________________
षष्ठः सर्गः अथ रामेण सह कृष्णो दशार्हा अपि च यादवैः सह रममाणा द्वारकायां सुखमवात्सुः । जिनोऽरिष्टनेमिश्च भ्रात्रो राम-कृष्णयोर्दशार्हाणां च मोदं वर्धयन् क्रमाद् वृद्धिमाप । स प्रभुर्दशधनुस्तुङ्गोऽविकृतचेता, आजन्म कामजेता, यौवनं प्राप्तो रामकृष्णाद्यैर्धातृभिः पितृभ्यां च प्रेर्यमाणोऽपि कन्या न परिणिनाय । राम-कृष्णौ च भूरिशो नृपान् वशगान् विधाय प्रजाः पालयामास । __ अन्यदा च नारदो भ्रमन् कृष्णगृहं प्राप्त: कृष्णेन सरामेण विधिवदचितोऽन्तःपुरमगात् । दर्पणे स्वं पश्यन्त्या सत्यभामयाऽऽसनादिनाऽकृतसत्कारः क्रोधात् ततो निर्गत्य विपरीतमचिन्तयत्'कृष्णान्तःपुरे सर्वैरेव सदा नारदाः पूजिताः, इयं सत्यभामा तु पतिप्रियत्वात् स्वरूप-यौवनगर्वाच्च दृष्टिप्रक्षेपमपि नाऽकरोत् । तदेनं सपल्याः प्राप्तिसङ्कटे पातयामि' । एवं विचिन्त्य स कुण्डिनपुरं गतवान् ।
तत्र च भीष्मको नाम नृपोऽभूत् । तस्य यशोमतीकुक्षिणी रुक्मः पुत्रो रुक्मिणी पुत्री चाऽभूताम् । तत्र रुक्मिण्या नमस्कृतो नारदस्तवाऽर्धचक्री कृष्णो वरोऽस्त्वित्याशिषं ददौ । तया च कृष्णः क इति पृष्टश्च नारदः कृष्णस्य रूपादीनप्रतिमान् गुणानवर्णयत् । तच्छ्रुत्वा च रुक्मिणी कृष्णे जातानुरागा तमेव
अष्टमं पर्व - षष्ठः सर्गः
१२९ चिन्तयन्ती कामात कालं निनाय । नारदश्च तस्या रूपं पटे लिखित्वा द्वारकामेत्य कृष्णस्य दर्शयामास । तद् दृष्ट्वा कृष्णेन केयं पटे लिखितेति पृष्टश्च नारदो रुक्मिणीं वर्णयामास । तेन कृष्णस्तद्रूपमोहितस्तस्यां जातानुरागो जज्ञे । ____ अथ कृष्णो दूतं प्रेष्य रुक्मिणो रुक्मिणी ययाचे । रुक्मी च हसित्वोवाच-'हीनकुलाय गोपाय जामिर्न दीयते । इमां मैत्रीहेतोः शिशुपालाय नृपाय दास्ये, रोहिणी-चन्द्रयोरिवैतयोर्योग: श्लाघ्यः' । एवं परुषं तद्वाक्यं श्रुत्वाऽऽगत्य दूतः कृष्णाय सर्वं निवेदयामास । तवृत्तान्तं ज्ञात्वा च पितृष्वसा धात्री रुक्मिणी रहसि नीत्वा प्रेम्णोवाच-'त्वां बाल्ये ममाऽङ्के दृष्ट्वाऽतिमुक्तको मुनिः 'कृष्णस्यैषाऽग्रमहिषी भविष्यति, स च द्वारकानिवेशेनोपलक्षणीय' इत्यवोचत् । किन्तु याचमानायाऽपि तस्मै रुक्मिणा त्वं न दत्ता, प्रत्युत दमघोषपुत्राय शिशुपालाय प्रदत्ता' । तच्छ्रुत्वा रुक्मिण्युवाच-"मुनेर्भाषितमपि मिथ्या भवति" । ततः सा धात्री रुक्मिण्याः कृष्णेऽनुरागं ज्ञात्वा गुप्तदूतेन सद्य: कृष्णायाऽजिज्ञपत्-"माघे शुक्लाष्टम्यां नागपूजाव्याजाद् रुक्मिण्या सहोद्यानं यास्यामि । यदि ते रुक्मिण्या प्रयोजनं तर्हि तत्राऽऽगन्तव्यम्, अन्यथा शिशुपाल एनां परिणेष्यति" । ___ इतश्च रुक्मिणाऽऽहूतः शिशुपालो रुक्मिणी परिणेतुं ससैन्यः कुण्डिनपुरमगात् । नारदश्च कलिप्रियो रुक्मिणीवरणार्थ तत्राऽऽगतं शिशुपालं कृष्णाय न्यवेदयत् । कृष्णोऽपि रामेण सह जगाम । तदा पृथग् रथमारूढो गुप्तं कुण्डिनपुरं तया पितृष्वस्रा सखीभिश्च परिवृतां नागपूजार्थमुद्यानमागतां रुक्मिणीं तस्याः पितृस्वसारं रथादवतीर्य कृष्णः स्वं ज्ञापयित्वा तयाऽनुज्ञातां