________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः
तच्छ्रुत्वा कुपितः कृष्ण उवाच- 'तातेन दाक्षिण्याच्चिरं स्नेहसम्बन्धः पालितः । जरासन्धो नाऽस्माकं प्रभुः । अविचार्य कुर्वंश्च स कंसगतिमेव यास्यति । तद् गच्छ यथेच्छं जरासन्धाय शंस' । कृष्णेनैवमुक्तः सोमकस्तवाऽसौ सुतः कुलनाशको नोपेक्षणीय इति समुद्रविजयमुवाच । तद्वचसा चाऽत्यन्तं क्रुद्धोऽऽनाधृष्टिरुवाच'भूयो भूयस्तातात् पुत्रौ याचमानः किं न लज्जसे ? स जरासन्धो जामातृवधेनाऽपि दुःखी । वयं षड्भ्रातृवधेन दुःखिनो न किम् ? यद्येवं पुनर्वक्ष्यसि तदा वयं न सहिष्यामहे । एवमनाधृष्टिना तिरस्कृतः समुद्रविजयेन चोपेक्षितः सोमकः स्वस्थानं ययौ ।
१२४
अथ समुद्रविजयः स्वबान्धवानेकत्राऽऽहूय नैमित्तिकं क्रोष्टुकिं पप्रच्छ- 'अर्धचक्रिणा जरासन्धेनाऽस्माकं विग्रह उपस्थितः, तदतः परं यद्भावि तत् कथय' । ततः क्रोष्टुकिरुवाच- 'एतौ वीरौ रामकृष्ण जरासन्धं हत्वा त्रिखण्डभरताधीशौ भविष्यतः । अधुना यूयं प्रतीच्यां जलधितीरमुद्दिश्य गच्छत । तत्र गच्छतां युष्माकं शत्रुनाशारम्भो भावी । यत्रैषा सत्यभामा पुत्रद्वयं जनयति तत्र पुरीं निर्माय भवद्भिर्निःशङ्कं स्थातव्यम्" ।
ततः समुद्रविजयो घोषणां कारयित्वा बन्धून् स्वां यात्रामजिज्ञपत् । एकादशकुलकोटिसंयुतश्च मथुरां त्यक्त्वा शौर्यपुरं गत्वा ततोऽपि सप्तकुलकोटीरादाय ज्ञातिसहितः समुद्रविजयः प्रस्थितवान् । उग्रसेननृपोऽपि च तमन्वगात् । सर्वेऽपि च विन्ध्यस्य मध्ये पथि सुखं जग्मुः ।
अथ सोमको गत्वा जरासन्धाय सर्वं वृत्तान्तं निवेदयामास । तेन च क्रुद्धं जरासन्धं तत्सुतः काल उवाच - 'अमी यादवाः
अष्टमं पर्व पञ्चमः सर्गः
भवतामग्रे के ? मामादिश क्वाऽपि गतान् यादवानन्विष्याऽहं हनिष्यामि, नाऽन्यथा निवर्त्तिष्ये' । ततो जरासन्धः कालं नृपपञ्चशत्या सहितं महत्या सेनया सह यदून् प्रति समादिशत् । ततः कालो भ्रात्रा यवनेन सहदेवेन च सहितो दुर्निमित्तान्यप्यगणयन् निर्गत्य यादवानामनुपदं गच्छन् यादवैरधिष्ठितां विन्ध्याचलोपत्यकाभुवं प्रापत् ।
१२५
अथ राम कृष्णरक्षिका देवताः कालमासन्नं विलोक्यैकद्वारमुन्नतं विशालं शैलं विचक्रुः । तत्र स्थितं यदुसैन्यं वह्निना भस्मीभूतं चितासमीपे रुदतीमेकां स्त्रियं च विचक्रुः । कालश्च तां प्रेक्ष्य किं रोदिषीति पप्रच्छ । ततो भीता सोवाच- 'जरासन्धभयात् सर्वे यदवः पलायिताः । तेषां पृष्ठतश्च वीरः कालः काल इव प्रस्थितवान् । तस्मिन् समीपगे च यादवा भयाद् वह्नि प्रविविशुः । दाशार्हा राम-कृष्णावपि चेह चितायां प्राविशन् । अहं च बन्धूनां तेषां वियोगादिहाऽग्नौ प्रवेक्ष्यामि । एवमुक्त्वा सा वह प्राविशत् ।
कालश्च देवतामोहितो यवनं सहदेवं नृपांश्चाऽवोचत्- 'मया तातस्य जामेश्च पुर इदं प्रतिश्रुतं यद्वयादिभ्योऽपि कृष्ट्वा यदून् हनिष्यामि । मद्भयादग्नौ प्रविष्टांस्तान् हन्तुं सत्यप्रतिज्ञोऽहमस्मिन् ज्वलितेऽग्नौ प्रवेक्ष्यामि । एवमुक्त्वा सोऽसि फलकधरः पतङ्गवदग्नौ प्रविवेश । स्वेषु पश्यत्सु देवतामोहितेषु मृतश्च । अत्राऽन्तरे च रविरस्तमियाय । तेन यवनादयस्तत्रैवोषुः । प्रभाते चाऽद्रिं चितां चाऽनवलोकमाना दूतैर्यादवा दूरं गता इत्याख्याताश्च वृद्धादिभिर्देवताकृतं संमोहं ज्ञात्वा यवनादयः प्रतिनिवृत्त्य जरासन्धस्य सर्वं वृत्तं शशंसुः । तच्छ्रुत्वा च मूच्छितो जरासन्धो भुवि पपात । लब्धसंज्ञश्च काल ! कालेति कंस ! कंसेति च रोदिति स्म ।