________________
१०१
१०८
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः च सोमयशाः । जृम्भकदेवानां मध्यात् कोऽपि देवश्च्युत्वा सोमयश:कुक्षाववतीर्णवान् । स एष नारदो जज्ञे । ते तापसाश्चैकाहमुपोष्यापरेऽह्नि वनमुपेत्य सदा शिलोञ्छवृत्त्या पारयन्ति ।
ते चैकदाऽशोकवृक्षे नारदं मुक्त्वोच्छाय ययुः । जृम्भकाश्च तं बालमतुल्यकान्ति दृष्ट्वाऽवधेर्नारदं प्राग्जन्ममित्रं ज्ञात्वा तदुपरि स्थितामशोकस्य च्छायामस्तम्भयन् । ततः स्वकार्यार्थं गताः कृतकार्यावलिताश्च स्नेहात् तं बालं वैताढ्यं निन्युः । तैर्दैवैः स्तम्भितच्छायत्वात् सोऽशोकतरुस्तत्प्रभृति च्छायावृक्ष इति ख्यातोऽभूत् । तथा स नारदो वैताढ्याद्रौ जृम्भकैः पालित: शिक्षितश्चाऽष्टवर्षः सन् प्रज्ञप्तिकाद्या विद्याः प्रसाध्य ताभिर्गगनगामी एतस्यामवसर्पिण्यां नवमश्चरमशरीरी । नारदमुनेरुत्पत्तिहि त्रिकालज्ञानिना सुप्रतिष्ठेन मुनिना मे कथितम् । अयं च नारदः प्रकृत्या कलहप्रियस्तिरस्कारात् कोपशील एकत्राऽस्थिरः सर्वत्र पूज्यश्च ।
अथाऽन्यदा कंसेनाऽऽहूतो वसुदेवः समुद्रविजयमनुज्ञाप्य मथुरां ययौ । तत्र चैकदा जीवयशसा सहित: कंसो वसुदेवं जगौ'विशालायां मृत्तिकावत्यां नगर्यां भूपतेर्देवकस्य मम पितृव्यस्य देवकी नाम कन्या देवकन्योपमाऽस्ति । मम प्रार्थनया च तत्र गत्वा तां परिणय' । ततो वसुदेवस्तत् प्रतिपद्य कंसेन सह चलितो मार्गे नारदं ददर्श । ताभ्यां च पूजितः प्रसन्नो नारदो मुनिरपृच्छत्-कुतो हेतोः कुत्र वा युवां प्रचलितौ' । ततो वसुदेव उवाच-'मित्रेण कंसेन प्रेरितो देवककन्यां देवकी परिणेतुं प्रस्थितोऽस्मि' ।
ततो नारद उवाच-'कंसेनेतच्चारु क्रियते । यथा त्वं पुंस्वप्रतिरूपस्तथा देवकी नारीष्वप्रतिरूपा । त्वं देवकी परिणीय
अष्टमं पर्व - पञ्चमः सर्गः परिणीता अन्या नृपकन्यका असारा मंस्यसे । अस्मिन् कार्ये विघ्नो मा भूदिति देवक्यै भवद्गुणान् कथयिष्यामि' । एवमुक्त्वोत्पत्त्य नारदो देवकीगृहं ययौ । तया पूजितश्च स 'वसुदेवस्ते वरो भवत्वि'त्याशीर्वचनं जगौ । ततस्तया को वसुदेव इति पृष्टो नारद उवाच-'स दशमो दशा) विद्याधरीप्रियस्तरुणोऽस्ति, तस्य देवादयोऽपि रूपेण तुल्या न' । एवमुक्त्वा नारदस्तिरोदधे । नारदवचसा देवकीमनो वसुदेवे लग्नम् । कंस-वसुदेवौ च मृत्तिकापुर्यामाजग्मतुः । देवकेन च विवेकिना सत्कृत्य तावागमनकारणं पृष्टौ । ततः कंस उवाच-'वसुदेवायाऽनुरूपां देवकी परिणाययितुमागतोऽस्मि' । ____ ततो देवक उवाच-'कन्यार्थं वरस्य नाऽऽगमनव्यवहारः ततो वसुदेवाय देवकी न दास्यामि' । ततो विलक्षौ तौ निजशिबिरं जग्मतुः । देवको नृपश्चाऽन्तःपुरं जगाम । तत्र देवक्या नमस्कृतो देवकः प्रसन्नोऽनुरूपं वरं लभस्वेत्याशिषं ददौ । तथा देव्यै वसुदेवाय देवकी दापयितुमागतः कंसो मया न सत्कृत इत्युवाच । तच्छ्रुत्वा च देवी विषण्णा जाता, देवकी चोच्चै रुरोद । ततो देवकस्तयोर्भावं ज्ञात्वा'ऽलं विषादेन, युवां प्रष्टुमेवाऽहमत्राऽऽगामि'त्युवाच । ततो देव्या 'वसुदेवो देवक्या योग्यो वरः पुण्यादेव स्वयं वरणार्थमागत' इत्युक्तो देवकः स्वमन्त्रिणा कंसवसुदेवौ समानाय्य सत्कृतवान् । तथा देवकी-वसुदेवयोः शुभे दिने समहोत्सवं विवाहोऽभूत् । देवकश्च वसुदेवाय भूरिश: स्वर्णादिकं, गोकोटिसंयुतं दशगोकुलेशं नन्दं च ददौ । ततः कंसवसुदेवौ नन्दसहितौ मथुरामाजग्मतुः । कंसश्च मित्रविवाहमुपलक्ष्य महोत्सवं चकार ।