________________
१३०
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः रथमारोपयित्वा प्रतिनिवृत्तवान् । तस्याः पितृष्वस्त्रादयश्च स्वदोषाच्छादनाय रुक्मिन् ! कृष्णेन सरामेण त्वत्स्वसा रुक्मिणी चौरेणेव हियते' इत्युच्चैः पूच्चक्रुः ।
राम-कृष्णौ च सुघोषं पाञ्चजन्यं च दध्मतुः । तेन च कुण्डिनपुरं समुद्र इवाऽक्षुभ्यत् । महाबलौ रुक्मी शिशुपालश्च महता सैन्येन सह राम-कृष्णौ प्रत्यधावताम् । रुक्मिणी च तौ दृष्ट्वा कृष्णमुवाच-"क्रूरौ महाबलौ मद्भ्राता शिशुपालश्च तत्पक्षीया अन्ये च वीराः सन्नद्धाः, युवां त्वेकाकिनौ । तेनाऽत्र भीताऽस्मि, का गतिर्भवेत् ?" तच्छ्रुत्वा विहस्य कृष्ण उवाच-'मा भैषीः, त्वं क्षत्रियाऽसि, रुक्म्याद्या वराकाः क्व ? मबलं पश्य" । एवमुक्त्वा तस्याः प्रत्ययार्थं कृष्ण एकघातेनैव कमलनालश्रेणीवत् तालपङ्क्तिमच्छिदत् । अङ्गुलीयकवजं चाऽगुल्या निष्पीड्य भृष्टमसूरकणवत् पिपेष । तेन च पतिबलेन रुक्मिणी परमां मुदं प्राप ।
ततः कृष्णो राममुवाच-"त्वं रुक्मिणीमादाय व्रज, अहमनुधावतो रुक्म्यादीन् हनिष्यामि" । रामोऽप्यहमेव रुक्म्यादीन् हनिष्यामि, त्वमेव व्रजेत्युवाच । ततो भीता रुक्मिणी मद्भ्राता रक्षणीय इत्युवाच । रामोऽपि कृष्णानुमत्या तस्या वाचं स्वीकृतवान् । तथा रामाज्ञया कृष्णो रुक्मिणीमादाय ययौ । रामस्तु योर्बु तत्रैव तस्थौ । __ अथ राम आयातं शत्रुसैन्यं मुशलमुद्यम्य मन्दरोऽब्धिमिव रभसा ममन्थ । तस्य मुशलप्रहारेण वज्रप्रहारेण गिरय इव गजा: पेतू रथाश्चूर्णिता अभवन् । ततो रुक्मिसैन्यं शिशुपालेन सह दुद्राव ।
अष्टमं पर्व - षष्ठः सर्गः
१३१ रुक्मी च स्वस्य बलमानी बलभद्रमुवाच-"चिराद् दृष्टोऽसि गोपाल ! ममाऽग्रे तिष्ठ, एषोऽहं ते गोपयःपानोद्गतं मदं हरिष्यामि"। रामश्च प्राक्प्रतिज्ञातं स्मरन् मुशलं त्यक्त्वा शरैस्तस्य रथमभाङ्क्षीत् कवचं चिच्छेदाऽश्वांश्च जघान । एवं निरुपायं रुक्मिणं स क्षुरप्रेण मुण्डितं कृत्वा हसन्नुवाच-त्वं मध्वा भ्रातेति न वधमर्हसि, इत: प्रयाहि, मुण्डोऽपि मत्प्रसादात् स्वपत्नीभिर्भोगान् भुडव" । तेनैवमुक्तो मुक्तश्च स रुक्मी लज्जया कुण्डिनपुरमगत्वा तत्रैव भोजकटं पुरं निर्माय तस्थौ । ___ अथ कृष्णो द्वारकापुरीं प्रविशन् रुक्मिणीमुवाच-"प्रिये ! ममेयं पुरी रत्नमयी देवरचिता । अत्र कल्पवृक्षमयेषूद्यानेषु मया सह सुरस्त्रियमिव सततं सुखं रंस्यसे" । ततो रुक्मिण्युवाच-'तव महर्द्धयः पत्न्यः सन्ति, अहं त्वेकाकिनी बन्दिनीवाऽऽनीता तासां हसनीया यथा न स्यां तथा कुरु" । ततः कृष्णस्त्वां तदधिकां करिष्ये इति तामाश्वास्य सत्यभामागृहसमीपप्रासादेऽमुञ्चत् । तथा तां गान्धर्वेण विवाहेन परिणीय रुक्मिणीं तां रात्रि स्वैरं रमयामास । तथा स रुक्मिणीगृहे जनप्रवेशं न्यषेधत् ।
ततः सत्यभामा स्वां प्रियां दर्शयेति कृष्णं साग्रहमुवाच । कृष्णश्च लीलोद्याने श्रीगृहे संस्करणव्याजाच्छ्रीप्रतिमां चित्रकारकैरुत्सार्य तत्र श्रीस्थाने 'रुक्मिणी स्थापयामास । ततो देवीनामागमे त्वया नि:स्पन्दया भवितव्यमिति तामनुशिष्य स्वं स्थानं गतः कृष्णः। ततस्स सत्यभामया "क्व स्थाने त्वया सा प्रिया मुक्ते"ति पृष्टः सा श्रीगृहेऽस्तीति जगाद । ततः सत्यभामा सपत्नीभिः समं श्रीगृहं ययौ । तत्र श्रीस्थानस्थां रुक्मिणीं दृष्ट्वा