________________
anna
११०
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः अथ पूर्वं गृहीतव्रत: कंसानुजोऽतिमुक्तो मुनि: पारणार्थ कंसगृहे समागात् । तदानीं च कंसपत्नी जीवयशा मत्ता- 'देवर ! अस्मिन्नुत्सवदिने साधु समागतोऽसि, मया साधु नृत्य गाय चे'त्यादि बहुधा कण्ठे लगित्वा गृहस्थवत् तं कथितवती । ततो ज्ञानी स उवाच-'यन्निमित्तोऽयमुत्सवस्तस्याः सप्तमो गर्भस्त्वत्पतिपित्रोर्हन्ता' । वज्रसदृशं तद्वाचं श्रुत्वा च जीवयशा भयाद् गतमदा तं मुनि मुमोच । तथा झटिति गत्वा कंसाय सर्वमाख्यच्च । ___ ततः कंसो दध्यौ-'मुनिवचो न मिथ्या, तद्यावत् कोऽपि न जानाति तावद् देवक्या अनागतान् सप्ताऽपि गर्भान् वसुदेवं याचे । यदि याचितो न दास्यति, तदाऽन्यथा यलं करिष्ये, यथा मम कुशलं भवेत्' । एवं विचार्य सोऽमदोऽपि मदावस्थामभिनयन् दूरादेव कृताञ्जलिर्वसुदेवमुपजगाम । वसुदेवश्चाऽभ्युत्थाय तं यथोचितं सत्कृत्य स्वपाणिना परामृशन् ससम्भ्रममुवाच-'मम प्राणप्रियो मित्रमसि, त्वं किञ्चिद् विवक्षुरिव लक्ष्यसे, त्वदिष्टं ब्रूहि, यतस्तत् करोमि' ।
ततः कंस उवाच-'त्वयाऽग्रेऽपि कृतार्थीकृतोऽहं जरासन्धाज्जीवयशोदापनेन, अधुना जातमात्रान् देवक्याः सप्तगर्भान् याचे' । वसुदेवश्च सरलबुद्धिस्तथेति प्रत्यपद्यत । देवक्यपि च वृत्तान्तानभिज्ञैवमस्त्वित्यमन्यत । कंसश्च मयि युवयोः प्रसादोऽयमित्युक्त्वा वसुदेवेन सह सुरां पीत्वा स्वगृहं ययौ । पश्चाच्च वसुदेवो मुनिवृत्तान्तं ज्ञात्वा सत्यवादी कंसेन च्छलितोऽस्मीति भृशं पश्चात्तापमकरोत् ।
इतश्च भहिलपुरे नागस्तत्पत्नी सुलसा च श्रेष्ठिनौ परमश्रावकावभूताम् । चारणपिरतिमुक्तश्च सुलसायाः शैशवे कथितवान्
अष्टमं पर्व - पञ्चमः सर्गः 'यदसौ बाला मृतवत्सा भविष्यति' । ततस्तया विष्णोर्नंगमेषीदेवस्तपसाऽऽराधितः । तुष्टश्च स तया पुत्रान् याचितोऽवधेत्विोवाच-'अहं कंसेन हन्तुं याचितान् देवकीगर्भान् गर्भसञ्चारेण तवाऽर्पयिष्यामि' । एवमुक्त्वा स निजशक्त्या देवकी-सुलसे सहैव पुष्पवत्यौ व्यधात् । तथा ते समं गुविण्यौ बभूवतुः, समं च सुषुवाते । देवश्च सुलसाया मृतं गर्भ सञ्चार्य देवकीगर्भं सुलसायै ददौ । एवं स देवस्तयोः षड्गर्भान् परिवर्त्तयामास । कंसोऽपि च मृतवत्सायाः सुलसाया गर्भान् ग्राणि दृढमास्फालयामास । ते च षड् देवकीगर्भाः सुलसाया: स्तनन्धयास्तद्गृहे स्वपुत्रवदवर्धन्त । ते च नाम्नाऽनीकयशा अनन्तसेनोऽजितसेनो निहितारिदेवयशा शत्रुसेनश्चाऽभूवन् ।
अथ पुष्पवती देवकी सुखसुप्ता राज्यन्ते सिंह-सूर्या-ऽग्निगज-ध्वज-विमान-पद्मसरांसि स्वप्ने दृष्टवती । शुक्राद् गङ्गदत्तश्च च्युत्वा तस्याः कुक्षाववातरत् । सा च तत्प्रभृति गर्भ धारयामास । पूर्णे समये च सा नभःसिताष्टम्यां निशीथे सन्निहितदेवं शत्रुशातनं कृष्णं सुतमसूत । देवताश्च तदानीं कंसायुक्तान् यामिकान् स्वशक्त्या निद्रितानकार्षुः । देवकी च पतिमाहूयाऽवोचत्-'पापेन कंसेन वचसा बद्धोऽसि,असौ जातं जातं मम सुतं हन्ति, अमुं पुत्रं छलेनाऽपि रक्ष, भ्रूणरक्षणाद् मायाऽपि पापाय न स्यात् । ममेम बालकं नन्दस्य गोकुलं गत्वा मुञ्च । असौ तत्र मातामहस्य गृह इव वृद्धिमेष्यति' ।
ततो वसुदेवस्तां साधु साध्विति जल्पन् स्नेहवशो बालमादाय तद्गृहाद् निरगात् । तदानीं च देवतास्तस्योपरि च्छत्रं दधुः पुष्पवृष्टि