Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 05
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 75
________________ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः तच्छ्रुत्वा कुपितः कृष्ण उवाच- 'तातेन दाक्षिण्याच्चिरं स्नेहसम्बन्धः पालितः । जरासन्धो नाऽस्माकं प्रभुः । अविचार्य कुर्वंश्च स कंसगतिमेव यास्यति । तद् गच्छ यथेच्छं जरासन्धाय शंस' । कृष्णेनैवमुक्तः सोमकस्तवाऽसौ सुतः कुलनाशको नोपेक्षणीय इति समुद्रविजयमुवाच । तद्वचसा चाऽत्यन्तं क्रुद्धोऽऽनाधृष्टिरुवाच'भूयो भूयस्तातात् पुत्रौ याचमानः किं न लज्जसे ? स जरासन्धो जामातृवधेनाऽपि दुःखी । वयं षड्भ्रातृवधेन दुःखिनो न किम् ? यद्येवं पुनर्वक्ष्यसि तदा वयं न सहिष्यामहे । एवमनाधृष्टिना तिरस्कृतः समुद्रविजयेन चोपेक्षितः सोमकः स्वस्थानं ययौ । १२४ अथ समुद्रविजयः स्वबान्धवानेकत्राऽऽहूय नैमित्तिकं क्रोष्टुकिं पप्रच्छ- 'अर्धचक्रिणा जरासन्धेनाऽस्माकं विग्रह उपस्थितः, तदतः परं यद्भावि तत् कथय' । ततः क्रोष्टुकिरुवाच- 'एतौ वीरौ रामकृष्ण जरासन्धं हत्वा त्रिखण्डभरताधीशौ भविष्यतः । अधुना यूयं प्रतीच्यां जलधितीरमुद्दिश्य गच्छत । तत्र गच्छतां युष्माकं शत्रुनाशारम्भो भावी । यत्रैषा सत्यभामा पुत्रद्वयं जनयति तत्र पुरीं निर्माय भवद्भिर्निःशङ्कं स्थातव्यम्" । ततः समुद्रविजयो घोषणां कारयित्वा बन्धून् स्वां यात्रामजिज्ञपत् । एकादशकुलकोटिसंयुतश्च मथुरां त्यक्त्वा शौर्यपुरं गत्वा ततोऽपि सप्तकुलकोटीरादाय ज्ञातिसहितः समुद्रविजयः प्रस्थितवान् । उग्रसेननृपोऽपि च तमन्वगात् । सर्वेऽपि च विन्ध्यस्य मध्ये पथि सुखं जग्मुः । अथ सोमको गत्वा जरासन्धाय सर्वं वृत्तान्तं निवेदयामास । तेन च क्रुद्धं जरासन्धं तत्सुतः काल उवाच - 'अमी यादवाः अष्टमं पर्व पञ्चमः सर्गः भवतामग्रे के ? मामादिश क्वाऽपि गतान् यादवानन्विष्याऽहं हनिष्यामि, नाऽन्यथा निवर्त्तिष्ये' । ततो जरासन्धः कालं नृपपञ्चशत्या सहितं महत्या सेनया सह यदून् प्रति समादिशत् । ततः कालो भ्रात्रा यवनेन सहदेवेन च सहितो दुर्निमित्तान्यप्यगणयन् निर्गत्य यादवानामनुपदं गच्छन् यादवैरधिष्ठितां विन्ध्याचलोपत्यकाभुवं प्रापत् । १२५ अथ राम कृष्णरक्षिका देवताः कालमासन्नं विलोक्यैकद्वारमुन्नतं विशालं शैलं विचक्रुः । तत्र स्थितं यदुसैन्यं वह्निना भस्मीभूतं चितासमीपे रुदतीमेकां स्त्रियं च विचक्रुः । कालश्च तां प्रेक्ष्य किं रोदिषीति पप्रच्छ । ततो भीता सोवाच- 'जरासन्धभयात् सर्वे यदवः पलायिताः । तेषां पृष्ठतश्च वीरः कालः काल इव प्रस्थितवान् । तस्मिन् समीपगे च यादवा भयाद् वह्नि प्रविविशुः । दाशार्हा राम-कृष्णावपि चेह चितायां प्राविशन् । अहं च बन्धूनां तेषां वियोगादिहाऽग्नौ प्रवेक्ष्यामि । एवमुक्त्वा सा वह प्राविशत् । कालश्च देवतामोहितो यवनं सहदेवं नृपांश्चाऽवोचत्- 'मया तातस्य जामेश्च पुर इदं प्रतिश्रुतं यद्वयादिभ्योऽपि कृष्ट्वा यदून् हनिष्यामि । मद्भयादग्नौ प्रविष्टांस्तान् हन्तुं सत्यप्रतिज्ञोऽहमस्मिन् ज्वलितेऽग्नौ प्रवेक्ष्यामि । एवमुक्त्वा सोऽसि फलकधरः पतङ्गवदग्नौ प्रविवेश । स्वेषु पश्यत्सु देवतामोहितेषु मृतश्च । अत्राऽन्तरे च रविरस्तमियाय । तेन यवनादयस्तत्रैवोषुः । प्रभाते चाऽद्रिं चितां चाऽनवलोकमाना दूतैर्यादवा दूरं गता इत्याख्याताश्च वृद्धादिभिर्देवताकृतं संमोहं ज्ञात्वा यवनादयः प्रतिनिवृत्त्य जरासन्धस्य सर्वं वृत्तं शशंसुः । तच्छ्रुत्वा च मूच्छितो जरासन्धो भुवि पपात । लब्धसंज्ञश्च काल ! कालेति कंस ! कंसेति च रोदिति स्म ।

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159