________________
१३८
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः संबोध्यावि"ति स च्छलाज्जन्ममूकोऽभवत् । यदि युवयोर्न प्रत्ययस्तर्हि तं मूकं हालिकं पृच्छतम् । स मौनं मुक्त्वा युवयोरुत्तरं दास्यति" । तच्छ्रुत्वा कौतुकाल्लोकेन तत्कालमानीत: स हालिको मुनिना प्राग्जन्माऽऽख्याहीति पृष्टस्तं मुनि नमस्कृत्य स्वं प्राग्जन्म मुनिना यथाख्यातमाख्यत् । तेन च प्रबद्धा बहवो जनास्तत्र स हालिकश्च प्राव्रजन् ।
तौ तु द्विजौ जनैहाँस्यमानौ विलक्षौ गृहं गतौ वैरायमाणौ तं मुनि हन्तुं खड्गधरौ निशि समागतौ सुमनसा यक्षेण स्तम्भितौ । प्रातश्च लोकास्तन्माता-पितरौ च तौ ददृशुः । ततो यक्षः प्रत्यक्षीभूयोवाच-"मुनि हन्तुमिच्छन्तावेतौ मया स्तम्भितौ, यदि प्रव्रज्यां ग्रहीतुं मन्येते तदेतौ मुञ्चामि नाऽन्यथा" । ततो दुष्करः साधुधर्मः, तस्माच्छ्रावकधर्मं चरिष्याव इत्युक्तवन्तौ तौ यक्षेण मुक्तौ । तत्प्रभृति च तौ यथाविधि जिनधर्मं पालयामासतुः । किन्तु तत्पितरौ तं धर्म न प्रपेदाते । कालेन तावग्निभूति-वायुभूती विपद्य सौधर्मे देवत्वमाप्य च्युत्वा गजपुरेऽर्हद्दासवणिज: पूर्णभद्र-माणिभद्राख्यौ सुतौ जातौ । ___ तत्र चैकदा माहेन्द्रो नाम मुनिः समवासार्षीत् । अर्हद्दासश्च ततो धर्मं श्रुत्वा प्रवव्राज ! तौ च पूर्णभद्र-माणिभद्रौ मुनि वन्दितुं गच्छन्तौ पथि शुनिकां चाण्डालं च दृष्ट्वा जातस्नेही मुनि वन्दित्वा तयोः स्नेहकारणं पप्रच्छतुः । ततो मुनिराख्यत्-"युवयोरग्निभूतिवायुभूतिभवे पिता द्विज: सोमदेवो माताऽग्निला स्तः । तयोः सोमदेवो विपद्याऽत्रैव भरते शङ्खपुरे जितशत्रुर्नाम परदाररतो नृपो बभूव । अग्निला च मृत्वा शङ्खपुर एव सोमभूतेद्विजस्य रुक्मिणी नाम भार्या जाता । तां चैकदा स्वगृहाङ्गणस्थां दृष्ट्वा
अष्टमं पर्व - षष्ठः सर्गः सद्यः कामातॊ जितशत्रुः सोमभूतेरपराधं कल्पयित्वाऽन्तःपुरे निवेशयामास । स द्विजश्च तद्विरहपीडितो नितरां दुःखितोऽस्थात् । जितशत्रुश्च तया सह वर्षाणां सहस्रं रन्त्वा विपद्य नरके त्रिपल्योपममायुषं भुक्त्वोवृत्त्य हरिणो जातः । तत्र स व्याधेन हतो मायावी श्रेष्ठिसुतो भूत्वा पुनर्विपद्य गजो भूत्वा दैवाज्जातिस्मरोऽनशनं चक्रे । ततोऽष्टादशेऽहनि मृतस्विपल्यायुर्वैमानिक सुरो भूत्वा च्युत्वैष चाण्डालो जातः । रुक्मिणी च भवं भ्रान्त्वैषा शुनी जाता । तेन युवयोस्तयोः स्नेह उदभूत्" । ___ तच्छ्रुत्वा जातिस्मृतिमाप्तौ तौ वणिक्पुत्रौ चाण्डालं शुनी च प्रबोधयामासतुः । ततो विरक्तश्चाण्डालो मासमनशनेन स्थित्वा विपद्य नन्दीश्वरे देवो जातः । शुनी चाऽप्यनशनेन विपद्य शङ्खपुर एव सुदर्शना नाम राजपुत्र्यभवत् । पुनश्च तत्राऽऽयातो महेन्द्रमुनिस्ताभ्यां वणिग्भ्यां पृष्टः शुनी-चाण्डालयोर्गति शशंस । ताभ्यां वणिक्पुत्राभ्यां प्रतिबोधिता राजपुत्री प्रव्रज्यामुपादाय देवत्वमाप्तवती । तौ च वणिक्पुत्रौ पूर्णभद्र-माणिभद्रौ गृहिधर्मं पालयित्वा विपद्य सौधर्मे सुरौ जातौ । तत: च्युत्वा हस्तिनापुरे विष्वक्सेननृपस्य मधु-कैटभनामानौ पुत्रावभूताम् । नन्दीश्वरे जातः स देवश्च च्युत्वा चिरं भवं भ्रान्त्वा वटपुरे कनकप्रभनृपोऽभूत् । सुदर्शनाऽपि भूरिशो भवं भ्रान्त्वा तस्य कनकप्रभराजस्य चन्द्राभा नाम महिष्यभूत् ।
विष्वक्सेनश्च मधु राज्ये निवेश्य कैटभं च यौवराज्ये कृत्वा व्रतं गृहीत्वा ब्रह्मलोकमाप्तवान् । अशेषां महीं शासतोश्च मधुकैटभयोर्देशं पल्लीपतिर्भीमश्छलादुपाद्रवत् । तं हन्तुं प्रस्थितो मधुर्मार्गे वटपुरे कनकप्रभनृपेण भोजनाद्यैः सत्कृतः । तथा स