Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 05
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 62
________________ ९८ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः अथ तदानीमेव दधिपर्णो नृपः पुरद्वारं प्राप्तवान् । मङ्गलो नाम जनश्च तद् भीमाय निवेदयामास । भीमश्चाऽभिगभ्य दधिपर्ण मित्रवदालिङ्गय गृहे वासदानादिनाऽऽतिथ्यं कृत्वाऽवोचत्-'तव सूदः कुब्जः सूर्यपाकां रसवतीं वेत्ति, तद्दिदृक्षोर्मे दर्शय, तावदन्यया वार्त्तया कृतम्' । दधिपर्णोऽपि कुब्जं रसवतीकृते समादिक्षत् । सोऽपि च कल्पद्रुम इव क्षणात् तां रसवतीं दर्शयामास । ___भीमश्च सपरिच्छदो दधिपर्णाग्रहात् तत्स्वादं परीक्षितुं बुभुजे । दवदन्त्यपि तदोदनभृतं स्थालमानाय्य भुक्त्वा तद्रसास्वादेन कुब्जो नल एवेत्यज्ञासीत् । तथा पितरमुवाच च-'मम ज्ञानिना पुरा कथितं यदिह भरते सूर्यपाका रसवती नाऽन्यस्य, किन्तु नलस्यैव । तदयं कुब्जो वा कुण्टो वा यादृशस्तादृशो वाऽस्तु, तत्र किमपि कारणं भवेत् । किन्त्वयं नल एव नाऽत्र संशयः । नलस्यैका रसवती परीक्षा । नलाङ्गुल्याऽपि स्पृष्टाऽहं पुलकिता भवामीति तस्याऽन्या परीक्षा । तत्कुब्जो मामगुल्या तिलकं रचयन्निव स्पृशतु । यदि नल: स्यादेतेनाऽभिज्ञानेन ज्ञात: स्यात्' । ___कि नलोऽसि ? इति पृष्टः कुब्ज उवाच-'यूयं सर्वथा भ्रान्ताः स्थ, क्व दिव्यरुपो नलः, क्वाऽहं द्रष्टुमप्ययोग्यः कुब्ज: ?' ततोऽत्याग्रहेण स दवदन्त्या वक्षोऽङ्गुल्याऽतिलाघवतः स्पृष्टवान् । तावताऽप्यङ्गुलिस्पर्शेन भैम्यास्तनुरानन्दातिरेकात् पुलकिता जाता। तदा दवदन्ती 'तदा मां सुप्तां त्यक्तवान् इदानीं क्व यास्यसि प्राणेश !, चिराद् दृष्टोऽसी'त्युक्त्वा तं गृहान्तरेऽभ्यर्थ्य नीतवती । कुब्जश्च बिल्वात् करण्डकाच्च वस्त्रा-ऽलङ्कारानादाय परिधाय निजस्वरूपधरो जातः । ततश्च दवदन्ती यथा रूपं निजं पति लता अष्टमं पर्व - तृतीय: सर्गः तरुमिव सर्वाङ्गं स्तनोपपीडमालिलिङ्ग । तथा भीमः पुरद्वारे समागतं नलमालिङ्गय निजे सिंहासने उपवेशयामास । तथा 'त्वं मम स्वामी, तवाऽहं किङ्करः, कथय किं करवाणी'त्युवाच । दधिपर्णश्च नलं नत्वा 'त्वं न: सर्वदा प्रभुरसि, यदज्ञानाद् मयाऽनुष्ठितं तत् सहस्वे'त्यवोचत् । ___ अत्राऽन्तरे च धनदेवः सार्थवाह उपायनमादाय भीमरथं द्रष्टुमागतवान् । भीमरथश्च पूर्वं दवदन्त्या उपकारकरणाद् बन्धोरिव तस्य गौरवं चकार । तथा दवदन्त्या ऋतुपर्णश्चन्द्रयशाश्चन्द्रवती वसन्तश्रीशेखरश्चाऽऽहूताश्च तत्राऽऽययुः । भीमेन चाऽत्यन्तं सक्रियमाणास्ते प्रसन्ना मासं तस्थुः । अन्यदा च भीमसभायां सर्वेषु स्थितेषु प्रातःकाले दिवः कश्चिद् देवोऽलौकिकद्युतिमानाययौ । स च रचिताञ्जलिर्दवदन्तीमुवाच-'पुरा त्वया विमलमत्याख्यस्तापसपतिः प्रबोधितः, तत् स्मर । स तापसपतिविपद्याऽहं सौधर्मे श्रीकेसराभिधाने विमाने श्रीकेसरो नाम देवोऽभवम् । त्वयाऽर्हद्धर्मे स्थापित इति तत्प्रभावादेव ममैतदैश्वर्यम्' । एवमुक्त्वा स सप्तसुवर्णकोटीर्वृष्ट्वा स्वां कृतज्ञतां प्रकाश्याऽन्तर्हितवान् ।। अथ भीम-दधिपर्णादयो नृपा नलं राज्येऽभिषिषिचुः । नलादेशाच्च ते राजानः स्वानि सैन्यान्यमेलयन् । शुभदिने च नलस्तैर्नृपैः सह स्वां राज्यलक्ष्मी ग्रहीतुमयोध्यामभिजगाम । तथा स सैन्योद्धतरजोभिः सूर्यं स्थगयन् कतिपयैदिनैरयोध्याया रतिवल्लभमुपवनं प्राप्य शिबिरं निवेशयामास । कूबरश्च महता सैन्येन नलं समागतं ज्ञात्वा भियाऽत्यन्तमाकुलो बभूव ।

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159