________________
........१४३
अष्टमं पर्व - षष्ठः सर्गः
एतद्वार्ता श्रुत्वा पुनर्नारदः प्रभुं प्रणम्य वैताढ्ये मेघकूटपुरे समेत्य दिष्ट्या ते सुतो जात इति वदन् संवरेण पूजितः प्रद्युम्नो दर्शितश्च । तं रुक्मिणीसदृशं दृष्ट्वा जातप्रत्ययो नारदः संवरमापृच्छ्य द्वारकामेत्य कृष्णादीनां सुतोदन्तं रुक्मिण्या लक्ष्मीवतीभवादि वृत्तान्तं च कथयामास । ततो रुक्मिणी तत्रस्थाऽपि सीमन्धरप्रभुं प्रणनाम । षोडशाब्दान्ते पुत्रसङ्गमो भावीति जिनवचसा च स्वस्था तस्थौ ।
१४२
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः अन्यदा चाऽलङ्कृतं स्वं पश्यन्त्यां तस्यां समाधिगुप्तो मुनिभिक्षार्थं गृहे प्राविशत् । अस्मै भिक्षां देहीति पत्याऽऽदिष्टा सा, तदैव केनचिदाहूतो बहिर्गत: सः । सा तु थूत्कारं कृत्वा परुषमुक्त्वा तं मुनि निर्वासितवती द्वारं च पिहितवती । तेन दोषेण च सा सप्तमे दिवसे सर्वाङ्गेषु कुष्ठग्रस्ताऽग्नौ निवेश । विपद्य च स तत्र ग्रामे रजकस्य गर्दभी भूत्वा पुनर्विपद्य तत्रैव गर्तसूकरी भूत्वा पुनः शुनी जाता । तत्र सा दवाग्निना दग्धा भाववशाद् मायुर्बद्ध्वा विपद्य भृगुकच्छदेशे नर्मदातीरे दुर्गन्धा दुर्भगा च काणाख्या धीवरसुताऽभवत् । तद्गन्धासहनात् पितृभ्यां नर्मदातटे त्यक्ता सा प्राप्तयौवना नावा जनमुत्तारयामास । __ दैवाच्च समाधिगुप्तो मुनि: शीतार्तस्तत्राऽऽगत्य निशि कायोत्सर्गेणाऽस्थात् । सा चैष मुनिर्निशि शीतेन मा बाधीति दयया तं तृणैः प्रावृणोत् । प्रभाते च प्रणमन्तीं तां भद्रिकेयमिति कृत्वा मुनिर्धर्मं दिदेश । तथैष मुनिर्मया क्वाऽपि दृष्ट इति चिरं स्मृत्वा तया पृष्टो मुनिस्तस्याः पूर्वान् भवानाख्यत् । तथा साधुतिरस्कारेणेदृशी दुर्गन्धा जाताऽसीति चाऽख्यत् । ततः सा जातिस्मरणमाप्य स्वं निन्दन्ती मुनि क्षमयित्वा श्राविका जाता । दयालुना मुनिना च सा धर्मश्रीगणिन्या: समर्पिता । विहारक्रमे च क्वाऽपि ग्रामे धर्मश्रिया सा नायलाख्यस्य श्रावकस्याऽर्पिता । सा च नायलगृहे स्थिता सदा जिनपूजारतैकान्तरोपवासपरायणा द्वादशाब्दानि निनाय । अनशनं प्रपद्य चाऽच्युतेन्द्रस्य महिषी भूत्वा च्युत्वा रुक्मिण्यभूत् । मयूर्याः पुत्रविरहदानात् सा रुक्मिणी षोडशाब्दानि पुत्रविरहमनुभविष्यति ।
इतश्च वृषभप्रभोः कुरु नामा पुत्रोऽभवत्, यस्य नाम्ना कुरुक्षेत्रमिति कीर्त्यते । कुरोः पुत्रश्च हस्ती बभूव । यन्नाम्ना हस्तिनापुरं गीयते । हस्तिनृपवंशे चाऽनन्तवीर्यो नृपोऽभूत् । तस्य कृतवीर्यस्तस्य च सुभूमश्चक्री पुत्रोऽभूत् । ततोऽप्यसङ्ख्यनृपेषु जातेषु शान्तनुनपो बभूव । तस्य गङ्गा सत्यवती च द्वे पत्न्यावास्ताम् । गङ्गायां भीष्मो नाम सत्यवत्यां च चित्राङ्गदचित्रवीरों पुत्रा बभूवुः । चित्रवीर्यस्या-ऽम्बिका-ऽम्बालिकाऽम्बेति च तिस्रः पत्न्योऽभूवन् । तासां च क्रमात् तस्य धृतराष्ट्रपाण्डु-विदुराः पुत्रा बभूवुः । तेषु धृतराष्ट्रे नृपे सति पाण्डु
गयापरो जज्ञे । धृतराष्ट्रो गान्धारनृपस्य शकुनेः सुबलसुतस्य सहोदरा गान्धार्याद्या अष्टौ कन्या: परिणिनाय । तासु च तस्य दुर्योधनादयः शतं पुत्रा अभूवन् । पाण्डोश्च कुन्तीकुक्षिजा युधिष्ठिर-भीमा-ऽर्जुनाः शल्यनृपस्वसरि मायां च नकुलसहदेवौ पुत्रा अभूवन् । ते च पञ्चाऽपि पाण्डवा बलिनो विद्याधराणामप्यजय्या आसन् ।