________________
पञ्चमः सर्गः
इतश्च हस्तिनापुरे मातुरत्यन्तप्रियो ललितनामा श्रेष्ठपुत्रोऽभवत् । अन्यदा च श्रेष्ठिन्या अत्यन्तपीडाप्रदो गर्भोऽभूत् । विविधैर्भेषजैः पात्यमानोऽपि स गर्भो नाऽपतत् । जाते पुत्रे श्रेष्ठिन्या स पुत्रस्त्यक्तुं दास्यै समर्पितः । श्रेष्ठिना दृष्ट्वा च पृष्टासा दा ‘श्रेष्ठिन्याऽसावनिष्ट इति त्यक्त' इत्युक्तवती । ततः श्रेष्ठी तं बालं गृहीत्वा गुप्तमन्यत्र पालयामास । एकदा च वसन्तोत्सवे ललितः पितरमुवाच-‘अद्य गङ्गदत्तश्चेद् भोज्यते तदा शोभनं भवेत् । ततः श्रेष्ठ्युवाच - 'यदि ते माता तं पश्येत् तद् न साधु भवेत्' ।
ततो ललित उवाच - 'माता तं यथा न पश्येत् तथा यतिष्ये' । तदा श्रेष्ठिनाऽऽज्ञप्तो ललितो गङ्गदत्तं यवनिकान्तरितं भोजनार्थमुपवेशयामास । तौ च श्रेष्ठि-ललितौ पुरस्तात् स्वयमुपविष्टवन्तौ । श्रेष्ठिनी च भुञ्जानौ तौ गङ्गदत्ताय गुप्तं भोज्यं यच्छन्तौ पटे वातोद्धूते सति दृष्ट्वा तं केशेषु गृहीत्वा कुट्टयित्वा गृहप्रणाल्यामक्षिपत् । तत उद्विग्नौ श्रेष्ठि-ललितौ श्रेष्ठिनीतो गुप्तमेव तं स्त्रपयित्वा गङ्गदत्तं बोधयामासतुः । तदानीमेव च तत्र भिक्षार्थं समागताः साधवस्ताभ्यां श्रेष्ठिन्यास्तत्पुत्रेऽप्रीतिकारणं पपृच्छरे ।
तत एक: साधुरुवाच-'एकस्मिन् ग्रामे द्वौ भ्रातरावभूताम् । तौ च काष्ठार्थं बहिरीयतुः । तथा गन्त्रीं काष्ठैर्भृत्वाऽग्रस्थो ज्येष्ठो भ्राता
अष्टमं पर्व पञ्चमः सर्गः
१०७
पथि कञ्चुकितां महासर्पिणीं दृष्ट्वा कनीयांसं भ्रातरं गन्त्र्याः सारथिं कञ्चुकितेयं सर्पन्ती सर्पिणी गन्त्रीतो रक्षणीयेत्यवोचत् । सर्पिणी च तच्छ्रुत्वा हृष्टा विश्वस्ता जाता । किन्तु तत्राऽऽयातः कनिष्ठस्तां दृष्ट्वाऽवोचत् - 'यद्यपि ज्येष्ठभ्रात्रेयं रक्षिताऽस्ति तथाऽप्यहमस्या उपरि गन्त्रीमेतस्या अस्थिभङ्गस्वरं श्रोतुं नेष्ये' । स क्रूरस्तथा चक्रे च । सर्पिणी च कोऽप्येष मम वैरीति ध्यायन्ती विपन्ना । सा सर्पिणीयं तव पत्नी । ज्येष्ठो भ्राता च विपद्याऽस्या ललिताख्यः पुत्रः प्रियः । कनिष्ठश्चाऽयं पुत्रो गङ्गदत्तः पूर्वकर्मणाsस्या अनिष्टः । ततो विरक्ताः पिता-पुत्रौ च व्रतं जगृहतुः । श्रेष्ठि- ललितौ च क्रमाद् महाशुक्रं जग्मतुः । गङ्गदत्तश्च मातुरप्रीति स्मरन् विश्वप्रियत्वनिदानं कृत्वा महाशुक्रं ययौ ।
ततश्च च्युत्वा ललितजीवो वसुदेवस्य भार्याया रोहिण्या उदरेऽवततार । तथा रोहिणी सुखसुप्ता निशाशेषे बलभद्रजन्मसूचकान् मुखे प्रविशतो गज-समुद्र - सिंह- चन्द्रान् स्वप्ने ददर्श । पूर्णे समये च सा चन्द्रतुल्यकान्ति पुत्रं प्रासूत । मागधादयश्च नृपास्तस्य जन्मोत्सवं चक्रुः । वसुदेवश्च तस्य राम इति मनोहरं नाम चकार । रामश्च सर्वेषां मनो रमयन् क्रमाद् ववृधे । गुरुसमीपे च स विशुद्धप्रतिभया सर्वाः कला जग्राह ।
अथाऽन्यदा स्वच्छन्दगतिर्नारदो मुनिर्वसुदेव-कंसादिभिः परिवारितं समुद्रविजयमुपाजगाम । समुद्रविजयो वसुदेवः कंसाद्याश्चोद्यन्तं सूर्यमिवोत्थाय तमानर्चुः । तेषां पूजाप्रसन्नो नारदः क्षणं स्थित्वाऽन्यतो गन्तुमुत्पपात । ततः कंसेन कोऽसाविति पृष्टो नृप उवाच- 'अस्मात् पुराद् बहिर्यज्ञयशा नाम तापसोऽभूत् । तस्य च यज्ञदत्ताख्या भार्या सुमित्राख्यश्च पुत्रो बभूवतुः । सुमित्रस्य पत्नी