Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 05
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 68
________________ anna ११० त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः अथ पूर्वं गृहीतव्रत: कंसानुजोऽतिमुक्तो मुनि: पारणार्थ कंसगृहे समागात् । तदानीं च कंसपत्नी जीवयशा मत्ता- 'देवर ! अस्मिन्नुत्सवदिने साधु समागतोऽसि, मया साधु नृत्य गाय चे'त्यादि बहुधा कण्ठे लगित्वा गृहस्थवत् तं कथितवती । ततो ज्ञानी स उवाच-'यन्निमित्तोऽयमुत्सवस्तस्याः सप्तमो गर्भस्त्वत्पतिपित्रोर्हन्ता' । वज्रसदृशं तद्वाचं श्रुत्वा च जीवयशा भयाद् गतमदा तं मुनि मुमोच । तथा झटिति गत्वा कंसाय सर्वमाख्यच्च । ___ ततः कंसो दध्यौ-'मुनिवचो न मिथ्या, तद्यावत् कोऽपि न जानाति तावद् देवक्या अनागतान् सप्ताऽपि गर्भान् वसुदेवं याचे । यदि याचितो न दास्यति, तदाऽन्यथा यलं करिष्ये, यथा मम कुशलं भवेत्' । एवं विचार्य सोऽमदोऽपि मदावस्थामभिनयन् दूरादेव कृताञ्जलिर्वसुदेवमुपजगाम । वसुदेवश्चाऽभ्युत्थाय तं यथोचितं सत्कृत्य स्वपाणिना परामृशन् ससम्भ्रममुवाच-'मम प्राणप्रियो मित्रमसि, त्वं किञ्चिद् विवक्षुरिव लक्ष्यसे, त्वदिष्टं ब्रूहि, यतस्तत् करोमि' । ततः कंस उवाच-'त्वयाऽग्रेऽपि कृतार्थीकृतोऽहं जरासन्धाज्जीवयशोदापनेन, अधुना जातमात्रान् देवक्याः सप्तगर्भान् याचे' । वसुदेवश्च सरलबुद्धिस्तथेति प्रत्यपद्यत । देवक्यपि च वृत्तान्तानभिज्ञैवमस्त्वित्यमन्यत । कंसश्च मयि युवयोः प्रसादोऽयमित्युक्त्वा वसुदेवेन सह सुरां पीत्वा स्वगृहं ययौ । पश्चाच्च वसुदेवो मुनिवृत्तान्तं ज्ञात्वा सत्यवादी कंसेन च्छलितोऽस्मीति भृशं पश्चात्तापमकरोत् । इतश्च भहिलपुरे नागस्तत्पत्नी सुलसा च श्रेष्ठिनौ परमश्रावकावभूताम् । चारणपिरतिमुक्तश्च सुलसायाः शैशवे कथितवान् अष्टमं पर्व - पञ्चमः सर्गः 'यदसौ बाला मृतवत्सा भविष्यति' । ततस्तया विष्णोर्नंगमेषीदेवस्तपसाऽऽराधितः । तुष्टश्च स तया पुत्रान् याचितोऽवधेत्विोवाच-'अहं कंसेन हन्तुं याचितान् देवकीगर्भान् गर्भसञ्चारेण तवाऽर्पयिष्यामि' । एवमुक्त्वा स निजशक्त्या देवकी-सुलसे सहैव पुष्पवत्यौ व्यधात् । तथा ते समं गुविण्यौ बभूवतुः, समं च सुषुवाते । देवश्च सुलसाया मृतं गर्भ सञ्चार्य देवकीगर्भं सुलसायै ददौ । एवं स देवस्तयोः षड्गर्भान् परिवर्त्तयामास । कंसोऽपि च मृतवत्सायाः सुलसाया गर्भान् ग्राणि दृढमास्फालयामास । ते च षड् देवकीगर्भाः सुलसाया: स्तनन्धयास्तद्गृहे स्वपुत्रवदवर्धन्त । ते च नाम्नाऽनीकयशा अनन्तसेनोऽजितसेनो निहितारिदेवयशा शत्रुसेनश्चाऽभूवन् । अथ पुष्पवती देवकी सुखसुप्ता राज्यन्ते सिंह-सूर्या-ऽग्निगज-ध्वज-विमान-पद्मसरांसि स्वप्ने दृष्टवती । शुक्राद् गङ्गदत्तश्च च्युत्वा तस्याः कुक्षाववातरत् । सा च तत्प्रभृति गर्भ धारयामास । पूर्णे समये च सा नभःसिताष्टम्यां निशीथे सन्निहितदेवं शत्रुशातनं कृष्णं सुतमसूत । देवताश्च तदानीं कंसायुक्तान् यामिकान् स्वशक्त्या निद्रितानकार्षुः । देवकी च पतिमाहूयाऽवोचत्-'पापेन कंसेन वचसा बद्धोऽसि,असौ जातं जातं मम सुतं हन्ति, अमुं पुत्रं छलेनाऽपि रक्ष, भ्रूणरक्षणाद् मायाऽपि पापाय न स्यात् । ममेम बालकं नन्दस्य गोकुलं गत्वा मुञ्च । असौ तत्र मातामहस्य गृह इव वृद्धिमेष्यति' । ततो वसुदेवस्तां साधु साध्विति जल्पन् स्नेहवशो बालमादाय तद्गृहाद् निरगात् । तदानीं च देवतास्तस्योपरि च्छत्रं दधुः पुष्पवृष्टि

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159