________________
११४
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः सूर्पकपुत्रोऽर्जुनवृक्षौ भक्त्वा हतः । गजशिशुनेव कृष्णेन यमलार्जुनावुन्मूलिताविति गोपमुखादाकर्ण्य नन्दो यशोदया सह ससम्भ्रमं तत्राऽऽगात् । तथा तौ धूलिधुसरितं कृष्णं मोहाच्छिरसि चुचुम्बतुः । गोपाश्च दामबन्धनात् कृष्णं दामोदरेत्यूचिरे । स कृष्णश्च गोपालैोपालिकाभिश्चाऽत्यन्तं प्रियत्वाद् दिवानिशमुत्सङ्गादावारोप्यते स्म । तथा स स्निग्धैः कौतुकप्रियैर्गोपैरीक्ष्यमाणश्चाञ्चल्याद् मन्थनीभ्यो नवनीतं जग्राह । तथा विविधैश्चरित्रैः स सर्वेषामानन्दप्रदोऽभूत् ।
अथ वसुदेवः कृष्णेन शकुनि-पूतनयोर्हननं, शकटपर्यसनं, यमलार्जुनोत्पाटनं च श्रुत्वा दध्यौ-'कंसो मा ज्ञासीदिति मया पुत्रो गोपितः, किन्तु स स्वबलेनैव ख्याति याति । ततः कंसो ज्ञात्वाऽमङ्गलं मा कार्षीदिति तस्य साहाय्ये कं सुतं प्रेषयामि ? अक्रूराधास्तु कंसस्य ज्ञाताः । तत्तस्याऽज्ञातो राम एवाऽऽदेष्टुमुचितः' । एवं विचार्य स कोशलाया रामेण सह रोहिणीमानाय्य संभाष्य च शौर्यपुरे प्रेषीत् । अन्यदा च राममाहूय सर्वं वृत्तं कथयित्वाऽनुशिष्य च नन्द-यशोदयोः सुतत्वेनाऽर्पयामास ।
अथ तौ द्वौ राम-कृष्णौ दशधनुस्तुङ्गौ मनोहराकारौ गोपीभिः सदेक्ष्यमाणौ रेमाते । कृष्णश्च रामस्य पार्श्वे गोपेरानीतोपकरणो धनुर्वेदमन्याः कलाश्च शिक्षयामास । तथा तौ सदा सहैव नानाक्रीडां चक्रतुः । कदाचित् कृष्णो गच्छतो मत्तान् बलीवान् पुच्छे जग्राह । रामश्च भ्रातुर्बलं जानस्तदुपेक्षते स्म । यथा यथा च तत्र कृष्णो वृद्धिमाप तथा तथा तदवलोकनाद् गोप्यः कामविकारं प्रापुः । ताः कृष्णं मध्येकृत्वा हल्लीसकं चक्रुः । ताः सर्वदैव कृष्णहृतचित्ता अभूवन् । तथा तं विविधैरुपचारैः पुष्प-माल्यादिदानादिभिर्गीत
अष्टमं पर्व - पञ्चमः सर्गः नृत्यादिभिश्चाऽलीकभय-नाटनादिभिश्च रमयन्त्यः कृष्णस्पर्शसुखमिच्छन्ति स्म । कृष्णश्च बर्हापीडो गीतं गायति स्म । तथा सोऽगाधजलस्थान्यपि कमलानि गोपीभ्य आनयति स्म । तथा स गिरिशिखरस्थो वेणुं वादयन् नृत्यंश्च रामं हासयति स्म । एवं बहुविध क्रीडतोस्तयोस्तत्रैकादशवर्षाणि सुखं व्यतीयुः ।
*** इतश्च सूर्यपुरे समुद्रविजयप्रिया शिवा निशाशेषे चतुर्दश महास्वप्नान् दृष्टवती । तदानीं च कार्तिके कृष्णद्वादश्यां चित्रास्थे चन्द्रे शङ्खोऽपराजिताच्च्युत्वा शिवाकुक्षाववातरत् । तदानीं नारकाणामपि क्षणं सुखं जगत्रये उद्योतश्चाऽभूत् । गतनिद्रा च शिवादेवी पत्युः स्वप्नान् कथयामास । नृपेणाऽऽहूतो मुनिः क्रोष्टुकि स्तत्राऽऽगतवान् । तथैकश्चारणश्रमणः स्वयमुपाययौ । नृपश्चोत्थाय तं वन्दित्वा महासने उपवेशितवान् । राज्ञा स्वप्नफलं पृष्टश्च स क्रोष्टुकिमुनिस्तीर्थकृत् ते पुत्रो भावीत्याख्याय ययौ । राजा राज्ञी च सुधाभिः स्नाताविव मोदं प्रापतुः । तदारभ्य शिवादेवी लावण्यादिवर्धकं सुखकरं गर्भ गूढं धारयामास । पूर्णे समये च सा श्रावणशुक्लपञ्चम्यां निशीथे चित्रास्थे चन्द्रे कृष्णवर्णं शङ्खाएं सुतं सुषुवे । ____ तदानीं च षट्पञ्चाशद् दिक्कुमार्य: समागत्य प्रभोः सूतिकर्माणि चक्रुः। शक्रश्चैत्य प्रभुं मेरुं नीत्वा तत्र सर्वैरिन्द्रादिभिः सह प्रभोर्यथाविधि स्नात्रं विधाय स्तुत्वा पुनरादाय शिवादेवीपार्श्वे यथास्थिति मुमोच । तथा पञ्चाऽप्सरसो धात्री: समादिश्य स नन्दीश्वरे यात्रां कृत्वा स्वस्थानं ययौ । समुद्रविजयश्चोद्यन्तं सूर्यमिव