________________
षष्टिकापुरुषचरितम्-गद्यात्मकसारोद्धारः
भानुकः पुत्रः साम्प्रतं परिणेष्यति । तत्र कृतपणानुसारेण त्वज्जनन्या स्वकेशा दातव्याः सन्ति । ततस्त्वन्माता केशदानविषादेन त्वद्वियोगेन च त्वयि सत्यपि मरिष्यति” । ततः प्रद्युम्नो नारदेन सह प्रज्ञप्तिनिर्मितं विमानमारुह्य शीघ्रं द्वारकापुरीं ययौ । नारदश्च "कुबेरेण निर्माय रत्नेन पूरिता त्वत्पितुरियं पुरी" ति प्रद्युम्नमाख्यात् ।
ततः प्रद्युम्न उवाच - " त्वमिहैव विमाने तिष्ठ, अहं द्वारकायां किञ्चिच्चमत्कारं करोमि” । ततो नारदेन तथाऽस्त्वित्युक्ते प्रद्युम्नो भानुकोद्वाहजन्ययात्रां दृष्ट्वा कन्यां हृत्वा नारदान्तिकेऽञ् । नारदश्च कृष्णपुत्रोऽसाविति मा भैषीरिति तमाश्वासयत् । तथा प्रद्युम्नः कपिं गृहीत्वा वनपालात् तस्मै फलानि ययाचे । वनपालाश्च "भानुकविवाहायारामो रक्ष्यते, तत्त्वया न किञ्चिद् वाच्यमि"त्यूचुः । ततः प्रद्युम्नस्तान् द्रविणैः प्रलोभ्य तत्र प्रविश्य कपिना तदुद्यानं फलादिशून्यमकारयत् । ततो जात्यश्ववणिग् भूत्वा तृणापणं गत्वा स्वहयार्थमापणिकेभ्यस्तृणमयाचत । तदददानांश्च तान् द्रविणैः प्रलोभ्य निजविद्यया सर्वमापणमतृणं चकार । तथा जलाशयान् निर्जलान् कृत्वा वाह्याल्यां स्वयं वाहं वाहयामास । भानुकेन दृष्ट्वा चकस्याऽश्व इति पृष्टः ममैष इत्युदतरत् । ततो भानुक उवाच"यथेष्टेन मूल्येनाऽमुमश्वं मह्यं प्रयच्छ" । ततश्च परीक्ष्याऽश्वं गृहाणेति प्रद्युम्नोको भानुकोऽश्वमारूढः । ततस्स वेगिना तेनाऽश्वेन भुवि पातित एडकमारूढः पौरैर्हस्यमानो वसुदेवसभायामगात् ।
१५०
प्रद्युम्नोऽपि च ब्राह्मणो भूत्वा वेदं पठन् द्वारकां प्रविश्य भ्रमन् सत्यभामादासीं कुब्जिकां दृष्ट्वा तां विद्यया सरलां कारयामास । सा च तस्य पादयोः पतित्वोवाच- क्व यूयं प्रस्थिताः ? " ततः प्रद्युम्नेन भोजनार्थमित्युक्ता सा तमादाय
अष्टमं पर्व षष्ठः सर्गः
१५१
सत्यभामागृहं प्राप्य द्वारि तं मुक्त्वा सत्यभामासमीपं ययौ । सा सत्यभामा च कुब्जिकां द्विजेन सरलीकृतां ज्ञात्वा तां द्विजानयनायाऽऽदिशत् । दास्या तत्राऽऽनीतश्चाऽऽशिषं दत्त्वाऽऽसीनः । सत्यभामया 'रूपेण मां रुक्मिण्यधिकां कुर्विति प्रार्थित: स मायाविप्र उवाच- 'त्वमप्रतिमरूपाऽसि, नाऽन्येदृशी" । तथाऽपि 'विशेषेण मां रूपेणाऽनुपम कुर्विति तया प्रार्थितः प्रद्युम्न उवाच"वैरूप्यं सम्पादय, ततो रूपविशेषं प्राप्यसि" ।
ततः स प्रद्युम्नोक्त्यनुसारेण शिरो मुण्डितवती मस्या शरीरं लिप्तवती च । ततः कपटविप्रेण क्षुधितोऽस्मीत्युक्ता सा सूदान् भोजयितुमादिशत् । ततः स सत्यभामाया: कर्णे "रुडुबुडु रुडुबुडु" इति मन्त्रं दत्त्वा भोजनावधि कुलदेव्या अग्रे जपितुमादिशत् । सा च तथा कर्त्तुमारभत, कपटविप्रश्च भोजनं चकार । भुक्तसर्वभोज्यश्च दासीभिर्भृङ्गारपाणिभिरुत्तिष्ठेति प्रार्थितोऽद्याऽपि न मे तृप्तिः, तद्यत्र तृप्तिस्तत्र यास्यामीति वदन्नुत्थाय ययौ ।
ततो बालमुनिवेषो रुक्मिणीगृहं जगाम । रुक्मिणी च तं दूराद् दृष्ट्वोत्थायाऽऽसनाय गृहान्तः प्रविवेश । स कपटमुनिश्च पूर्वन्यस्ते कृष्णसिंहासने समुपविवेश । आसनमादायाऽऽ रुक्मिणी च तं तथोपविष्टं दृष्ट्वा विस्मितोवाच- 'कृष्णं कृष्णपुत्रं वा विनाऽन्यमत्र सिंहासने समासीनं देवता न सहन्ते' । ततः स मायामुनिरुवाच- 'मम तपसः प्रभावाद् देवता न समर्था" । ततस्तया कुतो हेतोरागत इति पृष्टो 'मया षोडशाब्दीं निराहारं तपः कृतं मातुः स्तन्यमपि जन्मतो मया न पीतं, तत्पारणार्थं किञ्चिद् देहि । ततो रुक्मिणी जगौ - ' षोडशाब्दं तपो न क्वाऽपि श्रुतं चतुर्थादारभ्य वत्सरावधिकं तपः श्रुतम्' । ततः स उवाच- 'किं तवाऽनेन, यदि