Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 05
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 64
________________ चतुर्थः सर्गः अथाऽन्यदा सुप्तो वसुदेवः सूर्पकेणाऽपहृतो गतनिद्रस्तं मुष्ट्या जघान । तेन च पीडितः स सूर्पकस्तं मुमोच । ततो गोदानद्यां पतितो वसुदेवस्तीर्त्वा कोल्लापुरं गतः पद्मराजपुत्रीं पद्मश्रियं परिणिनाय । तत्राऽपि नीलकण्ठेन हृतो मुष्ट्या ताडितेन तेन मुक्तश्च चम्पासरसि पतितस्तीर्त्वा मन्त्रिपुत्रीमुपायत । ततः पुनरपि सूर्यकेण हृतो मुष्ट्या ताडितेन तेन मुक्तो गङ्गाजलेऽपतत् । तामुत्तीर्य भ्रमन् पथिकैः सह पल्लीं प्राप्य पल्लीपतेर्जरां नाम पुत्रीं परिणीय तस्यां जरत्कुमारं नाम पुत्रमुत्पादयामास । तथा सोऽवन्तिसुन्दरीं पुरुषद्वेषिणीं सूरसेनां जीवयशसमपराश्चाऽपि नृपकन्यकाः परिणिनाय । अथाऽन्यदा मार्गे गच्छन्तं वसुदेवं देवतोवाच- 'मया स्वयंवरे ते रुधिरनृपस्य कन्या रोहिणी देया, तत्त्वया तत्र पटहो वादनीयः । एवं तयोदितो वसुदेवोऽरिष्टपुरे स्वयंवरमण्डपं जगाम । तत्र च जरासन्धप्रभृतिषु नृपेषु समुपविष्टेषु सत्सु समागता रोहिणी स्वाननुरूपत्वाद् न कमपि वृतवती । ततो वसुदेवो वेषान्तरेण तूर्यवादकेषु मध्ये स्थितः पटहमेवं वादयामास - 'कुरङ्गाक्षि ! एहि, मां मृगीव किमीक्षसे, अहं तवाऽनुरूपः पतिस्तव सङ्गमोत्सुको अष्टमं पर्व चतुर्थः सर्गः १०३ ऽस्मि'। तच्छ्रुत्वा च रोहिणी पुलकिताङ्गा तं दृष्ट्वा सद्य एव तस्य वसुदेवस्य कण्ठे स्वयंवरमालां चिक्षेप । ततश्च हतेनमिति वादिनां नृपाणां तुमुलोऽनया तूर्यवादको व इति प्रहासश्चाऽजनि । कोशलेशो दन्तवक्रश्च रुधिरनृपं विदूषक इव सोपहासमुवाच-‘यदि तूर्यवादकायैव कन्या दातुमिष्टाऽभूत्, तर्हि कुलीनेन त्वया कुलीना एते नृपाः किं निमन्त्रिताः ? यदि पुत्री गुणानभिज्ञा तूर्यवादकं वृणुते तथाऽपि पित्रा नोपेक्षणीया' । ततो रुधिर उवाच- 'राजन् ! तवाऽनेन विचारेणाऽलम् । स्वयंवरे कन्यानां वृतो नर एव प्रमाणम्' । ततो न्यायविज्ञो विदुर उवाच'उचितमेतत्, तथाऽप्यस्य वरस्य कुलादिकं ज्ञातम्' । ततो वसुदेव उवाच-'अयं कुलादिकथनप्रस्तावो न योग्यः । अहं यादृशस्तादृशो वाऽनया वृतः । तथाऽप्यमर्षाय एनामपहरिष्यति तस्य स्वबाहुबलेनैव स्वकुलं कथयिष्यामि । तच्छ्रुत्वा च जरासन्धोऽवदत्- 'इदमस्य वच उच्छृङ्खलम्' । एवमुक्त्वा स क्रुद्धः समुद्रविजयादिकान् नृपानादिष्टवान्- 'अयं नराधमो रुधिरो नृपविप्लवकृत्, अयं मत्तस्तूर्यवादकश्चाऽपरो राजविप्लवकृत् । राजकन्यामाप्याऽप्यतृप्तो दर्पं प्रकटयति । तस्मादिमौ रुधिरतौर्यिकौ हत' । तेनेत्थमादिष्टाः समुद्रविजयादयो युद्धार्थं सन्नद्धा अभूवन् । वसुदेवं युद्धोद्यतं च खेचरेशो दधिमुखः स्वयं सारथीभूय रथेऽधिरोहयामास । ततो वसुदेवो वेगवतीजनन्याऽङ्गारवत्याऽर्पितानि दिव्यानि धनूंषि तूणानि चाऽऽददे । जरासन्धपक्षीयैर्नृपैश्च युद्धे रुधिरनृपबलं पराजितं दृष्ट्वा वसुदेवो दधिमुखेन रथं वाहयन्नादौ शत्रुञ्जयं जित्वा दन्तवक्रं शल्यनृपं च बभञ्ज ।

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159