________________
पुरुषम् गद्यात्मकसारोद्धारः
एकदा च काम्पील्यपुराद् द्रुपदनृपस्य दूत आगत्य प्रणम्य पाण्डुमुवाच-'द्रुपदनृपस्य पुत्री धृष्टद्युम्नस्याऽनुजा चुलनीकुक्षिजा द्रौपदी नाम कन्यकाऽस्ति । तस्याः स्वयंवरे च कृष्णादयः सर्वेऽपि राजानः समाहूताः सन्ति । त्वमपि स्वपुत्रैः स्वयंवरमण्डपं मण्डय" । ततः पाण्डुः स्वपुत्रै सह काम्पील्यपुरं प्राप । अन्येऽपि राजानस्तत्राऽऽययुः । द्रुपदेन सत्कृताश्च सर्वे नृपाः स्वयंवर - मण्डपमलञ्चक्रुः । द्रौपदी च सखीभिः समन्विताऽलङ्कृता कृतजिनार्चा तत्राऽऽययौ । नृपान् पश्यन्ती सा पाण्डवसमीपमेत्य तेषां पञ्चानामपि कण्ठेषु युगपत् स्वयंवरमालां चिक्षेप । किमेतदिति विस्मितेषु नृपेषु चारणमुनिः समागतः कथं पञ्च पतयोऽस्याः स्युरिति कृष्णादिभिः पृष्टश्चाऽवदत्-"कर्मवशादियं पञ्चभर्तृका भविष्यति ।
१४४
अत्रैव भरते चम्पायां पुरि सोमदेव - सोमभूति-सोमदत्ताः सोदरा अभूवन् । तेषां च धनाढ्यानां क्रमाद् नागश्री- भूतश्रीयक्षश्रियः पन्योऽभूवन् । मिथः प्रेम्णा च ते सर्वैरेकैकगृहे वारंवारेण भोक्तव्यमिति व्यवस्थां चक्रुः । एकदा च सोमदेवगृहे भोजनावसरे प्राप्ते विविधभोज्यानि पचन्त्या नागश्रियाऽज्ञानात् कट्वलाबुव्यञ्जनं कृतम् । स्वादपरीक्षार्थं तद्व्यञ्जनं किञ्चिद् मुखे कृत्वा च सा थूच्चकार । ततः सा तद्व्यञ्जनं गोपायित्वाऽपरैर्भोज्यैः पति - देवरान् सकुटुम्बान् भोजयामास ।
तदानीं च सुभूमिभागे उद्याने श्रीधर्मघोषमुनिः सपरिच्छदः समवासार्षीत् । तच्छिष्यो धर्मरुचिर्मासक्षपणपारणे नागश्रियो गृहमाययौ । सा नागश्रीश्च तस्मै तदलाबूव्यञ्जनं ददौ । सोऽपि मुनिस्तदादाय दर्शयितुं गुरवे पात्रमार्पयत् । गुरुश्च तद्गन्धमाघ्राय
अष्टमं पर्व षष्टः सर्गः
१४५
"यदीदं भोक्ष्यसे तदा मरिष्यसि, तदेतदाशु परिष्ठापय, अपरं पिण्डं च सम्यग् ज्ञात्वा पारयेरित्युवाच ।
गुरुणेत्थमुक्तः स बहिर्गत्वा शुद्धं स्थण्डिलमासदत् । तत्र पात्रात् पतिततुम्बरसलग्ना: पिपीलिका मृता दृष्ट्वा दध्यौ - " यद् बिन्दुना जन्तवो म्रियन्ते तस्मिन् परिष्ठापिते कियन्तः प्राणिनो मरिष्यन्ति ? ततो ममैकस्य मरणं वरम्" । एवं विचार्य स तुम्ब स्वयं भक्षितवान् । तथा समाधिस्थ आराधनां विधाय विपद्याऽहमिन्द्रत्वमाप ।
इतश्च धर्मघोषाचार्यो धर्मबुद्धेः कुतो विलम्बोऽभूदिति ज्ञातं मुनीनादिष्टवान् । तैश्च बहिः स मृतो दृष्टः, ततस्तद्रजोहरणादिकमादाय खिन्नैस्तैर्गुरुर्निवेदितः । ततः स सातिशयज्ञानोपयोगेन नागश्रियो दुश्चरितं मुनीनाह । ततः क्रुद्धा मुनयो व्रतिन्यश्च तत्रै सोमदेवप्रभृतीनां तद्वृत्तान्तमाचख्युः । ततः सोमाद्यैर्विप्रैः सा नागश्रीर्गृहाद् निष्कासिता लोकैर्निर्भर्त्स्यमाना दुःखेन पर्यट कास- श्वासादिरोगैः षोडशभिः क्रान्ता क्षुत्तृट्परीताऽनाथा मृत्वा षष्ठं नरकं ययौ । तत उद्वृत्त्य म्लेच्छत्वं प्राप्य विपद्य सप्तमं नरकं प्राप्योद्वृत्त्य मीनेषु जाता पुनः सप्तमं नरकं प्राप्य म्लेच्छेषु जाता । एवं सा सर्वेषु नरकेषु द्विर्द्विर्ययौ ।
ततश्च पृथिवीकायादिष्वनेकश उत्पद्याऽकामनिर्जरावशात् कर्म क्षपयित्वा चम्पायां सागरदत्तश्रेष्ठिनः सुभद्राकुक्षिजा सुकुमारिका नाम कन्याऽभूत् । तत्रैव च जिनदत्तो नाम धनाढ्यः सार्थवाह आसीत् । तस्य च भद्राकुक्षिजः सागरो नाम पुत्र आसीत् । जिनदत्तश्चैकदा सौधे कन्दुकेन रममाणां प्राप्तयौवनां सुकुमारिकां