________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः समुद्रविजयोऽपि सन्नह्य युद्धार्थं प्रवृत्तोऽभूत् । तस्मिन्नाधावमाने च जरासन्धसैनिकाः पलाय्य दिशोदिशं ययुः । अनाधृष्टिश्च समुद्रविजयाज्ञया निजे रथे राम कृष्णावारोप्य वसुदेवगृहं नीतवान् । समुद्रविजयादयः सर्वेऽपि यादवा वसुदेवगृहे गत्वा सभां चक्रुः । वसुदेवश्चाऽर्धासने राममुपवेश्य कृष्णं स्वाङ्के आरोप्य मुहुर्मुहुः स्नेहाच्छिसि चुचुम्ब । भ्रातृभिश्च किमेतदिति पृष्टो वसुदेवोऽतिमुक्तकवृत्तमारभ्य सर्वं कृष्णवृत्तान्तमाख्यत् ।
१२२
ततः समुद्रविजयः कृष्णं स्वोत्सङ्गे कृत्वा रामं तत्पालनात्प्रसन्नो मुहुर्मुहुः प्रशशंस । देवकी च च्छित्रैकनासया तया पुत्र्या सहाऽऽगत्य कृष्णं स्वाङ्के समारोप्य परिषष्वजे । यादवाश्च वसुदेवमूचुः - 'त्वमेकाक्यपि जगज्जेतुं क्षमोऽसि, तथाऽपि क्रूरेण कंसेन जातमात्रानेव पुत्रान् हन्यमानान् कथमसहिष्ठाः ?' ततो वसुदेव उवाच-‘सत्यव्रतं पालयितुमेवाऽहमेवं दुष्कर्म विसोढवान् । अयं कृष्णश्च देवक्या आग्रहेण गोकुले प्रक्षिप्य नन्दसुतामादाय रक्षितः । कंसश्च देवक्याः सप्तमो गर्भः कन्यकेत्यवहेलयैकं नासापुटं छित्त्वेमां नन्दसुतां मुमोच' ।
ततः समुद्रविजयो भ्रात्राद्यनुमत्या कारागृहादुग्रसेनं नृपं मोचयामास । तथोग्रसेनेन सह समुद्रविजयादयो यमुनाया नद्यास्तटे कंसस्य प्रेतकार्याणि चक्रुः । कंसस्य माता पत्यश्च नद्यां जलाञ्जलीन् ददुः । किन्तु जीवयशा अभिमानाज्ञ्जलाञ्जलिं न ददौ किन्तु कोपादवोचत- 'एतौ गोपौ राम कृष्णौ सपुत्रान् दशाहश्चि घातयित्वा स्वपतेः प्रेतकार्यमहं करिष्ये, अन्यथाऽग्नौ प्रवेक्ष्यामि' | सैवं प्रतिज्ञाय ततो निर्गत्य जरासन्धाधिष्ठितं राजगृहं नगरं जगाम ।
अष्टमं पर्व पञ्चमः सर्गः
१२३
समुद्रविजयो राम कृष्णानुमत्योग्रसेनं मथुरायां नृपं चकार । उग्रसेनेन दत्तां सत्यभामां क्रोष्टुकिना कथिते दिने यथाविधि कृष्णः परिणिनाय ।
***
इतश्च जीवयशा मुक्तकेशा रुदती राजसन्धसभां प्रविष्टा जरासन्धेन पृष्टाऽतिमुक्तकवृत्तान्तं कंसवधं चाऽऽख्यत् । तच्छ्रुत्वा जरासन्ध उवाच- 'कंसेन न सुष्ठु कृतं यद् देवकीमेव न हतवान् । वत्से ! मा रोदी: अहं कंसघातकान् समूलं हत्वा तत्स्त्रियो रोदयिष्यामि । जीवयशसमेवं समाश्वास्य जरासन्धः सोमकं नाम नृपमनुशिष्य समुद्रविजयसमीपं प्रेषयामास । स च सोमको मथुरामागत्य समुद्रविजयमुवाच जरासन्धः प्रभुर्वः समादिशतियदस्माकं जीवयशा अत्यन्तं स्नेहपात्रं, तत्सम्बन्धात् कंसोऽपि च तथेति सार्वजनीनम् । भवन्तोऽपि नो भृत्या इति सुखं तिष्ठन्तु । किन्तु कंसघातकौ राम-कृष्णावर्पणीयौ । किं च कृष्णः सप्तमो गर्भः पुराऽप्यर्पित एव, तद्रक्षणाद् रामोऽप्यद्याऽर्प्यताम्' ।
तच्छ्रुत्वा समुद्रविजय उवाच - "यदि सरलेन वसुदेवेन मामज्ञापयित्वैव षड्गर्भा अर्पितास्तद् नोचितं, तथा निजसोदरघातवैराद् बालाभ्यां राम-कृष्णाभ्यां कंसो हतश्चेत् तदपि नाऽपराधाय । अस्माकमयमेकोऽपराधो यद् बाल्यादेव स्वतन्त्रो वसुदेवः ततस्तदज्ञानाद् मम षट्पुत्रा हता: । 'राम कृष्णौ मम प्राणप्रियौ वधार्थं जरासन्धेन याचितुं न योग्यौ' । ततः सोमकः कोपादुवाच'सेवकानां युक्तायुक्तविचारो नाऽर्हति यदि षड्गर्भा गतास्तर्ह्येतौ दुष्टौ राम कृष्णावपि गच्छताम् । बलिभिः सह विरोधो न क्षेमाय, यतस्त्वं जरासन्धस्याऽग्रे गजस्याऽग्रे मेष इव तुच्छोऽसि ।