________________
१७८
त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः
कृष्णश्च तदुक्त्या प्रसन्नः सद्यो गत्वा समुद्रविजयाय तद्वृत्तान्त-माख्यात् । समुद्रविजयश्च कृष्णकार्यं प्रशस्य क्रोष्टुकिमाहूय नेमिराजीमत्योर्विवाहमुहूर्तं पप्रच्छ । ततः क्रोष्टुकिरुवाच- 'ग्रीष्मानन्तरं विवाहसमयो युज्यते' । ततः समुद्रविजयस्य नेमिविवाहे कालक्षेपासहिष्णुत्वं दृष्ट्वा श्रावणस्य शुक्लषष्ठ्यां विवाहमुहूर्त्तमाख्यत् ।
नृपश्च क्रोष्टुकिं सत्कृत्य विसृज्य दूतेन तन्मुहूर्तं भोजाय निवेदयामास । ततश्चोभयत्र विवाहोत्सवसज्जा प्रक्रान्ता । विवाहसमीपदिने च कृष्णाद्याः सत्यभामाद्याश्च नेमिं स्नान - भूषणकरसूत्रादिना भूषयामासुः । तदनन्तरं च कृष्ण उग्रसेनगृहं गत्वा राजीमतीमपि स्वयं तथैव सज्जयामास । पुनः स्वगृहमागत्य रात्रि व्यतीत्य विवाहगृहं गन्तुं नेमिं प्रेरयामास । ततो नेमिः श्वेताश्वरथमारूढः सपरिजनपरिच्छदो महद्धय राजमार्गे प्रतस्थे । पौर्य: पौराश्च सकौतुकं तं प्रशंसन्तो ददृशुः । एवं स नेमिरुग्रसेनगृहमाजगाम ।
राजीमत्यपि सखीभिरुत्तमवरलाभेनाऽभिनन्द्यमाना ताभिः सह नेमिमागच्छन्तं द्रष्टुं गवाक्षं प्राप्य तत्र विमानगर्भे देवीवोपविवेश । दूरादपि चाऽप्रतिमरूपं नेमिं दृष्ट्वा तादृशवरलाभेन जन्मसाफल्यं मन्यमानां स्वं प्रशशंस । तथाऽयं परिणयनार्थं स्वयमिहाऽऽयातोऽस्ति, तथाऽपि मे न विश्वासः पुण्यैर्ह्ययं प्राप्य' इत्येवं चिन्तयन्ती सा तदानीमेव स्फुरितं दक्षिणनेत्रमश्रूणि मुञ्चन्ती सगद्गदं सखीनामा - ख्यत् । सख्यश्चाऽनिष्टशङ्का मङ्गलप्रसङ्गे न कार्येति तामाश्वासयामासुः ।
नेमिश्चाऽऽगच्छन् प्राणिनां करुणस्वरं श्रुत्वा जानानोऽपि किमेतदिति सारथिं पप्रच्छ । ततः सारथिरुवाच- 'स्वामिन् !
अष्टमं पर्व नवमः सर्गः विवाहनिमित्तभोज्योत्सवे नानाप्राणिनो मेषादयः पक्षिणश्चाऽऽनीताः पाकार्थं गतासवो भविष्यन्ति । ते चाऽऽरक्षै रक्ष्यमाणाः सम्प्रति वाटकमध्ये प्राणभयादारटन्तस्तिष्ठन्ति । तच्छ्रुत्वा दयालुर्नेमि - 'में रथं तत्र नये ति सारथिमादिदेश । तत्र गत्वा च ग्रीवादिषु रज्जुभिर्बद्धान् दीनेक्षणान् कम्पमानगात्रान् तान् दृष्ट्वा तैः पाहि पाहीति स्वस्वभाषया प्रार्थितस्तानमोचयत् । तेषु प्राणिषु स्वस्वस्थानं गतेषु च नेमिः स्वरथं गृहं प्रति नेतुमादिशत् ।
ततः कृष्णादिभिः कुतो निवर्त्तसे इति पृष्टो बन्धनैः प्राणिन इव वयमपि कर्मबन्धनबद्धाः, यथा चैषां बन्धनाद् मोक्षस्तथाऽहमपि स्वं कर्मबन्धनाद्मोक्तुं दीक्षामादास्ये' इति नेमिप्रभुरुवाच । ततः कृष्णो रुदतः समुद्रविजयादीन् समाश्वास्य नेमिमुवाच'रूप-यौवनादिभिस्त्वमप्रतिमोऽसि, राजीमती च तवाऽनुरूपा, तद्वैराग्यकारणं ब्रूहि । एते पशवश्चाऽपि मोचिताः तद्बान्धवानां मनोरथान् पूरयितुमर्हसि, शोकमग्नौ पितरौ कृपया नन्दय' ।
१७९
ततो नेमिरुवाच- 'भवे प्राणिनां दुःखमेव, तदेव वैराग्यकारणम् । पितृ-भ्रात्रादयश्च भवे भवे भवन्ति, सर्वैः स्वं कर्म भुज्यते, नह्यन्येनाऽन्यस्य दुःखं च्छेत्तुं शक्यते । पुत्रादिषु सत्स्वपि पित्रादयो जरामरणादिकं गच्छन्ति । महानेमिप्रभृतयो नेत्रानन्दप्रदाः पुत्रास्तातस्य सन्त्येव । अहं भवभ्रमणखिन्नो भवोच्छेदाय दीक्षामादास्ये । प्रव्रज्यां विना न कर्मच्छेदसम्भव:, तन्मां वृथा मा वारय' ।
ततः समुद्रविजयेन सुकुमारशरीरेण त्वया कथं परीषहा: सहनीया इत्युक्तः प्रभुरुवाच एतदल्पं दुःखं भवे उपर्युपरि नरकादिदुःखं घोरतरं, तपोदुःखैस्तु निरतिशयसुखात्मको मोक्षो