Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 05
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 63
________________ अष्टमं पर्व - तृतीय: सर्ग: न्मूल्य निर्वाणमेष्यति । एतच्चेन्द्रेण सह वन्दितुं गतस्य मे महाविदेहे विमलस्वामिना कथितम् । एवं कनकवत्याः प्राग्भवकथां वसुदेवायाऽभिधाय कुबेरोऽन्तर्हितवान् । वसुदेवश्च सातिशयानुरागात् कनकवतीं परिणीय खेचरीभिः पुनरेव यथासुखं रममाणस्तस्थौ । अष्टमे पर्वणि कनकवतीपरिणयन-तत्पूर्वभववर्णनात्मकः तृतीयः सर्गः ॥३॥ १०० त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः नलश्च दूतेन तमाह-'पुन तेन दीव्यतां, राज्यश्रीः पुनस्त्वदीया वा स्याद् मदीया वा' । ततः कूबरो रणाशङ्कापगमेन प्रसन्नः पुनद्धृतं समारब्धवान् । नलश्च भाग्यवशात् कूबरात् सर्वां महीं जितवान् । तथाऽपि स कुबरे दुरात्मन्यनुजोऽयमित्यप्रीतो नाऽभूत् । अत एव स निजं राज्यमादाय कूबरं युवराजं चकार । अनन्तरं च स दवदन्त्या सह कोशलानगरीचैत्यान्यवन्दत । भरतार्धनिवासिनश्च भूपा भक्त्या नलस्य माङ्गलिकोपायनान्यानिन्युः । एवं स सर्वैर्भूपैर्बहून्यब्दसहस्त्राणि भरतार्धं शशास । अन्यदा च स्वर्गाद् निषधो देव आगत्य नलमबोधयत्'भवारण्ये विषयैर्लुट्यमानमात्मानं रक्ष, इदानीं ते परिव्रज्यासमय: समुपस्थितः । तत्प्रव्रज्यां गृहीत्वा जन्म सफलं कुरु' । एवमुक्त्वा स देवोऽन्तर्दधौ । तदानीमेव च तत्राऽवधिज्ञानी जिनसेनमुनिराययौ । दवदन्ती-नलौ च तं ववन्दतुः । ताभ्यां पृष्टश्च स मुनिस्तयोः प्राग्भवं वर्णयित्वोवाच-'त्वया मुनेः क्षीरदानाद् राज्यमाप्तं, द्वादशघटिकां यावत् क्रोधकरणाच्च द्वादशाब्दिकं विरह प्राप्तवानसि' । एवं श्रुत्वा पुष्कलं पुत्रं राज्ये निधाय तौ व्रतं गृहीत्वा चिरं पालयामासतुः ।। अन्यदा च नलो दवदन्तीमुपभोक्तुं मनोऽकरोत् । अत आचार्यैः परित्यक्तो देवेन पित्राऽऽगत्य प्रबोधितो व्रतं कर्तुमशक्तो नलोऽनशनं प्रपेदे । नले जातानुरागा दवदन्त्यप्यनशनं व्यधात् । नलो विपद्याऽहं कुबेरोऽभवम् । मत्प्रिया दवदन्ती च मत्प्रिया जाता । सा च च्युत्वा कनकवत्यभूत् । अस्याः प्राग्भवपत्नीत्वस्नेहाद् मोहितोऽहमिहाऽऽगतोऽस्मि । इयं चाऽस्मिन्नेव भवे कर्माण्यु

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159