________________
९८
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः अथ तदानीमेव दधिपर्णो नृपः पुरद्वारं प्राप्तवान् । मङ्गलो नाम जनश्च तद् भीमाय निवेदयामास । भीमश्चाऽभिगभ्य दधिपर्ण मित्रवदालिङ्गय गृहे वासदानादिनाऽऽतिथ्यं कृत्वाऽवोचत्-'तव सूदः कुब्जः सूर्यपाकां रसवतीं वेत्ति, तद्दिदृक्षोर्मे दर्शय, तावदन्यया वार्त्तया कृतम्' । दधिपर्णोऽपि कुब्जं रसवतीकृते समादिक्षत् । सोऽपि च कल्पद्रुम इव क्षणात् तां रसवतीं दर्शयामास । ___भीमश्च सपरिच्छदो दधिपर्णाग्रहात् तत्स्वादं परीक्षितुं बुभुजे । दवदन्त्यपि तदोदनभृतं स्थालमानाय्य भुक्त्वा तद्रसास्वादेन कुब्जो नल एवेत्यज्ञासीत् । तथा पितरमुवाच च-'मम ज्ञानिना पुरा कथितं यदिह भरते सूर्यपाका रसवती नाऽन्यस्य, किन्तु नलस्यैव । तदयं कुब्जो वा कुण्टो वा यादृशस्तादृशो वाऽस्तु, तत्र किमपि कारणं भवेत् । किन्त्वयं नल एव नाऽत्र संशयः । नलस्यैका रसवती परीक्षा । नलाङ्गुल्याऽपि स्पृष्टाऽहं पुलकिता भवामीति तस्याऽन्या परीक्षा । तत्कुब्जो मामगुल्या तिलकं रचयन्निव स्पृशतु । यदि नल: स्यादेतेनाऽभिज्ञानेन ज्ञात: स्यात्' । ___कि नलोऽसि ? इति पृष्टः कुब्ज उवाच-'यूयं सर्वथा भ्रान्ताः स्थ, क्व दिव्यरुपो नलः, क्वाऽहं द्रष्टुमप्ययोग्यः कुब्ज: ?' ततोऽत्याग्रहेण स दवदन्त्या वक्षोऽङ्गुल्याऽतिलाघवतः स्पृष्टवान् । तावताऽप्यङ्गुलिस्पर्शेन भैम्यास्तनुरानन्दातिरेकात् पुलकिता जाता। तदा दवदन्ती 'तदा मां सुप्तां त्यक्तवान् इदानीं क्व यास्यसि प्राणेश !, चिराद् दृष्टोऽसी'त्युक्त्वा तं गृहान्तरेऽभ्यर्थ्य नीतवती । कुब्जश्च बिल्वात् करण्डकाच्च वस्त्रा-ऽलङ्कारानादाय परिधाय निजस्वरूपधरो जातः । ततश्च दवदन्ती यथा रूपं निजं पति लता
अष्टमं पर्व - तृतीय: सर्गः तरुमिव सर्वाङ्गं स्तनोपपीडमालिलिङ्ग । तथा भीमः पुरद्वारे समागतं नलमालिङ्गय निजे सिंहासने उपवेशयामास । तथा 'त्वं मम स्वामी, तवाऽहं किङ्करः, कथय किं करवाणी'त्युवाच । दधिपर्णश्च नलं नत्वा 'त्वं न: सर्वदा प्रभुरसि, यदज्ञानाद् मयाऽनुष्ठितं तत् सहस्वे'त्यवोचत् । ___ अत्राऽन्तरे च धनदेवः सार्थवाह उपायनमादाय भीमरथं द्रष्टुमागतवान् । भीमरथश्च पूर्वं दवदन्त्या उपकारकरणाद् बन्धोरिव तस्य गौरवं चकार । तथा दवदन्त्या ऋतुपर्णश्चन्द्रयशाश्चन्द्रवती वसन्तश्रीशेखरश्चाऽऽहूताश्च तत्राऽऽययुः । भीमेन चाऽत्यन्तं सक्रियमाणास्ते प्रसन्ना मासं तस्थुः ।
अन्यदा च भीमसभायां सर्वेषु स्थितेषु प्रातःकाले दिवः कश्चिद् देवोऽलौकिकद्युतिमानाययौ । स च रचिताञ्जलिर्दवदन्तीमुवाच-'पुरा त्वया विमलमत्याख्यस्तापसपतिः प्रबोधितः, तत् स्मर । स तापसपतिविपद्याऽहं सौधर्मे श्रीकेसराभिधाने विमाने श्रीकेसरो नाम देवोऽभवम् । त्वयाऽर्हद्धर्मे स्थापित इति तत्प्रभावादेव ममैतदैश्वर्यम्' । एवमुक्त्वा स सप्तसुवर्णकोटीर्वृष्ट्वा स्वां कृतज्ञतां प्रकाश्याऽन्तर्हितवान् ।।
अथ भीम-दधिपर्णादयो नृपा नलं राज्येऽभिषिषिचुः । नलादेशाच्च ते राजानः स्वानि सैन्यान्यमेलयन् । शुभदिने च नलस्तैर्नृपैः सह स्वां राज्यलक्ष्मी ग्रहीतुमयोध्यामभिजगाम । तथा स सैन्योद्धतरजोभिः सूर्यं स्थगयन् कतिपयैदिनैरयोध्याया रतिवल्लभमुपवनं प्राप्य शिबिरं निवेशयामास । कूबरश्च महता सैन्येन नलं समागतं ज्ञात्वा भियाऽत्यन्तमाकुलो बभूव ।