Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 05
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
१०४
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः __ ततः साशङ्को जरासन्धः समुद्रविजयमब्रवीत्-'नाऽयं केवलं तूर्यवादकः, किन्तु नृपाणामसाध्यश्च । तदेनं स्वयं जहि, अस्मिन् हते च रोहिणी तवैव स्यात् । सर्वेषां नृपाणां विषादमपाकुरु' । ततः समुद्रविजय उवाच-'परदारैर्न मे प्रयोजनं, किन्तु तवाऽऽज्ञयाऽहमनेन बलिना योत्स्ये' । एवमुक्त्वा स भ्रात्रा सह युयुधे । तदानीं च सर्वाश्चर्यकरं तयोः शस्त्राशस्त्रियुद्धमभूत् । 'मय्यपि समर्थः कोऽसावि'ति यावत् समुद्रविजयो दध्यौ तावद् वसुदेवस्तदग्रतः साक्षरं बाणमक्षिपत् । समुद्रविजयश्च बाणं गृहीत्वा तद्वर्णान् वाचयामास-'तदानीं छलेन निर्गतो वसुदेवस्त्वां नमति' ।
ततः प्रसन्नः समुद्रविजयो वत्स ! वत्स ! इति ब्रुवन् रथमुत्सृज्य दधाव । वसुदेवोऽपि रथादवतीर्य तत्पादयोः पपात । समुद्रविजयश्च तमुत्थाप्य बाहुभ्यामालिलिङ्ग । तथा 'वत्स ! वर्षशतं क्वाऽस्था' इति समुद्रविजयेन पृष्टो वसुदेवः सर्व वृत्तान्तमादितः कथयामास । तदा तादृशपराक्रमशालिना भ्रात्रा यथा समुद्रविजयोऽहष्यत् तथा तादृशेन जामात्रा रुधिरनृपोऽप्यहृष्यत् । जरासन्धश्च स्वसामन्तबन्धुं तं ज्ञात्वा कोपं जहौ । ततः प्रसङ्गाद् मिलितै राजभिः कृतमहोत्सवपूर्वकं शुभे दिने रोहिणीवसुदेवयोर्विवाहो जातः । रुधिरश्च जरासन्धादीन् नृपान् सत्कृत्य व्यसृजत् । यादवास्तु कंससहितास्तत्र वर्षं यावत् तस्थुः । ___ अथाऽन्येधुर्वसुदेवो रहसि रोहिणीमपृच्छत्-'त्वया नृपान् मुक्त्वा तौयिकोऽप्यहं कथं वृतः ?' ततो रोहिण्युवाच-"अहं सदा प्रज्ञप्ति विद्यामार्चयम् । तया चाऽऽख्यातं यद् दशमो दशार्हस्तव वरो भविता । स च त्वया स्वयंवरे पटहवादनेनोपलक्षणीयः" । तदा तत्प्रत्ययाद् मया त्वं वृतोऽसि ।
अष्टमं पर्व - चतुर्थः सर्गः
अन्यदा च समुद्रविजयादिषु सभास्थितेषु सत्सु काऽप्यर्धजरत्याऽऽशिषं ददाना गगनादवतीर्य वसुदेवमुवाच-'अहं बालचन्द्रामाता नाम्ना धनवतीपुत्र्याः कृते त्वां नेतुमागताऽस्मि, सा मे पुत्री बालचन्द्रा-वेगवती च त्वद्वियोगादत्यन्तं दुःखिते तिष्ठतः' । ततो वसुदेवः समुद्रविजयाज्ञया शीघ्रमेव राजानं क्षमयित्वा तया सह विमानेन गगनवल्लभपुरं ययौ । समुद्रविजयोऽपि कंसेन सह स्वपुरं गत्वा वसुदेवागमनोत्सुकस्तस्थौ । वसुदेवश्च विद्याधरेन्द्रेण काञ्चनदंष्ट्रेण नृपेण कल्पितां चन्द्रमुखीं बालचन्द्रा परिणीतवान् । ___ अथ स पूर्वं परिणीता नृपकन्या निजनिजस्थानादादाय विद्याधरैरन्वितो विमानाच्छौर्यपुरमगात् । तत्र सः सोत्कण्ठितेन समुद्रविजयेन जलधिना चन्द्र इव सादरमाश्लिष्टः ॥ ४ ॥ इति अष्टमे पर्वणि वसुदेवहिण्डिवर्णनात्मकः
चतुर्थः सर्गः ॥ ४॥

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159