________________
षष्टिशलाकापुरुषचरितम् गद्यात्मकसारोद्धारः
अथ समुद्रविजय: शिवादेवी च तान् क्रीडतः प्रेक्ष्य स्नेहाद् नेमिमूचिरे- 'अनुरूपवधूपाणिग्रहणेनाऽस्मान् प्रीणय' । ततो नेमिप्रभुरुवाच- 'अनुरूपा: कन्या न पश्यामि एता हि पातायैव भवन्ति, यद्यनुरूपा मिलिष्यन्ति तदा परिणेष्ये'। एवं नेमिना सरलौ पितरौ सविशेषार्थया वाण्या विवाहाग्रहाद निवारितौ ।
१७२
इतश्च यशोमत्या जीवोऽपराजिताच्च्युत्वोग्रसेन भार्याया धारिण्याः कुक्षाववाततार । तस्याश्च धारिण्याः पूर्णे समये राजीमती नाम रूप- लावण्यसीमा कन्या जाता क्रमेण ववृधे च ।
इतश्च द्वारकावासी धनसेन उग्रसेनपुत्राय नभः सेनाय कमलामेलां नाम पुत्रीं ददौ । नभःसेनस्य गृहे तदानीमागतो नारदश्च विवाहोत्सवव्यग्रचित्तेन तेन न पूजितः । ततो नारदस्तस्याऽनिष्टेच्छया रामपुत्रनिषधपुत्रं शाम्बादीनां प्रियं सागरचन्द्रमुपजगाम । तेन चाऽभ्युत्थाय सत्कृत्य किञ्चिदाश्चर्यं दृष्टं किमिति पृष्टो नारद उवाच-धनसेनस्य कन्यका कमलामेला जगत्याश्चर्यभूताऽत्रैव दृष्टा । साऽधुनैव नभः सेनाय दत्ता' । एवमुक्त्वा सोऽन्यतो ययौ सागरश्च तदनुरक्तस्तामेव दध्यौ तन्नामैव जजाप तामेव सर्वतो
ऽपश्यच्च ।
नारदश्च कमलामेलागृहं गत्वा तया सत्कृत्याऽऽश्चर्यं पृष्टश्चोवाच- 'द्वे आश्चर्ये मया दृष्टे, तयोरेकः कुमारः सागरचन्द्रो रूपसम्पदाऽन्यश्च नभःसेनः कुरूपत्वत आश्चर्यम्' । ततः सा नभःसेनं विहाय सागरे रागवती जाता। नारदश्च गत्वा सागराय तद्वृत्तं शशंस । सागरं च विरहसागरे पतितं दृष्ट्वा पितरौ कुमाराश्च दुःखिता बभूवुः । तदानीं तत्राऽऽगतः शाम्बश्च पृष्ठतः स्थित्वा
अष्टमं पर्व अष्टमः सर्गः
सागरचन्द्रस्य नेत्रैर्पाणिभ्यां पिदधौ । सागरेण कमलामेलाऽसि किमित्युक्ते एष कमलामेलोऽस्मीति जगाद । ततः सागर उवाच - 'त्वमेव मे कमलां मेलयिष्यसि ममाऽन्योपायचिन्तयाऽलम्' ।
१७३
शाम्बश्च तद्वचः स्वीकुर्वन्नेव सर्वैः सह तं मद्यं पाययित्वा छलयित्वा च मानयामास । शाम्बश्च मदे गते दध्यौ - 'मया दुष्करं किं स्वीकृतम् ? अधुना तु कथञ्चित् तद् निर्वाह्यमेव' । एवं ध्यात्वा प्रज्ञप्तिं स्मृत्वा शाम्बः कुमारैः सह विवाहदिने नभः सेनस्योद्यानमगात् । तत्र सुरङ्गद्वारेण तत्र कमलामेलामानाय्य सागरचन्द्रेण परिणाययामास । इतश्च पितृश्वसुरवर्गीयाः कमलामेलां गृहेऽपश्यन्तः इतस्ततस्तामन्वेषयन्त उद्यानं ययुः । कृतविद्याधररूपाणां यदूनां मध्ये तां दृष्ट्वा कृष्णाय निवेदयामासुः । कृष्णश्च क्रुद्धो दुर्नयाक्षमी तान् कमलामेलाहर्तृनुपेत्याऽयोधयत् । ततः शाम्बः स्वरूपमास्थाय कमलामेलया सह सागरचन्द्रं गृहीत्वा कृष्णस्य पादयोः पपात । ततो निरुपायः कृष्णस्तान् निर्भर्त्स्य नभःसेनं बोधयित्वा कमलामेलां सागरायैव ददौ । नभःसेनश्चाऽपकर्तुमशक्तस्तप्रभृत्येव सागरचन्द्रस्य च्छिद्रं मार्गयामास ।
इतश्च प्रद्युम्नस्य वैदर्भ्यां भार्यायां जातोऽनिरुद्धो नाम पुत्रो यौवनं प्रपन्नवान् । तदानीं च शुभनिवासाख्ये नगरे बाणस्य खेचरेन्द्रस्योषा नाम सुताऽभूत् । सा च रूपवती स्वानुरूपवरेच्छया गौरीं विद्यामाराधयामास । सा च विद्या प्रसन्ना 'कृष्णस्य पौत्रोऽनिरुद्धस्ते वरो भवितेत्युवाच । बाणेन च गौरीविद्याप्रियः शङ्करो नाम सुर आराधितस्तस्य रणेऽजय्यत्वं ददौ । ततो गौरीविद्या तमूचे- 'त्वया बाणस्य सर्वत्राऽजय्यत्ववरप्रदानं कृतं तद् नोचितं यतो मयोषाया वरो दत्तोऽस्ति' । ततः शङ्करो