________________
११७
११६
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः पुत्रं द्युतिमन्तं दृष्ट्वा जन्मोत्सवं विधाय- 'अस्मिन् गर्भस्थे मात्राऽरिष्टमयी चक्रधारा ददृशे' इति तस्याऽरिष्टनेमिरिति नाम चकार । वसुदेवादयश्चाऽरिष्टनेमेर्जन्म ज्ञात्वा मथुरायां महोत्सवं चक्रुः, महान्तं प्रमोदं प्रापुश्च ।
अथाऽन्यदा वसुदेवगृहे देवकी द्रष्टुमागतः कंसस्तां छिनकनासापुटां कन्यां दृष्ट्वा भीतो गृहमागत्य नैमित्तिकमपृच्छत्'सप्तमाद् देवकीगर्भाद् मन्मृत्युमुनिनोक्तो वृथा न वा ?' ततो नैमित्तिक उवाच- 'मुनिभाषितं नैव मिथ्या । सप्तमो देवकीगर्भस्तव हन्ता क्वाऽप्यस्ति । तवाऽरिष्टो नाम महोक्षः, केशी नाम महाहयो, दुर्दान्तौ खर-मेषौ च वृन्दावने मुञ्च । योऽमून् क्रीडयैव हनिष्यति स देवक्याः सप्तमः पुत्रस्ते हन्ता । किं च तव गृहे यत् क्रमायातं शाङ्ग धनुस्त्वन्मात्रा पूज्यमानं तत् स एवाऽऽरोपयिष्यति । यज्ज्ञानिनाऽऽख्यातं तदवश्यं भविष्यति । स पराक्रमी भविष्यन् वासुदेवः कालियनागस्य दमकश्चाणरस्य घातकस्तव द्विपौ पद्मोत्तरं चम्पकं च हनिष्यति' । ___ अथ कंसः स्वशत्रुमुपलक्षितुमरिष्टादीन् वनेऽमुचत्, चाणूरमुष्टिको मल्लौ च श्रमायाऽऽदिदेश । सोऽरिष्टश्च बलीवर्दः शरदि वृन्दावने गर्जन् गोपानुपाद्रवत् । स शृङ्गाग्रेण गा उद्दधे, तुण्डाग्रेण घृतभाण्डानि समालोठयच्च । तदा 'राम ! कृष्ण ! त्रायस्वे'ति वादिनां दीनानां गोपानां कलकलोऽजनि । कृष्णश्च रामेण सह किमेतदिति सम्भ्रमाद् धावितोऽग्रे तं वृषभं महाबलं दृष्टवान् । वृद्धेनिषिध्यमानोऽपि कृष्णस्तं वृषभमाह्वास्त । स वृषभश्च शृङ्गे
अष्टमं पर्व - पञ्चमः सर्गः उन्नमय्याऽऽकुञ्चितमुख उत्पुच्छयन् कृष्णायाऽधावत । कृष्णश्च तं शृङ्गयोर्गृहीत्वा झटिति तद्ग्रीवां वालयित्वा च निरुच्छ्वासं विधायाऽरिष्टमवधीत् । अरिष्टे मृते च गोपा हृष्टाः सर्वतः कृष्णमानचुः । ___अन्यदा च क्रीडति कृष्णे कंसस्य महाहय: केशी यम इव विवृतमुखः समागतः । स च दन्तैर्वत्सतरान् गृह्णन् खुरै!गर्भिणीनिघ्नन् भीषणं हेषमाणश्च कृष्णेनाऽतय॑त । ततो व्यात्ते तन्मुखे वज्रतुल्यं बाहुं वलयित्वा च धृत आग्रीवं विदारितश्चाऽरिष्ट इव गतासुर्बभूव । तथा कंसस्य महाबलिनौ तत्र भ्रमन्तौ खर-मेषावपि कृष्णेन लीलयैव हतौ । ____ अथ कंसस्तान् हतान् ज्ञात्वा स्वशत्रु सम्यक्परीक्षितुं पूजोत्सवव्याजात् शाङ्ग धनुः सभायां स्थापयामास । तथा भगिनी कुमारिकां सत्यभामां तदुपासिकां सदा तत्सन्निहितां कृत्वोत्सवं प्रारेभे । 'यः शाङ्गमधिरोपयेत् तस्मै स्त्रीरत्नं सत्यभामां दास्यामी'त्याघोषयच्च । तच्छ्रुत्वा च सुदूरादपि नृपाः समागताः । परन्तु केऽपि धनुरारोपयितुं नाऽशक्नुवन् । तच्छ्रुत्वा च वसुदेवस्य मदनवेगापुत्रोऽनाधृष्टिविनं रथमारुह्याऽऽगच्छन् गोकुले रामकृष्णौ दृष्ट्वा तत्र निशामेकां ताभ्यां सत्कृत उवास । प्रातश्च स रामं विसृज्य मथुरामार्गदर्शकं कृष्णमादाय प्रस्थितवान् । मार्गे च महाद्रुमसङ्कीर्णे तद्रथो वटे विलग्नः । अनाधृष्टिश्च तं मोचयितुं न शशाक । पदातिः कृष्णश्च लीलया तं वटमुन्मूल्याऽन्यत्र क्षिप्त्वा रथमार्ग निविघ्नं चकार । ततस्तस्य बलं दृष्ट्वा प्रसन्नोऽनाधृष्टिः स्यन्दनादुत्तीर्य तं स्वयं रथे समारोपयत् । ततस्तौ क्रमाद् यमुनामुत्तीर्य मथुरां प्रविश्याऽनेकनृपसमन्वितां धनुःसभां प्रापतुः।