________________
१३५
१३४
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः रोहिणीपुत्राय प्रदत्ता । कृष्णश्च पश्यतां सर्वेषां राज्ञां पद्मावती जहार । स्वयंवरागतान् युध्यमानान् नृपान् जितवांश्च । ततः पद्मावतीमादाय रामेण सह द्वारकामेत्य गौरीगृहसमीपगृहे तां निवेशयामास ।
इतश्च गान्धारदेशे पुष्कलावत्यां पूर्यां नग्नजितस्तनयचारुदत्तो नाम नृपो बभूव । तस्य च गान्धारी नाम सुन्दरी भगिन्यासीत् । पितरि मृते च चारुदत्तो दायादैः पराजितो दूतद्वारा कृष्णं शरणं श्रितः । ततः कृष्णो गान्धारेषु गत्वा रणे चारुदत्तदायादान् हत्वा चारुदत्तप्रदत्ता गान्धारीं परिणीय तां पद्मावतीगृहसमीपगृहे स्थापयमास । एवं कृष्णस्य क्रमाद् यथाक्रमं गृहेषु स्थिता अष्टौ महिष्योऽभवन् ।।
अन्यदा च रुक्मिण्या गृहेऽतिमुक्तमुनिराजगाम । तं दृष्ट्वा च सत्यभामाऽपि तत्राऽऽशु समाजगाम । रुक्मिण्या च मम तनयः स्याद् नवेति पृष्टो मुनिः कृष्णसमस्ते पुत्रो भावीत्युक्त्वा ययौ । सत्यभामा च तन्मुनिवचः स्वविषये मन्यमाना कृष्णसमो मम पुत्रो भावीति रुक्मिणीमुवाच । ततो मुनिवचनं छलाद् न फलतीति रुक्मिण्योक्ता च सा तया विवाद चकार । द्वे अपि च विवदमाने कृष्णसमीपमीयतुः । तदा च तत्र ससोदरो दुर्योधनस्तत्राऽऽयातो मम सुतस्ते जामाता भविष्यतीति सत्यभामयोचे । रुक्मिण्याऽपि तथोक्तो दुर्योधन उवाच-'युवयोर्या पुत्र प्रसविष्यते तस्मै स्वसुतामहं दास्यामि" । तत: सत्यभामोवाच-“यस्याः सुतः प्रथमं परिणेष्यति तद्विवाहेऽन्यया स्वकाः केशा दातव्याः, अत्र साक्षिणो राम-कृष्णदुर्योधनाः" । एवमुदित्वा सा रुक्मिण्यपि च निजगृहं जग्मतुः ।
* **
अष्टमं पर्व - षष्ठः सर्गः
अन्यदा च रुक्मिणी स्वप्ने श्वेतवृषभस्थिते विमाने स्वं समारुढं दृष्ट्वा प्रबुद्धा । तदानीमेव च महाशुकाद् महद्धिको देवश्च्युत्वा तस्याः कुक्षाववततार । प्रातश्च रुक्मिणी तं स्वप्नं कृष्णायाऽऽख्यत् । कृष्णश्च जगदेकवीरस्ते पुत्रो भवितेति स्वप्नफलमाख्यत् ।
तदानीं च सत्यभामाया दासी तत् स्वप्नफलं श्रुत्वा भामायै शशंस । ततः साऽपि स्वप्नं कल्पयित्वा कृष्णाय हस्तिमल्लतुल्यो हस्ती मया स्वप्ने दृष्ट इति शशंस । कृष्णश्च तदिङ्गितैः कूटं स्वप्नं ज्ञात्वाऽपीयं मा स्म कुप्यदिति ते शुभः पुत्रो भविष्यतीति स्वप्नफलमाख्यत् । दैववशाच्च तदा तस्या गर्भोऽभवत् । तदुदरमवर्धिष्ट च । रुक्मिणी तूत्तमगर्भत्वाद् गूढगर्भाऽभूत् । अन्यदा च सत्यभामा कृष्णमुवाच-रुक्मिणी मायया गर्भमुवाच, द्वयोरुदरं पश्य" । ___अथ तदानीमेव काऽपि दासी समागत्य रुक्मिणीदेव्याः स्वर्णकान्तिः पुत्रोऽभवदिति कृष्णं वर्धापयामास । सत्यभामा च तच्छ्रुत्वा विलक्षा क्रोधाद् गृहं यान्ती भानुकं नाम सुतं सुषुवे । कृष्णश्च प्रसन्नो रुक्मिणीगृहं गत्वा सिंहासनासीनः पुत्रमानाय्याऽपश्यत् । द्युतिमत्त्वादेष नामतः प्रद्युम्नोऽस्त्विति तमुल्लापयन् क्षणं तस्थौ च । तदानीं च रुक्मिणीवेषो धूमकेतुसुरः प्राग्वैरात् कृष्णाद् बालकं गृहीत्वा वैताढ्यं गत्वा भूतरमणोद्याने "टङ्कशिलोपरि समास्फाल्याऽस्य न दुःखाद् मृत्युरिति शिलापृष्ठ एवैनं मुञ्चामि । येन निराहारः क्षुधातुरोऽसौ क्रन्दन् म्रियेते'ति विचार्य तं तत्र मुक्त्वा ययौ । स बालश्चरमदेहत्वाद् निरुपक्रमायुर्बहुपत्रदेशे बाधारहितः पपात ।