Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 05
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 86
________________ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः दृष्ट्वा मत्पुत्रस्य योग्येयमिति ध्यात्वा सबन्धुः सागरदत्तात् स्वपुत्राय सुकुमारिकां ययाचे । सागरदत्तश्च "यो मे गृहजामाता भवेत्तस्मा इयं देये"त्यवोचत् । ततो जिनदत्तो विचारयिष्यामी - त्युक्त्वा गृहं गत्वा सागरस्य तद्वृत्तं कथितवान् । सागरश्च तच्छ्रुत्वा न किमप्यवोचत् । तेन च जिनदत्तो मौनं स्वीकारलक्षणं मत्वा सागरं तया सुकुमारिकया परिणाययामास । १४६ ततः सागरस्तया सह वासगृहं गत्वा शय्यामधितष्ठौ । किन्तु पूर्वकर्मवशात् तस्याः स्पर्शेनाऽङ्गारवद् दह्यमानाङ्गः स कथञ्चित् क्षणं स्थित्वा तां निद्रितां मुक्त्वा पलाय्य स्वगृहं ययौ । विनिद्रा च सा पतिमदृष्ट्वा भृशं रुरोद । सागरदत्तश्च तद्वृत्तं ज्ञात्वा जिनदत्तमुपालभत । ततो जिनदत्तेन बोध्यमानस्य सागरस्य "अग्नौ प्रवेशो वरं न तु सुकुमारिकया सह वास" इति वाचं कुड्यान्तरितः सागरदत्तः श्रुत्वा हताशो गृहं गत्वा सुकुमारिकां तत् सर्वमुवाच । तथा 'सागरस्त्वयि विरक्तः, ततस्तवाऽन्यं पति करिष्यामि मा विषीदे 'ति तामाश्वासयामास । अथाऽन्यदा स सागरदत्तो गवाक्षस्थो भिक्षुकदुर्गतं दृष्टवान् । तमाहूय कर्परादिकं त्याजयित्वा स्नपयित्वा वस्त्रादिभिरलङ्कृत्य भोजयित्वा च "मया तुभ्यमियं मम पुत्री दत्ता, अनया सह निश्चिन्त इहैव तिष्ठे " त्यवोचत् । स भिक्षुकचाऽपि तया सह वासगृहं गतः सागर इव तदङ्गस्पर्शाद् दह्यमानः पलायितवान् । पुनश्च सा विषण्णा पित्रा " वत्से ! पूर्वकर्मदोषोऽयं तद् मम गेहे दानधर्मं कुर्वती शान्त्या तिष्ठेति प्राबोधि । तदारभ्य च सा दानधर्मरता गृहागतां गोपालिकामार्यां शुद्धैः पानाऽशनादिभिः प्रत्यलाभयत् । अष्टमं पर्व षष्ठः सर्गः १४७ ततो धर्मं निशम्य प्रबुद्धा व्रतमादाय तपांसि कुर्वती ताभिगपालिकाभिरार्याभिः सह विजहार । एकदा चाऽऽर्याभिर्निषिद्धाऽपि तदविगणय्य सुभूमिभागोद्याने सूर्ये दत्तदृष्टिरातापनां कुर्वती सा सुकुमारिका पञ्चभिः कामुकैरुपचरितां देवदत्ताख्यां वेश्यां तत्राऽऽगतामपश्यत् । तां दृष्ट्वेयमिवाऽहमप्यनेन तपसा पञ्च पतिका स्यामिति निदानं चकार । तथाऽङ्गशौचादिपराऽऽर्याभिः पदे पदे वार्यमाणा स्वमानहानिं बुद्ध्वैकाकिनी भिन्नप्रतिश्रयेऽस्थात् । तत्र सा स्वैरं चिरं व्रतं पालयित्वाऽष्ट मासान् संलेखनां कृत्वाऽनालोच्यैव मृता सौधर्मे देवी भूत्वा च्युत्वा द्रौपदीयं जाता । तत्पूर्वकर्मप्रभावादस्याः पञ्च पतयः, नाऽत्र विस्मयः कार्यः " । एवं मुनिनोक्ते च साधु साध्विति नभोवाणी जाता। कृष्णादयश्च तस्याः पतिपञ्चकमन्वमोदन्त । ततः पाण्डवास्तैः स्वजनै राजभिः कृतोत्सवपूर्वकं तां द्रौपदीं पर्यणैषुः । पाण्डुश्च दशार्हानन्यांश्च नृपान् सगौरवं स्वपुरमनयत् । तान् सुचिरं सत्कृत्य च व्यसृजत् । अथ पाण्डुर्युधिष्ठिराय राज्यं दत्त्वा विपन्नवान् । माद्रीच कुन्त्यै सुतयुगं समर्प्य तमनुययौ । धार्तराष्ट्राचा पाण्डौ मृते राज्यलुब्धा दुरात्मानः पाण्डवान् न मेनिरे । तथा लोभाद् दुर्योधनेन द्यूते जित्वा पाण्डवा राज्यहीनाः कृताः । अवमानिता निर्वासिताश्च पाण्डवा वने वसन्तो दशार्हसोदरया मात्रा कुन्त्या सह तत्प्रेरणया द्वारवतीं प्राप्ताः । तत्र प्रथमं ते समुद्रविजयस्य गृहं गतास्तेन सस्नेहं सत्कृता: तथा कुन्ती 'दिष्ट्या सपुत्रा दृष्टाऽसि स्वसरि" त्येवं तेनोक्ता । कुन्त्यपि च तं राम-कृष्णौ च प्रशस्य तौ दर्शनोत्सुका

Loading...

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159