________________
१३२
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः "श्रियोऽद्भुतं रूपं, शिल्पिनां विस्मयजनकं कौशलमि"ति प्रशस्य तां प्रणम्योवाच-"लक्ष्मि ! तथा कुरु यथा कृष्णस्य नूतनां प्रियामहं रूपसम्पदा जयामि । एवं जाते चाऽहं ते पूजां करिष्यामी'-त्युक्त्वा पुनः कृष्णस्य समीपं गत्वा क्व ते प्रियेति पुनः पप्रच्छ ।
ततः कृष्णः सत्यभामयाऽपराभिश्च पत्नीभिः सह श्रीगृहमगात् । रुक्मिणी चोत्थाय कां प्रणमामीत्युवाच । कृष्णेन दर्शिता सत्यभामा चाऽब्रवीत्-"इयं मया प्राग्वन्दितेति मां कथं वन्दिष्यते" । ततो हसित्वा कृष्ण उवाच-'स्वसृवन्दने न कोऽपि दोषः । ततः सत्यभामा विलक्षा रुक्मिणी नतपूर्विणी स्वगृहमगात् । कृष्णश्च रुक्मिण्य महतीं सम्पदं ददौ तया सहाऽतिप्रेम्णा रेमे च ।
अथाऽन्यदा समायातो नारदः कृष्णेन पूजयित्वा किमपि दृष्टमाश्चर्यं वदेति पृष्टोऽब्रवीत्-'वैताढ्यपर्वते विद्याधरेन्द्रो जाम्बवानस्ति, तस्य शिवचन्द्राकुक्षिजौ विष्वक्सेनः पुत्रो जाम्बवती पुत्री च स्त: । जाम्बवत्या रूपेण समा जगत्रये काऽपि नाऽस्ति । सा क्रीडार्थं गङ्गायां नित्यं गच्छति । तामाश्चर्यभूतां दृष्ट्वा त्वामाख्यातुमागतोऽस्मि" । तच्छ्रुत्वा ससैन्यस्तत्र गतः कृष्णः सखीभिः परिवृतां क्रीडन्तीं जाम्बवतीं दृष्ट्वा नारदोक्तं सत्यमिति वदंस्तामपजहार । तज्ज्ञात्वा च जाम्बवानतिक्रुद्वः ससैन्यः सायुधस्तत्राऽऽजगाम । द्वयोः सैन्ययोस्तुमुले युद्धे जाते चाऽनाधृष्टिना पराजित्य जाम्बवान् कृष्णसमीपं नीतः । ततो जाम्बवान् जाम्बवती कृष्णाय दत्त्वाऽपमानाद् विरज्य प्रव्रज्यामाददे । कृष्णश्च विष्वक्सेनेन सह जाम्बवतीमादाय द्वारकामागत्य
अष्टमं पर्व - षष्ठः सर्गः रुक्मिणीगृहसमीपप्रासादे दास्यादिकं दत्त्वा तामास्थापयत् । तस्याश्च रुक्मिण्या सह महती प्रीतिरभूत् ।
अथाऽन्यदा सिंहलेशस्य श्लक्ष्णरोम्णः समीपं प्रेषितो दूत आगत्य कृष्णं निवेदयामास-"श्लक्ष्णरोमा तवाऽऽज्ञा न मन्यते । किन्तु तस्य सुलक्षणा लक्ष्मणा नाम सुता तवैव योग्याऽस्ति । सा च द्रुमसेनेन सेनापतिना रक्षिता समुद्रे स्नातुमागता तत्र सप्तरात्रं स्थास्यति" । तच्छ्रुत्वा च कृष्णो बलभद्रेण सह तत्र गत्वा तं सेनापति हत्वा लक्ष्मणामादाय द्वारकामागत्य तां परिणीय जाम्बवतीगृहान्तिकप्रासादे रत्नसदने परिच्छदेन सह स्थापयामास ।
इतश्चाऽऽयुस्खरीपुर्यां सुराष्ट्रेशो राष्ट्रवर्धनो नृप आसीत् । तस्य च विनयाकुक्षिजौ युवराजो नमुचिर्नाम सुतो रूपसम्पदाऽप्रतिमा सुसीमा नाम सुता चाऽऽस्ताम् । नमुचिश्च दिव्यास्त्रबलोपेतः कृष्णाज्ञां नाऽमन्यत । स एकदा सुसीमया सह प्रभासे स्नातुं ययौ । तत्र शिबिरं कृत्वा स्थितं तं ज्ञात्वा कृष्णः ससैन्योऽभ्यागत्य तं जघान । ततः सुसीमामादाय परिणीय महत्या सम्पदा तां लक्ष्मणागृहाभ्यर्णगृहे स्थापयामास । राष्ट्रवर्धनोऽपि च सुसीमायै परिच्छदं कृष्णाय गजादिकं च विवाहनिमित्तं प्रेषयामास । तथा कृष्णो मरुदेशे वीतभयनृपस्य कन्यां गौरी परिणीय सुसीमागृहसमीपगृहे स्थापयामास । ___ अथ रामेण सह कृष्णो हिरण्यनाभपुत्र्याः पद्मावत्या स्वयंवरेऽरिष्टपुरं गतो हिरण्यनाभेन रोहिणीसोदरेण जामेयाविति सहर्ष पूजितः । तन्नृपस्याऽग्रजो रैवतश्च पित्रा सह नमिजिनस्य तीर्थे प्रवव्राज । तत्सुता रेवती रामा सीता बन्धुमती च पुरा रामाय