________________
१७६
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः तत: कृष्णस्तत् प्रपद्य सर्वबलेनाऽपि नेमेर्भुजं नामयितुं न शशाक । नेमिश्च कमलनालवत् तद्भुजं लीलया नामयामास । ततः कृष्णः स्वविलक्षतां गोपयन् नेमिमालिङ्ग्य तव बलेनाऽहं विश्वं तृणं मन्ये इति प्रशस्य विसृज्य च राममुवाच-त्वया भ्रातुर्वीय लोकोत्तरं दृष्टम्, अस्य बलेन चक्री वज्यपि न तुल्यः, ईदृशबलेन किमयं समग्रं भारतं न साधयति ?' ततो राम उवाच-'यथाऽयं बलेनाऽप्रतिमस्तथा शान्तया मूर्त्या राज्यनि:स्पृहोऽपि लक्ष्यते ।
रामवचसा साशङ्कं कृष्णं च देवतोवाच-'पुरा नमिजिनेन कुमार एव नेमिस्तीर्थकरो भविष्यतीत्युक्तं, तदस्य राज्येन न प्रयोजनं. जन्मतो ब्रह्मचार्ययं समये प्रव्रज्यां ग्रहीष्यति' । तच्छृत्वा प्रसन्नः कृष्णो रामं विसृज्याऽन्तःपुरं गत्वा नेमिमाहूय द्वावपि वारस्त्रीभिर्दत्तैर्घटजलैः स्नानं सम्पाद्य विहितनेपथ्यौ भोजनं चक्रतुः । ततः कृष्णः सौविदल्लान् ममाऽयं भ्राताऽन्तःपुरे न क्वाऽपि प्रतिषेध्यः । अयं सर्वासामपि भ्रातृजायानां मध्ये रमताम् । तथा मम प्रियोऽयं भवतीनां देवरः सर्वथा मान्य इति भामाद्या भार्याश्चोवाच । नेमिश्च भोगविमुखोऽन्तःपुरे ताभिः सत्कृतो निर्विकारं विजहार । ___अथाऽन्यदा वसन्ते कृष्णः सान्तःपुरः सपरिजनपरिच्छदोनेमिसहितो रैवतकोद्यानं ययौ । तत्र च सर्वे स्वैरं रेमिरे । कृष्णोऽपि नेमिना सह भामादिपत्नीपरिवृतः क्रीडयामास । तदानीं च नेमिं पश्यन् कृष्णो दध्यौ-'यदि नेमेर्भोगे मन: स्यात् तदा समृद्धिसाफल्यं मम सौभ्रानं च, तदयं मया प्रयत्नैर्भोगाभिमुखः कार्यः' । एवं विचार्य स कृष्णो माल्यं ग्रथित्वा नेमेः कण्ठे स्वयं निदधौ । सत्यभामाद्या अपि विदग्धा नानाहावभावैः क्रीडया च नेमिमुपचेरुः । नेमिरपि निर्विकारं तासूचितमुपाचरत् । एवं
अष्टमं पर्व - नवमः सर्गः विविधक्रीडाभिस्तत्राऽहोरात्रं स्थित्वा कृष्णः सपरिच्छदो द्वारकां जगाम । समुद्रविजयादयश्च सर्वदा नेमिपाणिग्रहणोत्सुकास्तस्थुः । ___ अथ ग्रीष्मे समायाते पुनः कृष्णो नेमिना सह सपरिच्छदो रैवतकोद्यानसरो जगाम । सनेमिश्च कृष्णः सपरिच्छदो जलक्रीडार्थ तत्र विवेश । तत्र स्त्रीभिर्विविधां क्रीडां विधाय कृष्णो नेमिः सत्यभामादयश्च जलाद् निर्गत्य तीरे तस्थुः । ततो रुक्मिणी रत्नासनं दत्त्वा निजोत्तरीयेण नेमेरङ्गं प्रमार्जयामास । ततो भामोवाच-किमेकामपि कन्यां न परिणयसि ? तव रूपमप्रतिम यौवनं न नवोद्गतं, किमेवं तिष्ठसि ? अस्माकं प्रार्थनां स्वीकुरुष्व भ्रातृणामस्माकं च समीहितं कुरुष्व । यथाऽन्ये जिना: परिणीयाऽपि तीर्थं प्रावर्त्तयंस्तथा त्वमपि कर्तुमर्हसि ।
एवं जाम्बवत्याद्या अपि विविधैः प्रकारैर्नेमि प्रार्थयामासुः । अन्ते च सर्वा रुक्मिण्याद्या युवतयः परिणयाय कृताग्रहाः नेमेः पादयोर्निपत्य प्रार्थयामासुः । यदवश्चाऽपि तं बोधयामासुः । ततो नेमिः समये आत्महितं विधेयमिति मनसि कृत्वा तद्वचः स्वीचकार । तच्छ्रुत्वा च सर्वे समुद्रविजयादयो मुमुदिरे । कृष्णश्च तत्र ग्रीष्ममतिवाह्य सपरिच्छदो नेमियोग्यकन्यादर्शनोत्सुको द्वारकां जगाम ।
अथ सत्यभामा कृष्णमुवाच-'मम कनिष्ठा भगिनी राजीमती नेमेरनुरूपा' । कृष्णश्च तच्छ्रुत्वा तां प्रशस्योत्थायोग्रसेनगृहं प्राप्तस्तेन सत्कृत्य सिंहासने समुपवेश्याऽऽगमनकारणं पृष्टस्ते कन्या राजीमती मदनुजस्य नेमेरनुरूपेति जगाद । भोजश्च मद्भाग्यादेव तवाऽस्मद्गृहे समागमनमिति कृष्णमभिनन्द्य तद्वचः स्वीचकार ।