Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 05
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
११२
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः च चक्रुरष्टभिरुग्रप्रकाशैर्दीपैर्मार्ग प्रकाशयामासुश्च । तथा देवता धवलवृषभरूपेण तस्याऽग्रे भूत्वा पुर्या द्वाराण्युद्घाटयामासुः । वसुदेवश्च गोकुलं प्राप्त: पञ्जरस्थेनोग्रसेनेन नृपेण दृष्टः सविस्मयं किमेतदिति पृष्टः कंसस्य शत्रुरयमित्युक्त्वा तं बालं दर्शयन्नुवाच'अमुष्माद् बालकात् तव शत्रोनिग्रहस्तवोदयश्च भविष्यति, परमेतत् त्वया कस्याऽपि नाऽऽख्येयम् । ततस्तेनैवमस्त्विति प्रोक्तो वसुदेवो नन्दगृहं गतवान् । तदानीमेव च नन्दभार्या यशोदाऽपि सुतां सुषुवे । ___ वसुदेवश्च यशोदायै सुतं दत्त्वा तत्सुतामादायाऽऽनीय देवकीपार्श्वे सुतस्थानेऽमुचत् । ततो गृहाद् निर्गते वसुदेवे कंसायुक्ताः प्रबुद्धाः किं जातमिति जल्पन्तस्तत्र तां सुतां दृष्ट्वाऽऽदाय कंसस्याऽर्पयामासुः । तत: कंसो दध्यौ-'यो मम मृत्यवे सप्तमो गर्भस्तत्स्त्रीमात्रमभूत् । तन्मुनिवचो मिथ्या मन्ये, किमेतया हतये'ति तां छिन्ननासापुटां कृत्वा देवक्यै ददौ । स बालकश्च कृष्णतनुत्वात् कृष्णनामा नन्दगृहे देवताभी रक्ष्यमाणो ववृधे । ___ अथ देवकी मासे गते पुत्रं द्रष्टुमुत्कण्ठिता नन्दगृहं यास्यामीति वसुदेवमभाषत । वसुदेवश्च-'अकस्माद् गच्छन्ती त्वं कंसेन लक्षिता स्या इति कारणमुत्पाद्य गन्तुं युज्यते, तद्बहुभिः स्त्रीभिः सहाऽन्विता गोपथेन धेनूरर्चयन्ती गोकुलं गच्छेरि'त्युवाच । देवक्यपि तथैवाऽकरोत् । श्रीवत्सलाञ्छितवक्षस्कं नीलवर्णं पुण्डरीकाक्षं चक्राद्यङ्कितपाणि-पादं यशोदोत्सङ्गस्थं पुत्रं ददर्श च । एवमेव सा नित्यं गोपूजाच्छलेन तत्र ययौ । तत्प्रभृति च लोके गोपूजा प्रवृत्ता। ___ अथ सूर्पकस्य द्वे कन्ये शकुनिः पूतना च पितृवैरेण वसुदेवस्याऽपकर्तुमसमर्थे यशोदा-नन्दाभ्यां रहितमेकाकिनं कृष्णं
अष्टमं पर्व - पञ्चमः सर्गः हन्तुमाजग्मतुः । तयोः शकुनिः शकटमारुह्य कटुशब्दं चकार, पूतना च शकटाध:स्थं कृष्णं विषलिप्तस्तनदुग्धमपाययत् । कृष्णस्य रक्षिकास्तत्सन्निहिता देवताश्च तेनैव शकटेन प्रहृत्य ते द्वे व्यापादयन् । तदानीमेव च तत्राऽऽगतो नन्द एकाकिनं स्थितं कृष्णं पर्यस्तं शकटं व्यापादिते द्वे खेचौं च दृष्ट्वा छलितोऽस्मीति जल्पन् कृष्णं क्रोडे कृत्वा गोपालकान् सरोषमुवाच-'शकटः कथं पर्यस्तः, राक्षस्याविव रक्तमुख्यौ मृते एते द्वे के ? ममाऽयं वत्सो भाग्यादेव जीवितोऽस्ति' ।
ततो गोपालका ऊचुः-'तव बालेनैव शकट: पर्यस्तः, एते मारिते च' । तच्छ्रुत्वा च नन्दः कृष्णं सर्वाङ्गरक्षतं निरूप्य यशोदामुवाच-'कथं पुत्रमेकाकिनं मुक्त्वाऽन्यत्र यासि ? अद्याऽयमपायात् स्तोकाद् मुक्तः, वरं घृतघटा लुण्ठन्तु, किन्तु त्वयेकाकिनं कृष्णं त्यक्त्वा न क्वाऽपि गन्तव्यं, वरमन्यत् कार्यं सीदतु' । तच्छ्रुत्वा यशोदाऽपि च हा हताऽस्मीति ब्रुवाणा पाणिना स्ववक्षस्ताडयन्ती धावित्वैत्य कृष्णं गृहीत्वा न ते किमपि क्षतमिति पृच्छन्ती सर्वाङ्ग समीक्ष्य शिरसि चुम्बित्वा परिरेमे । ततः सा यशोदा नित्यं सादरं कृष्णमधारयत् । तथाऽपि चञ्चलः स केनाऽपि च्छलेनेतस्ततो जगाम ।
एकदा च यशोदा कृष्णोऽन्यत्र मा गादिति दाम्ना तमुदरे बद्ध्वा दामान्तमुलूखले च बद्ध्वा प्रातिवेशिकगृहं गतवती । तदानीं च सूर्पकपुत्रः पितामहवैरं स्मरंस्तत्रैत्य मिथ:समीपस्थयमलार्जुनतां धारयामास । तथा सोलूखलं कृष्णं चूर्णयितुं स तयोर्यमलार्जुनयोरन्तरेऽनयत् । किन्तु कृष्णसन्निहितदेवतया स

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159