________________
११८
पुरुषतम्-गद्यात्मकसारोद्धारः
धनुषः पार्श्वे च तदधिष्ठातृदेवतामिव पद्माक्षीं सत्यभामां ददृशतुः । सत्यभामाऽपि च कृष्णं पश्यन्ती कामार्ता मनसा तं वरं वव्रे ।
अनाधृष्टिचोपेत्य तद्धनुरुद्धरन् भूमौ पतात । तं चोपहास्यां दशां गतं दृष्ट्वा सत्यभामा तदाल्योऽन्ये चाऽत्यन्तमहसन् । ततस्तत्प्रहासमसहिष्णुः कृष्णः पुष्पमाल्यवत् तद्धनुरुद्धृत्य लीलया सज्यं चकार । अनाधृष्टिश्च पितृगृहं तद्वारि कृष्णं रथस्थं मुक्त्वा च गतः पित्रे 'यदन्यैः स्प्रष्टुमप्यशक्यं तद्धनुर्मयैकाकिनाऽधिरोपितमिति शशंस । ततो वसुदेवस्तमुवाच - इतः सत्वरं याहि, अन्यथा कंसो धन्वारोपणं ज्ञात्वा त्वां व्यापादयिष्यति' । तच्छ्रुत्वा च भीतोऽनाधृष्टिर्गुहाद् निर्गत्य कृष्णेन सह सत्वरं नन्दगोकुलं जगाम । तथा राम-कृष्णावापृच्छ्य ततः शौर्यपुरं ययौ । नन्दपुत्रेण धनुरारोपितमिति प्रवादश्च सर्वतोऽभूत् ।
कंसश्च चापारोपणवृत्तान्तेन हृदि तप्यमानश्चापमहोत्सवच्छलेन सर्वान् मल्लान् नियुद्धायाऽऽदिशत् । तत्रोत्सवे समाहूता नृपाश्च महामञ्चस्थं कंसं पश्यन्तो मञ्चेषूपविविशुः । वसुदेवेन चाऽपि कंसच्छलज्ञेन स्वाग्रजाः पुत्राश्चाऽकुराद्याः समाहूताः । कंसश्च तेजस्विनस्तान् सत्कृत्योच्चेषु मञ्चेषूपावेशयत् । मल्लयुद्धोत्सवं श्रुत्वा कृष्णेन निवेदितो रामस्तेन सह तद् द्रष्टुं जिगमिषुर्यशोदामभाषत'स्नानादिकं प्रगुणीकुरु, आवां मथुरां गमिष्यावः' । किन्तु तां किञ्चिद् मन्दोत्साहां दृष्ट्वा कृष्णस्य भ्रातृवधकथाप्रस्तावनां रचयन् बलदेवः साक्षेपमवदत् - 'किं त्वयाऽधुना दासीत्वं विस्मृतं यद् ममाऽऽज्ञां झटिति न पालयसि । ततस्तेन वचनेन विवर्णं कृष्णं गृहीत्वा स यमुनायां स्नानार्थं नीतवान् । तथा किं खिन्न इव लक्ष्यसे इति कृष्णं पप्रच्छ च ।
अष्टमं पर्व पञ्चमः सर्गः
११९
ततः कृष्णः सगद्गदस्वरमुवाच- 'मम माता त्वया किं दासीत्येवमाक्षिप्ता ?' ततो राम उवाच- 'तव यशोदा न माता नन्दश्च न पिता । किन्तु देवकनृपपुत्री देवकी तव माता वसुदेवश्च पिता तव । देवकी हि त्वां द्रष्टुं मासे मासे गोपूजाव्याजादत्रैति । आवयोः पिता वसुदेवः कंसस्योपरोधेन मथुरायां स्थितोऽस्ति । तवाऽग्रजो वैमात्रेयोऽहं त्वां रक्षितुं पित्राऽऽदिष्ट इहाऽऽगमम्' । ततः पित्रा किमहमत्र रक्षित इति कृष्णेन पृष्टो बलदेवः कंसकृतं भ्रातृवधादिकं सर्वं वृत्तान्तमाख्यत् । तच्छ्रुत्वा क्रुद्धः कृष्णः कंसवधं प्रतिज्ञाय नद्यां स्नातुं प्रविवेश ।
ततः कंसस्य मित्रं कालियोऽहिर्यमुनाजलमग्नः कृष्णं दष्टुमधावत । तत्फणामणिप्रकाशात् किमेतदिति वदति रामे कृष्णः कमलमिव तमुत्थाय गृहीत्वा नासिकायां कमलनालेन गामिव नाथयित्वोपर्यारुह्य च कालियं चिरं जले वाहितवान् । तेन च खिन्नं निर्जीवमिव जातं तं मुक्त्वा निर्गतः कृष्णः कौतुकात् सौस्नातिकैविप्रैः परिवृतः । ततो गोपैः सह तौ महाबलिनौ राम कृष्णौ मथुरां प्रति चलितौ गोपुरं प्रापतुः ।
तत्र च कंसादिष्टमन्त्रिप्रेरितौ पद्मोत्तर- चम्पकौ गजौ तयोरभिमुखमधावताम् । तयोः कृष्णः पद्मोत्तरं रामश्च चम्पकं दन्तोत्पाटन-मुष्टिघातादिभिर्जघान । नागरैश्चाऽतिविस्मयपूर्वकमरिष्टादिघातिनौ नन्दपुत्रावेतावित्यन्योन्यं दर्श्यमानौ गोपैः सह नीलपीताम्बरौ वनमालाविभूषितौ राम कृष्णावक्षवाटं प्रापतुः । तत्र चैकस्मिन् महामञ्चे तत्रस्थं जनमपसार्य गोपैः सह निःशङ्कमुपविविशतुः । रामश्च तं शत्रुं कंसं पितरं समुद्रविजयादि