________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः
दृष्ट्वा मत्पुत्रस्य योग्येयमिति ध्यात्वा सबन्धुः सागरदत्तात् स्वपुत्राय सुकुमारिकां ययाचे । सागरदत्तश्च "यो मे गृहजामाता भवेत्तस्मा इयं देये"त्यवोचत् । ततो जिनदत्तो विचारयिष्यामी - त्युक्त्वा गृहं गत्वा सागरस्य तद्वृत्तं कथितवान् । सागरश्च तच्छ्रुत्वा न किमप्यवोचत् । तेन च जिनदत्तो मौनं स्वीकारलक्षणं मत्वा सागरं तया सुकुमारिकया परिणाययामास ।
१४६
ततः सागरस्तया सह वासगृहं गत्वा शय्यामधितष्ठौ । किन्तु पूर्वकर्मवशात् तस्याः स्पर्शेनाऽङ्गारवद् दह्यमानाङ्गः स कथञ्चित् क्षणं स्थित्वा तां निद्रितां मुक्त्वा पलाय्य स्वगृहं ययौ । विनिद्रा च सा पतिमदृष्ट्वा भृशं रुरोद । सागरदत्तश्च तद्वृत्तं ज्ञात्वा जिनदत्तमुपालभत । ततो जिनदत्तेन बोध्यमानस्य सागरस्य "अग्नौ प्रवेशो वरं न तु सुकुमारिकया सह वास" इति वाचं कुड्यान्तरितः सागरदत्तः श्रुत्वा हताशो गृहं गत्वा सुकुमारिकां तत् सर्वमुवाच । तथा 'सागरस्त्वयि विरक्तः, ततस्तवाऽन्यं पति करिष्यामि मा विषीदे 'ति तामाश्वासयामास ।
अथाऽन्यदा स सागरदत्तो गवाक्षस्थो भिक्षुकदुर्गतं दृष्टवान् । तमाहूय कर्परादिकं त्याजयित्वा स्नपयित्वा वस्त्रादिभिरलङ्कृत्य भोजयित्वा च "मया तुभ्यमियं मम पुत्री दत्ता, अनया सह निश्चिन्त इहैव तिष्ठे " त्यवोचत् । स भिक्षुकचाऽपि तया सह वासगृहं गतः सागर इव तदङ्गस्पर्शाद् दह्यमानः पलायितवान् । पुनश्च सा विषण्णा पित्रा " वत्से ! पूर्वकर्मदोषोऽयं तद् मम गेहे दानधर्मं कुर्वती शान्त्या तिष्ठेति प्राबोधि । तदारभ्य च सा दानधर्मरता गृहागतां गोपालिकामार्यां शुद्धैः पानाऽशनादिभिः प्रत्यलाभयत् ।
अष्टमं पर्व षष्ठः सर्गः
१४७
ततो धर्मं निशम्य प्रबुद्धा व्रतमादाय तपांसि कुर्वती ताभिगपालिकाभिरार्याभिः सह विजहार ।
एकदा चाऽऽर्याभिर्निषिद्धाऽपि तदविगणय्य सुभूमिभागोद्याने सूर्ये दत्तदृष्टिरातापनां कुर्वती सा सुकुमारिका पञ्चभिः कामुकैरुपचरितां देवदत्ताख्यां वेश्यां तत्राऽऽगतामपश्यत् । तां दृष्ट्वेयमिवाऽहमप्यनेन तपसा पञ्च पतिका स्यामिति निदानं चकार । तथाऽङ्गशौचादिपराऽऽर्याभिः पदे पदे वार्यमाणा स्वमानहानिं बुद्ध्वैकाकिनी भिन्नप्रतिश्रयेऽस्थात् । तत्र सा स्वैरं चिरं व्रतं पालयित्वाऽष्ट मासान् संलेखनां कृत्वाऽनालोच्यैव मृता सौधर्मे देवी भूत्वा च्युत्वा द्रौपदीयं जाता । तत्पूर्वकर्मप्रभावादस्याः पञ्च पतयः, नाऽत्र विस्मयः कार्यः " । एवं मुनिनोक्ते च साधु साध्विति नभोवाणी जाता। कृष्णादयश्च तस्याः पतिपञ्चकमन्वमोदन्त । ततः पाण्डवास्तैः स्वजनै राजभिः कृतोत्सवपूर्वकं तां द्रौपदीं पर्यणैषुः । पाण्डुश्च दशार्हानन्यांश्च नृपान् सगौरवं स्वपुरमनयत् । तान् सुचिरं सत्कृत्य च व्यसृजत् ।
अथ पाण्डुर्युधिष्ठिराय राज्यं दत्त्वा विपन्नवान् । माद्रीच कुन्त्यै सुतयुगं समर्प्य तमनुययौ । धार्तराष्ट्राचा पाण्डौ मृते राज्यलुब्धा दुरात्मानः पाण्डवान् न मेनिरे । तथा लोभाद् दुर्योधनेन द्यूते जित्वा पाण्डवा राज्यहीनाः कृताः । अवमानिता निर्वासिताश्च पाण्डवा वने वसन्तो दशार्हसोदरया मात्रा कुन्त्या सह तत्प्रेरणया द्वारवतीं प्राप्ताः । तत्र प्रथमं ते समुद्रविजयस्य गृहं गतास्तेन सस्नेहं सत्कृता: तथा कुन्ती 'दिष्ट्या सपुत्रा दृष्टाऽसि स्वसरि" त्येवं तेनोक्ता । कुन्त्यपि च तं राम-कृष्णौ च प्रशस्य तौ दर्शनोत्सुका