________________
पुरुष-गद्यात्मकसारोद्धारः कांश्चाऽदर्शयत् । नागरा नृपाश्च काविमौ देवतुल्याविति सविस्मयं तौ ददृशुः ।
अथ कंसाज्ञया युध्यमानेषु मल्लेषु कंसप्रेरितः पर्वताकृतिश्चाणूर उत्थाय मेघवद्गर्जन् करास्फोटं कुर्वाणो नृपानाक्षिपन् सगर्वमुवाच- 'यः कोऽपि वीरपुत्रो वीरमानी च स मे नियुद्धेच्छां पूरयतु' । कृष्णश्च तद्दर्पमसहिष्णुर्मञ्चादुत्तीर्य करास्फोटं चकार । तदानीं च 'कृष्ण-चाणूरयोर्बाल - तरुणयोः कलभ- महागजो न नियुद्धमुचितमित्येवं भाषमाणानां लोकानां महांस्तुमुल उदभूत् । तेन च क्रुद्धः कंसोऽवदत्- 'इमौ गोपालौ केनाऽप्यनाहूतौ स्वयमागतौ नियुयुत्साते, तत्को निषेधति, यस्याऽनयोः स्नेहः सोऽभिमुखमेत्य जल्पतु' । कंसस्यैवं वचः श्रुत्वा च सर्वो जनस्तूष्णीको जातः ।
१२०
ततः कृष्ण उवाच- 'अयं चाणूरः कृताभ्यासो राजपिण्डपुष्टगात्रः समर्थो मल्ल श्रेष्ठश्चाऽद्य गोपयःपानपुष्टेन मया गोपालबालेन सिंहशावकेन गज इव हन्यमानोऽवलोक्यताम्' । ततः कंसस्तच्चारुताशङ्कितः सकृदेव नियुद्धार्थं मुष्टिकं नाम महामल्लमप्यादिष्टवान् । रामश्च मुष्टिकमुत्थितं दृष्ट्वा मञ्चादुत्तीर्य तं नियुद्धायाऽऽह्वास्त । ततो राम - मुष्टिको कृष्ण - चाणूरौ च नियोद्धुं प्रववृता ।
तदानीं तेषां पदन्यासैः पृथ्वी चकम्पेव । करास्फोट ध्वनिभिर्नभः पुस्फोटेव । राम कृष्णौ च मुष्टिक चाणूरौ तृणमुष्टिवदुन्नीयाऽऽकाशे क्षिप्तवन्तौ । तेन च जना मुमुदिरे । किन्तु ताभ्यामुत्क्षिप्तौ राम - कृष्णौ दृष्ट्वा मम्लुः । ततः कृष्णो दृढया मुष्ट्या दन्ती दन्तेनाऽद्रिखण्डमिव चाणूरं ताडयामास ।
अष्टमं पर्व पञ्चमः सर्गः
१२१
चाणूरश्चाऽपि वज्रोपमया मुष्ट्या कृष्णं वक्षसि ताडयामास । कृष्णश्च तेन घातेन पीडितो मुद्रितनेत्रः पृथिव्यां पपात । छलिना कंसेन दृक्संज्ञया प्रेरितश्च स चाणूरो मूच्छितं कृष्णं हन्तुं पुनरधावत । ततो रामस्तं जिघांसुं ज्ञात्वा सद्यो मुष्टिमुद्यम्याऽताडयत् । चाणूरश्च तेन घातेन सप्तधनूंष्यपासरत् । कृष्णोऽपि चाऽवसरं प्राप्य लब्धसंज्ञः पुनस्तं युद्धायाऽऽह्वास्त । तथा जानुभ्यां तत्कटिदेशमाक्रम्य भुजेन तच्छीर्षमानमय्य च मुष्ट्या दृढं जघान । तेन च रुधिरं वमंश्चाणूरो निर्गताक्षो गतासुरभवत् ।
ततः कंसो भय - कोपाभ्यां कम्पमानाङ्गोऽब्रवीत्- 'अरे ! एतौ गोपालसुतावविलम्बितं हन्येतां तथा येन तौ पालितौ तं नन्दमपि हत, तस्य सर्वस्वं हृत्वा तमिहाऽऽनयत । यः कोऽपि च तत्पक्षे भवेत् स सर्वो मदाज्ञया हन्तव्यः' । ततः कोपरक्ताक्षः कृष्ण उवाच - 'चाणूरे हतेऽपि तव जीवनाशाऽस्त्येव मया हन्यमानमात्मानं रक्ष, पश्चाद् नन्दादिस्त्वया हन्तव्यः' । एवमुक्त्वोत्पत्य कृष्णो मञ्चमारुह्य कंसं केशेषु गृहीत्वा पृथिव्यामपातयत् । ततो विशीर्णमुकुटं गलितोत्तरीयं भीतेक्षणं तं कृष्ण उवाच - 'त्वया स्वरक्षार्थं भ्रूणहत्या कृता, इदानीं स्वकर्म फलं भुङ्क्ष्व' । तदानीं च गृहीतकंसे कृष्णे सर्वो जनो विस्मयं जगाम बिभाय च । रामश्च मुष्टिकं गले भुजैर्बद्ध्वा निरुच्छ्वासीकृत्य जघान ।
अथ कंसरक्षणाय कंसपक्षीया योधा विविधायुधानि गृहीत्वा कृष्णं हन्तुं दधाविरे । ततो रामो मञ्चस्तम्भमुत्पाट्य तेन ताडयंस्तान् विद्रावयामास । कृष्णः कंसस्य शिरसि पादं प्रहृत्य व्यपाद्य केशैः कृष्ट्वा मण्डपाद् बहिरक्षिपत् । तदा कंसेन पूर्वमानीता जरासन्धभटा राम कृष्णौ हन्तुं सन्नद्धा बभूवुः । ततः