________________
१४०
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः कनकप्रभश्चन्द्राभया पत्न्या सहोपायनमादाय मधुं भोजनान्ते उपतस्थे । चन्द्राभा मधुं प्रणम्याऽन्तःपुरं ययौ । मधुश्च कामातस्तामादित्सुरमात्येन वारितोऽग्रे गत्वा भीमं पल्लीपति जित्वा निवृत्तस्तत्राऽऽगतः कनकप्रभेण पूजितः । स प्राभृतं निषिध्य चन्द्राभा ममाऽर्ण्यतामित्युवाच । तदस्वीकुर्वाणात् कनकप्रभाद् बलादाच्छिद्य स चन्द्राभां स्वपुरं नीत्वा रमयामास । कनकप्रभश्च भुवि पतितो मूच्छितो लब्धसंज्ञो बहु विलप्योन्मत्त इवाऽटति स्म ।
एकदा चाऽमात्यैः सह व्यवहारे स्थितो मधुनिर्णयमकृत्वैव चन्द्राभागृहं ययौ । किमद्य विलम्बो जात इति चन्द्राभया पृष्टश्च पारदारिकवादे स्थितस्याऽद्य मम विलम्बो जात इति मधुरवोचत् । ततश्च चन्द्राभा स्मित्वोवाच-'पारदारिकः पूज्य:' । ततो मधुना 'न पूज्य: पारदारिक: किन्तु निग्राह्य" इत्युक्तवान् । चन्द्राभा पुनरुवाच-"प्रथममात्मानं पारदारिकं किं न जानीषे ?" तच्छृत्वा प्रबुद्धो लज्जितश्चाऽस्थात् ।
तदानीमेव च कनकप्रभो बालकैः परित उपद्र्यमाणो गायन्नृ-त्यंश्चोन्मत्तस्तत्राऽऽययौ । तं दृष्ट्वा च चन्द्राभा दध्यौ'मद्वियोगाद् मम पतिरीदृशीं दशां प्राप्तः, मां परवशां धिक्" । एवं विचार्य सा मधवे तमायान्तं कनकप्रभमदर्शयत् । मधुश्चाऽपि तं दृष्ट्वा स्वेन तेन दुष्कर्मणा पश्चात्तापं चकार । ततो मधुर्बन्धुसुतं राज्ये न्यस्य कैटभेन सह विमलवाहनमुनेतं जग्राह। ततो बहूनि वर्षसहस्राण्युग्रं तपस्तप्यमानो द्वादशाङ्गधरो मुनिवैयावृत्त्यकरोऽनशनं विदधे । अन्ते आलोचनापूर्वकं विपद्य महाशुके सानुज: सामानिक सुरोऽभवत् ।
अष्टमं पर्व - षष्ठः सर्गः
कनकप्रभश्च क्षुत्-तृट्परीतो वर्षाणां सहस्रत्रयं क्षपयित्वा व्यपद्यत । ततो ज्योतिष्केषु धूमकेतुर्नाम देवो जातोऽवधेः पूर्ववैरं ज्ञात्वा मधुजीवमन्वेषयामास । किन्तु महद्धिदेवत्वाद् मधुं नाऽपश्यत् । ततश्च्युत्वा च स तापसो भूत्वा बालतपः कृत्वा विपद्य वैमानिको भूत्वा तत्राऽपि महद्धि मधुं द्रष्टुं समर्थो न बभूव । पुनस्ततश्च्युत्वा भवं भ्रान्त्वा कर्मवशात् पुनोतिष्केषु धूमकेतुर्नाम सुरोऽभवत् । मधुजीवश्च महाशुक्राच्च्युत्वा रुक्मिणी-कृष्णयोः पुत्रोऽभवत् । धूमकेतुश्च पूर्ववैराज्जातमात्रं तं बालं हन्तुमिच्छु: टङ्कशिलोपरि मुक्तवान् । स च स्वप्रभावादक्षताङ्ग संवरेण गृहीतः । षोडशाब्दान्ते रुक्मिण्यास्तस्य सङ्गमो भावी" । ____ ततः पुना रुक्मिण्या: केन कर्मणा पुत्रेण वियोग इति नारदेन पृष्टो जिनः सीमन्धरः प्रभुरुवाच-'जम्बूद्वीपस्य भरतक्षेत्रे मगधदेशे लक्ष्मीग्रामे सोमदेवो द्विजोऽभूत् । तस्य प्रिया लक्ष्मीवती चोपवनं गता मयूराण्डं दृष्ट्वा कुङ्कमाक्तेन करेण तमस्पृशत् । तेन च तस्याऽण्डस्य वर्णगन्धभेदे जाते तदण्डं मयूर्याऽनुपलक्षणात् षोडशघटिका यावत् त्यक्तम् । ततो वृष्ट्या पूर्ववदण्डं दृष्ट्वा मयूर्या सेवितं मयूरो जातः । पुनश्च तत्राऽऽयाता लक्ष्मीवती तं मयूरशावकं दृष्ट्वा मयूर्या रुदत्यामप्यग्रहीत् । तं स्वगृहे पञ्जरे कृत्वा पालयामास । तथा तं नृत्यं तथाऽशिक्षयद यथा स चारु ननर्त । मयूरी च पुत्रप्रेम्णा विरसं कूजन्ती तं प्रदेशं न जहौ। ततो लोकास्तामूचुः-"कौतुकं त्यज, मयूरशावकं मुञ्च, यथेयं मयूरी जीवेत्" । ततः सा दयया तं षोडशमासिकं यौवनोन्मुखं मयूरशावकं स्वस्थानं नीत्वाऽमुञ्चत् । तेन दोषेण च तया ब्राह्मण्या षोडशाब्दिकं स्वपुत्रविरहकरं कर्म बद्धम् ।