________________
पुरुष-गद्यात्मकसारोद्धारः
बाणमवदत्-त्वं स्त्रीकार्यादन्यत्राऽजय्योऽसि, बाणश्च तेनाऽपि सुप्रसन्नोऽभूत् । तथा बाणादतिसौन्दर्यात् खेचरैर्नृपैश्चोषा याचिता । किन्तु स कस्मा अपि तां न ददौ ।
१७४
तत उषा चित्रलेखां विद्याधरीं प्रेष्याऽनिरुद्धं स्वगृहमानाययत् । अनिरुद्धश्च तां गान्धर्वेण विवाहेन परिणीयाऽऽदाय चलन्ननिरुद्धोऽहमुषां हृत्वा गच्छामीति जगाद । ततो व्याधः कुक्कुरैः शूकरमिव बाणः सैन्यैस्तं रुरोध । तदानीं चोषा पाठसिद्धां विद्यां पत्ये ददौ । तया वर्धितौजाश्चऽऽनिरुद्धो बाणेन चिरं युयुधे । किन्तु बाणेन नागपाशेनाऽनिरुद्धो बद्धः । कृष्णश्च प्रज्ञप्त्या तद् विज्ञाय राम-प्रद्युम्न - शाम्बादिसहितस्तत्राऽऽगतवान् । ततो नागपाशा गरुडध्वजदर्शनाद् दुद्रुवुः ।
बाणश्च शङ्करदत्तवरेणाऽऽत्मबलेन च गर्वितः कृष्णो निर्भर्त्सयामास । तत: कृष्ण उवाच- 'नेदं तवोचितं, कन्या ह्यवश्यं कस्मैचिद् दातव्या । ततस्तद्वरणेऽनिरुद्धस्य न कोऽपि दोष:' । तेन क्रुद्धो बाणो विष्णवे बाणांश्चिक्षेप । कृष्णश्च तान् मध्य एव च्छित्त्वा चिरं योधयित्वा निरस्त्रीकृत्य खण्डशो निकृत्य च बाणं गतासुं चकार । तत उषासमन्वितमनिरुद्धमादाय रामादिभिः सह कृष्णो द्वारकां ययौ ॥८॥
इति अष्टमे पर्वणि सागरचन्द्रोपाख्यान - उषाहरणबाणवधवर्णनात्मकोऽष्टमः सर्गः ॥ ८ ॥
नवमः सर्गः
अथैकदा नेमिः कुमारैः सह भ्रमन् कृष्णस्याऽस्त्रागारं प्रविष्टवान् । तत्र चाऽतिभास्वरं चक्रं शार्ङ्गं कौमोदकीं खड्गं पाञ्चजन्यं च दृष्टवान् । तत्र च नेमिं कौतुकाच्छ जिघृक्षं ज्ञात्वाऽस्त्रगृहरक्षकश्चारुकृष्णः प्रणम्योवाच- 'बलवान् कृष्णभ्राताऽपि भवान् शङ्खमुद्धर्तुमपि न शक्नोति' । ततो नेमिर्लीलयैव तं शङ्खमुद्धृत्य वादयामास । तध्वनेश्च रोदसी पूर्णे प्राकारप्रासादादयश्च चकम्पिरे । बल-कृष्णादयश्च क्षोभमुपगताः, पुरीजना अमूर्च्छन्, गजा आलानमुन्मूल्य त्रेसुरश्वा वल्गामप्यविगणप्य पलायिताः, अस्त्रागाररक्षकाश्च निपेतुः ।
ततः कृष्णः केनैष शङ्खो मम रामस्य च क्षोभकरो वादित इति तर्कयामास । तदानीमेव चाऽऽरक्षाः समेत्य नेमिना शङ्खो ध्मात इति निवेदयामासुः । कृष्णे तदश्रद्दधाने तदैव नेमिरपि तत्राऽऽययौ । कृष्णेन च सगौरवमासने समुपवेशितेन नेमिना 'शङ्खो मया ध्मात' इति ज्ञातम् । ततस्तद्दोर्बलं दिदृक्षुः कृष्णो मदपरैरध्मेयः शङ्खस्त्वया ध्मात इति प्रशस्य मया सह बाहुयुद्धेन स्वदोर्बलं दर्शयेति नेमिमुक्तवान् | नेमिना च तत् स्वीकृते तौ द्वौ कुमारैः सहाऽस्त्रागारं जग्मतुः । प्रकृतिदयालुर्नेमिश्च कृष्णस्य यथा न दुःसह आघातो मम भुजबलप्रत्ययश्च यथा स्यादिति विचार्य कृष्णमुवाच - आवयोबहूनामनेनैव युद्धमस्तु' ।