________________
१७१
अष्टमः सर्गः अथ प्रभुर्नेमिनाथो जरासन्धसैनिकानमुञ्चत् । तेऽपि तं नमस्कृत्य 'त्वां शरणं प्राप्ताः स्म' इति वदन्तोऽग्रे तस्थुः । ततः प्रभुस्तैनृपैः सह कृष्णमुपययौ । कृष्णश्च प्रभुगिरा तान् स्वीचकार । तथा समुद्रविजयाज्ञया मगधचतुर्थांशं दत्त्वा सहदेवं पितुजरासन्धस्य पदे स्थापयामास । तथा महानेमि समुद्रविजयपुत्रं शौर्यपुरे हिरण्यनाभपुत्रं रुक्मनाभं कोशलायां राज्यमगृह्णत उग्रसेनस्य पुत्रं धरं मथुरायां च स्थापयामास । तदानीं च सूर्योऽस्तमियाय । प्रभुणा नेमिना विसृष्टो मातलिश्च दिवं ययौ । कृष्णस्तदाज्ञयाऽन्ये च नृपाः स्वं स्वं शिबिरं ययुः । समुद्रविजयश्च वसुदेवागमनोत्सुकः तत्रैवाऽस्थात् । ____ अथ द्वितीयदिवसे समुद्रविजयान्वितं कृष्णं तिस्रो विद्याधर्यः स्थविरा उपेत्योचुः-'प्रद्युम्न-शाम्बसहितो वसुदेवः शीघ्रमायाति । स हीत: स्थानात् पौत्राभ्यां विद्याधरैश्च सह वैताढ्यं प्राप्य तत्र रिपुभिर्विद्याधरैर्युयुधे । तेन सह पूर्वशत्रवो नीलकण्ठा-ऽङ्गारकाद्याः
खेचराः सम्भूय युयुधिरे । ह्यस्तने दिवसे च देवताभिर्जरासन्धो हत: कृष्णश्च विष्णुरभूदिति श्रुत्वा सर्वे विद्याधरा युद्धं त्यक्त्वा तद्वार्ता नृपाय 'मन्दरवेगाय शशंसुः । ततस्तदाज्ञया सर्वे तेन नृपेण सह महोपायनमादाय तत्राऽऽययुः । ततस्त्रिपथर्षभो नृपो वसुदेवाय
अष्टमं पर्व - अष्टम: सर्ग: निजां भगिनीं प्रद्युम्नाय पुत्रीं च ददौ । देवर्षभो वायुपथश्च निजपुत्र्यौ शाम्बाय ददतुः । अद्य वसुदेवेन सह ते सर्वेऽपि खेचरेन्द्राः समायान्ति, वयं चैतदाख्यातुं पुरः प्रेषिताः स्मः' । तास्वेवं कथयन्तीष्वेव सविद्याधरः प्रद्युम्न-शाम्बसहितो वसुदेवस्तत्राऽऽगमत् । खेचराश्च स्वर्ण-रत्न-गजा-ऽश्वादिविविधोपायनैः कृष्णमानचुः । ततः कृष्णो जयसेनप्रभृतीनां सहदेवश्च जरासन्धप्रभृतीनां प्रेतकार्य चक्राते । जीवयशाच पत्युः सकुलस्य पितुश्चाऽपि संहारं वीक्ष्याऽग्नौ प्रविश्य प्राणांस्तत्याज । तत्र कृष्णः सिनीपल्लीस्थाने यदवोऽत्राऽऽनन्दिता इत्यानन्दपुरं नाम पुरं चकार ।
तत: षड्भिर्मासैर्भरतार्धं संसाध्य खेचरेन्द्रैर्नृपैश्च सह कृष्णो मगधान् प्राप । तत्रैकयोजनोन्नतामेकयोजनविस्तारां भरतार्धवासिदेवताधिष्ठितां कोटिशिलां नाम शिलां वामेन बाहुना चतुरङ्गुलं भूमित उद्धृत्य पुनर्यथास्थिति मुमोच । तां शिलां हि प्रथमो विष्णुर्भुजाये, द्वितीयो मूनि, तृतीयः कण्ठे, चतुरथ उरःस्थले, पञ्चमो हृदि, षष्ठः कट्यां, सप्तम ऊर्वोरष्टम आजानू दधे । नवमस्तु क्रमाद् बलहासाच्चतुरङ्गुलम् । ततः कृष्णो द्वारकामागत: षोडशसहस्त्रनुपैर्देवैश्चाऽर्धचक्रित्वेऽभिषिक्तः । ततः कृष्णः पाण्डवान् कुरुदेशायाऽपरान् नृपांश्च खेचरांश्च स्वस्वस्थानाय विससर्ज । दशादियश्च कृष्णं सेवयामासुः । षोडशसहस्रा नृपाश्च कृष्णाय रत्नानि द्वे द्वे कन्यके च ढौकयामासुः । कृष्णश्च ताभ्यः षोडशसहस्राः कन्या, बलभद्रोऽष्टौ सहस्राः कुमाराश्च तावती: परिणिन्युः । कृष्णादयश्च रमणीभित्ता उद्यानादिषु स्वैरं रेमिरे ।