________________
१६८
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः हन्तुमधावत् । तत्र च यवनस्य तैयुद्धे प्रवृत्ते रामानुजः सारणस्तं बाणवृष्ट्या रुरोध । यवनश्च मलयाख्यगजेन सारणरथं ससारथिमभञ्जयत् । ततः क्रुद्धः सारणोऽसिना यवनस्य शिरश्चकर्त्त । ततो जरासन्धः पुत्रवधं दृष्ट्वा क्रुद्धः सिंहो मृगानिव यदून् हन्तुमारेभे । तेन रणमुखस्था रामस्याऽऽनन्दाद्या दश सुता लीलयैव हताः । तद् दृष्ट्वा च कृष्णसैन्यं भयात् पलायिष्ट । जरासन्धश्च तदनुदधाव ।
इतश्च शिशुपालः कृष्णमाक्षिप्य धनुरास्फाल्य शरान् ववर्ष । कृष्णश्च बाणैस्तद्धनुः कवचं रथं च च्छित्त्वाऽसिमाकृष्य धावमानः शिशुपालस्य मूर्धानं चिच्छेद । ततः क्रुद्धो जरासन्धः पुत्रै राजभिश्च सह कृष्णमधावत । स एकोऽपि यदुसैन्यान् व्याधो मृगानिव बाणौधैर्विव्याध । केपि भटास्तस्य पुरतः स्थातुं नाऽशक्नुवन् । ततो जरासन्धबाणैः पीडितं यदुसैन्यं वातोद्धृतं तूलमिव दिशो दिशः पलायामास । तथाऽष्टाविंशतिर्जरासन्धपुत्रा राममभ्यधावन् । अन्ये चैकोनसप्ततिर्जरासन्धपुत्राः कृष्णं विष्णुं दानवा इव रुरुधुः। ततो रामकृष्णयोस्तैः सह दारुणं जन्यमजनि । रामश्चाऽष्टाविंशतिमपि तान् हलेनाऽऽकृष्य मुशलेन तण्डुलानिव चूर्णयामास । ___ ततः क्रुद्धो जरासन्धो रामं गदया ताडयामास । रामश्च तेन ताडितो रुधिरं ववाम । यदुसैन्ये च महान् हाहारवो जज्ञे । पुनर्बलभद्रं प्रजिहीर्षु जरासन्धमर्जुनोऽन्तरागत्य योधयामास । कृष्णश्च रामस्य पीडां दृष्ट्वा क्रुद्धस्तानेकोनसप्तति जरासन्धसुतान् हतवान् । ततो जरासन्धोऽर्जुनं त्यक्त्वा कृष्णमभिदधावे । ततश्च कृष्णो हत इति ध्वनि: सर्वत्र प्रावर्त्तत ।
ततो मातलिना स्वकुलक्षयनिवारणार्थं प्रेरितो नेमिरक्रुद्ध एव पौरन्दरं शङ्ख दध्मौ । तन्नादैश्च जरासन्धसैन्यं चुक्षुभे । यदुसैन्यं
अष्टमं पर्व - सप्तमः सर्गः स्वस्थीबभूव च । ततो मातलिना प्रेरितरथो नेमिररीस्त्रासयन् रणभूमौ सर्वत्र भ्रमन् शरान् ववर्ष । एवं परसैन्यानि हतौजस्कानि विधाय प्रभुर्नेमिस्तानि रुद्ध्वाऽस्थात् । लब्धोत्साहा यदुसैन्याश्च पुनर्योढुं प्रावर्त्तन्त । अत्राऽन्तरे च पाण्डवैर्धार्तराष्ट्राः सिंहैमूंगा इव हताः । रामोऽपि स्वस्थीभूय पुनः परसैनिकाननेकशो योधयित्वा जघान ।
इतश्च जरासन्धः कृष्णं कटुवचोभिराक्षिप्य शरान् मुमोच । कृष्णश्च सूर्यस्तम इव तान् निवारयामाम । तयोरेवं दारुणे युद्धे प्रवृत्ते सर्वास्त्रवैफल्ये विलक्षोऽमर्षणश्च जरासन्धश्चक्रं सस्मार । तदैव हस्तगतं चक्रं खे भ्रमयित्वा च स विजिगीषया कृष्णाय मुमोच । तस्मिश्चक्रे आपतति च नभसि खेचराः कृष्णसैन्यानि च वित्रेसुः । तन्निवारयितुं कृष्णो रामः पाण्डवा अन्ये नृपाश्चाऽपि स्वान्यस्त्राणि मुमुचुः । किन्तु तैरनिवारितं तच्चक्रमेत्य तुम्बेन कृष्णं वक्षस्यताडयत् । कृष्णश्च मूच्छितो रामकृतोपचारैराश्वेव लब्धसंज्ञ: पार्श्वस्थं तच्चक्रं पाणिनाऽऽददे । साम्ना प्रतिबोध्यमानमप्यप्रतिबुद्धं जरासन्धं तच्चक्रं प्रहत्य गतासुं चकार । स च मृतश्चतुर्थी नरकभूमिं ययौ । सुराश्च जयजयारावं कुर्वन्तः कृष्णस्योपरि पुष्पवृष्टिं चक्रुः ।।७।। इति अष्टमे पर्वणि शाम्बप्रद्युम्नविवाह-जरासन्धवर्णनात्मकः
सप्तमः सर्गः ॥७॥