन उद्वेगाद् न किञ्चित् पाचितम्' । ततो मायामुनिनोद्वेगकारणं पृष्टा सा तनयसङ्गमाशया मया कुलदेवताऽऽराधिता, इदानीं तस्यै शिरोबलिं दातुकामा यावद् ग्रीवायां प्राहरामि तावत् सा जगौ-'पुत्रि'मा साहसं कार्षीः, यदैष माकन्दः पुष्पिष्यति, तदा तव पुत्र आगमिष्यति' । अयं च माकन्दोऽद्य पुष्पितः, किन्तु मम पुत्रो नाऽऽयाति । तत्त्वं होरां दृष्ट्वा ब्रूहि-'कदा मे पुत्रसङ्गमः' । ततः स मायामुनिरुवाच'रिक्तहस्तानां होरा न फलदा' ।
ततः किं ददामीति रुक्मिण्या प्रोक्तः स पानं देहीत्युवाच । सा च पेयार्थं द्रव्यान्वेषणे प्रवृत्ता । क्षुधितोऽस्मीति मुनिना पुनः प्रेरिता च सा प्राक्सिद्धर्मोदकैः पेयां कर्तुं प्रचक्रमे । किन्तु तद्विद्याप्रभावेणाऽग्निर्न प्राज्वलत् । ततस्तां खिन्नां प्रेक्ष्य मोदकैरेव क्षुधितं मां प्रीणयेत्युवाच । ततः कृष्णं विहायाऽन्येषामेते न सुपाच्या इति रुक्मिण्युवाच । तपसा मे न किमपि गरिष्ठमिति मुनिनोक्ता च सा साशङ्कं तस्मै मोदकं ददौ । स च सर्वानेव मोदकान् शीघ्रमेव भुक्तवान् । ततो विस्मिता 'मुने! बलवानसी'ति रुक्मिणी सस्मितं जगाद ।
इतश्च जपन्तीं सत्यभामां वनपाला एत्य 'कोऽपि पुरुष उद्यानं फलादिरिक्तं चकारे'त्यूचुः । तथा 'तृणाट्टान् कोऽपि निस्तृणांश्चक्रे, जलाशयान् निर्जलांश्चक्रे, भानुकं चाऽश्वेनोपाद्रवदि'त्येवं जना एत्याऽवोचन् । तच्छ्रुत्वा च कोऽसौ विप्र इति सत्यभामया पृष्टा
अष्टमं पर्व - षष्ठः सर्गः दास्यो यथायथं वृत्तमूचुः । ततो विषण्णा सा दासी: केशानयनाय रुक्मिणी प्रति प्रेषयामास । ताश्च सत्यभामाज्ञया केशानर्पयेति रुक्मिणीमूचुः । मायामुनिश्च तच्छ्रुत्वा सत्यभामाया एव केशैः पटलिकां भृत्वा ता दासी: सत्यभामासमीपं प्रेषयामास । सत्यभामया च किमेतदिति पृष्टा दास्यो 'यादृशः स्वामी, परिवारोऽपि तादृशः, तद् न वेत्सि किमि'त्युचुः ।
ततो भामा नापितान् रुक्मिणीगृहे प्रेषयत् । मुनिश्च शिरसस्त्वक्छेदपूर्वकं तानेवाऽमुण्डयत् । ततो मुण्डान् नापितान् दृष्ट्वा सत्यभामा क्रोधात् कृष्णं गत्वोवाच-'त्वं रुक्मिण्याः केशलग्नकोऽसि, तदद्य केशान् दापय, स्वयमाहूय रुक्मिणी मुण्डां कारय' । ततः कृष्णो विहस्योवाच-'त्वमेवाऽद्य मुण्डिताऽसि' ।
ततो नर्मणाऽलमिति सत्यभामयोक्तः कृष्णो रामं रुक्मिण्या गृहं प्रेषयत् । प्रद्युम्नश्च तत्र विद्यया कृष्णरूपं विचकार । रामश्च कृष्णं दृष्ट्वा लज्जितो वलित्वा पूर्वस्थानमागतस्तत्राऽपि कृष्णं दृष्ट्वा' किं हास्यं त्वया प्रस्तुतम् ? मां केशार्थं प्रेष्य स्वयं च गत्वेह समायातः, सहसैव वधूर्वयं च त्वया लज्जिताः कृताः' । तत: कृष्णः शपथपूर्वकं तत्र नाऽगामित्युवाच । ततो भामा तवैव मायेति वदन्ती निजगृहमगात् । कृष्णश्च प्रतीति कारयितुमारेभे ।
अथ नारदोऽयं तव सुत: प्रद्युम्न इति रुक्मिणीमाख्यत् । प्रद्युम्नश्च निजं रूपमाविष्कृत्य मातुः पादयोः पपात । रुक्मिणी च प्रहृष्टा तमालिङ्गय मुहर्मुहर्मुनि चुचम्ब । ततो यावत् पितुर्नाऽऽश्चर्य दर्शयामि तावत् त्वया न वाच्यमित्युक्त्वा मातरं मायारथे समारोप्य प्रस्थितो 'रुक्मिणीमेष हरामि, बली चेत् कृष्णो रक्षत्वि'ति शङ्ख पूरयन् जगाद ।