________________
चतुर्थः सर्गः
अथाऽन्यदा सुप्तो वसुदेवः सूर्पकेणाऽपहृतो गतनिद्रस्तं मुष्ट्या जघान । तेन च पीडितः स सूर्पकस्तं मुमोच । ततो गोदानद्यां पतितो वसुदेवस्तीर्त्वा कोल्लापुरं गतः पद्मराजपुत्रीं पद्मश्रियं परिणिनाय । तत्राऽपि नीलकण्ठेन हृतो मुष्ट्या ताडितेन तेन मुक्तश्च चम्पासरसि पतितस्तीर्त्वा मन्त्रिपुत्रीमुपायत । ततः पुनरपि सूर्यकेण हृतो मुष्ट्या ताडितेन तेन मुक्तो गङ्गाजलेऽपतत् । तामुत्तीर्य भ्रमन् पथिकैः सह पल्लीं प्राप्य पल्लीपतेर्जरां नाम पुत्रीं परिणीय तस्यां जरत्कुमारं नाम पुत्रमुत्पादयामास । तथा सोऽवन्तिसुन्दरीं पुरुषद्वेषिणीं सूरसेनां जीवयशसमपराश्चाऽपि नृपकन्यकाः परिणिनाय ।
अथाऽन्यदा मार्गे गच्छन्तं वसुदेवं देवतोवाच- 'मया स्वयंवरे ते रुधिरनृपस्य कन्या रोहिणी देया, तत्त्वया तत्र पटहो वादनीयः । एवं तयोदितो वसुदेवोऽरिष्टपुरे स्वयंवरमण्डपं जगाम । तत्र च जरासन्धप्रभृतिषु नृपेषु समुपविष्टेषु सत्सु समागता रोहिणी स्वाननुरूपत्वाद् न कमपि वृतवती । ततो वसुदेवो वेषान्तरेण तूर्यवादकेषु मध्ये स्थितः पटहमेवं वादयामास - 'कुरङ्गाक्षि ! एहि, मां मृगीव किमीक्षसे, अहं तवाऽनुरूपः पतिस्तव सङ्गमोत्सुको
अष्टमं पर्व चतुर्थः सर्गः
१०३
ऽस्मि'। तच्छ्रुत्वा च रोहिणी पुलकिताङ्गा तं दृष्ट्वा सद्य एव तस्य वसुदेवस्य कण्ठे स्वयंवरमालां चिक्षेप ।
ततश्च हतेनमिति वादिनां नृपाणां तुमुलोऽनया तूर्यवादको व इति प्रहासश्चाऽजनि । कोशलेशो दन्तवक्रश्च रुधिरनृपं विदूषक इव सोपहासमुवाच-‘यदि तूर्यवादकायैव कन्या दातुमिष्टाऽभूत्, तर्हि कुलीनेन त्वया कुलीना एते नृपाः किं निमन्त्रिताः ? यदि पुत्री गुणानभिज्ञा तूर्यवादकं वृणुते तथाऽपि पित्रा नोपेक्षणीया' । ततो रुधिर उवाच- 'राजन् ! तवाऽनेन विचारेणाऽलम् । स्वयंवरे कन्यानां वृतो नर एव प्रमाणम्' । ततो न्यायविज्ञो विदुर उवाच'उचितमेतत्, तथाऽप्यस्य वरस्य कुलादिकं ज्ञातम्' ।
ततो वसुदेव उवाच-'अयं कुलादिकथनप्रस्तावो न योग्यः । अहं यादृशस्तादृशो वाऽनया वृतः । तथाऽप्यमर्षाय एनामपहरिष्यति तस्य स्वबाहुबलेनैव स्वकुलं कथयिष्यामि । तच्छ्रुत्वा च जरासन्धोऽवदत्- 'इदमस्य वच उच्छृङ्खलम्' । एवमुक्त्वा स क्रुद्धः समुद्रविजयादिकान् नृपानादिष्टवान्- 'अयं नराधमो रुधिरो नृपविप्लवकृत्, अयं मत्तस्तूर्यवादकश्चाऽपरो राजविप्लवकृत् । राजकन्यामाप्याऽप्यतृप्तो दर्पं प्रकटयति । तस्मादिमौ रुधिरतौर्यिकौ हत' । तेनेत्थमादिष्टाः समुद्रविजयादयो युद्धार्थं सन्नद्धा अभूवन् । वसुदेवं युद्धोद्यतं च खेचरेशो दधिमुखः स्वयं सारथीभूय रथेऽधिरोहयामास । ततो वसुदेवो वेगवतीजनन्याऽङ्गारवत्याऽर्पितानि दिव्यानि धनूंषि तूणानि चाऽऽददे । जरासन्धपक्षीयैर्नृपैश्च युद्धे रुधिरनृपबलं पराजितं दृष्ट्वा वसुदेवो दधिमुखेन रथं वाहयन्नादौ शत्रुञ्जयं जित्वा दन्तवक्रं शल्यनृपं च बभञ्ज ।