________________
पुरुषतम्-गद्यात्मकसारोद्धारः
प्रातश्चाऽग्निज्वालपुरात् स्वपुरं गच्छतो विद्याधरेन्द्रस्य कालसंवरस्य यानं तत्राऽस्खलत् । ततः स विद्याधरो विमानस्खलनहेतुजिज्ञासया विमानादधस्तादवतीर्य तेजस्विनं बालं दृष्ट्वा 'विमानस्खलने हेतुरयं बालकः कोऽपि महात्मेति विचार्य तमादाय कनकमालायै भार्यायै पुत्रत्वेनाऽर्पयामास । तथा स मेघकूटाख्ये स्वपुरे गत्वा गूढगर्भा मम भार्याऽधुना सुतमसूतेत्युक्त्वा पुत्रजन्मोत्सवं विदधे । शुभे दिने द्युतिमत्वात् तस्य बालस्य प्रद्युम्न इति नामाऽकरोत् ।
१३६
इतश्च कृष्णो रुक्मिण्या क्व बाल इति पृष्टः सम्प्रत्येव त्वया नीत' इत्युदतरत् । ततश्च तया 'किं प्रतारयसी' त्युक्तः कृष्णः नाऽपि च्छलितोऽस्मीत्यनुमाय सुतं बहुधाऽन्वेषयामास । रुक्मिणी च पुत्रवृत्तान्तेऽप्राप्ते मूच्छिता भुवि पतिता कथञ्चिल्लब्धसंज्ञा परिजनैः सह तारस्वरं रुरोद । तदानीं च यदवस्तत्पल्यश्च दुःखिता अभवन् । सत्यभामायाः परिच्छदश्च तामेकां विहाय दुःखितो - ऽभवत् । समर्थस्य विष्णोरपि नाऽधुनाऽपि पुत्रवृत्तलाभ इत्येवं भाषमाणा रुक्मिणी दु:खितं कृष्णं द्विगुणदुःखितं चकार ।
तदानीमेव दुःखितैर्यदुभिः परिवेष्टितस्य कृष्णस्य सभायां समागतो नारदः किमेतदिति ब्रुवन् कृष्णेन "जातमात्रो रुक्मिण्याः पुत्रः केनाऽपि मत्करादपहतः, तस्य शुद्धि जानासि किमिति पृष्ट उवाच - 'अत्राऽतिमुक्तो नाम महाज्ञान्यासीत्, सोऽधुनैव मोक्षं गतः । इदानीं भारते कोऽपि ज्ञानी नाऽस्ति । सीमन्धरात् तीर्थकृदधुना प्राग्विदेहेषु वर्त्तते, गत्वा तं पृच्छामि" । एवमुक्त्वा सर्वैः प्रार्थितः स त्वरितं सीमन्धरजिनमुपगम्य समवसरणस्थं तं प्रणम्य कृष्णरुक्मिण्योः सुतः क्वेत्यपृच्छत् ।
अष्टमं पर्व षष्ठः सर्गः
१३७
ततो जिन उवाच- 'देवेन प्राग्भववैरिणा धूमकेतुना छलेन हत्वा कृष्णस्य प्रद्युम्नो नाम पुत्रो वैताढ्यसमीपे शिलायां मुक्तश्चरमदेहत्वात् केनाऽपि हन्तुं न शक्यते । ततः प्रातर्गच्छता संवरेण खेचरेण दृष्टः पुत्रत्वेन पत्न्यै समर्पितः सम्प्रति वर्धमानोऽस्ति" । ततः पूर्वजन्मनि धूमकेतोस्तेन कथं वैरमिति नारदेन पुनः पृष्टः स्वाम्युवाच
'जम्बूद्वीपस्य भरते मगधेषु सर्वसम्पत्समृद्धे शालिग्रामे मनोरमोद्याने तत्पतिः सुमना नाम यक्षोऽभूत् । तत्र ग्रामे च सोमदेवो नाम द्विजोऽवात्सीत् । तस्य द्विजस्याऽग्निलायां पन्यामग्निभूति-वायुभूती वेदविदौ सुतावभूताम् । तौ च विद्यया ख्यातौ प्राप्तयौवनौ विविधान् भोगान् भुञ्जानौ मदोदग्रौ तस्थतुः । एकदा च तस्मिन्नुद्याने नन्दिवर्धनाचार्यः समवसृतो लोकेनैत्य वन्दितः । तत्र चाऽतिदृप्तावग्निभूति-वायुभूती एत्यैवमूचतुः"यदि कमपि शास्त्रार्थं वेत्सि तर्हि वद" । ततो नन्दिवर्धनशिष्येण सत्येन कुतो युवामिति पृष्टौ तौ शालिग्रामात् समागतावित्यूचतुः । ततः पुनः सत्येन 'कुतो भवाद् युवयोर्मानुष्यमिति पृष्टौ तौ लज्जयाऽधोमुखौ तदाख्यातुमसमर्थौ तस्थतुः ।
ततः सत्य उवाच- 'अस्य ग्रामस्य वनस्थल्यां पूर्वभवे युवां शृगालावभूताम् । एकदा चैकेन गृहस्थेन निशि मुक्तं चर्मरज्ज्वादिकं वृष्ट्याऽऽर्द्रीकृतं ताभ्यां सर्वमभक्ष्यत । तौ चाऽत्याहाराद् विपन्नौ युवां कर्मवशात् सोमदेवद्विजसुतौ जातौ । स हालिकश्च प्रभाते तच्चर्मरज्ज्वादिकं भक्षितं प्रेक्ष्य स्वगेहं गतः कालेन विपद्य स्वपुत्रवधूपुत्रो जातः । ततो जातिस्मरत्वात् 'स्नुषा सुतश्च कथं मातः पितरित्येवं