________________
१७
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः नलोऽश्वहृदयवेद्यस्ति । यदि कुब्जो नलस्तदा स स्वयं रथं प्रेरयन् रथा-ऽश्वैरेवोपलक्षितः स्यात् । यतस्तस्य वाहयतः सतोऽश्वा महाजविनः स्युः । समीपगतं दिनमाख्येयम् । यस्तदाऽऽगच्छेत् स नल एव भवेत् । ___ ततो भीमो दूतेन पञ्चमीदिने स्वयंवरार्थं सुंसुमारेशमाह्वयत् । दधिपर्णश्च कथं श्वो गम्यते तत्रेति चिन्तया क्वाऽपि रतिं न लेभे । तज्ज्ञात्वा च कुब्जो दध्यौ-'दवदन्ती नाऽन्यं पुरुषमिच्छति । यदीच्छेत् तहि मयि सति कोऽन्यस्तां गृह्णीयात् ? अहं दधिपर्ण षड्भिर्याविदर्भा नयामि । अनेन प्रकारेण च तस्य ममाऽपि च प्रासङ्गिकं गमनं स्यात्' । एवं विचार्य स दधिपर्णमूचे-'मा विषीद, कारणं ब्रूहि' । ततो दधिपर्णोऽवोचत्-'कुब्ज ! नलो विपन्नः, तेन वैदाः पुनरपि श्वः स्वयंवरं करिष्यति, षड् यामा एव मध्ये सन्ति, तदेतावता समयेन कथं तत्र यामि ?' ततः कुब्जो जगाद'अचिरेणैव त्वां तत्र नेष्यामि, साश्वं रथं ममाऽर्पय'। ततो नृपेण स्वैरं गृहाणेत्येवमादिष्टः कुब्जः श्रेष्ठं रथं जात्यावश्वौ च गृहीतवान् । दधिपर्णश्च तं सर्वत: कुशलं वीक्ष्य दध्यौ-'नैष सामान्यः पुरुषः, कोऽपि देवो विद्याधरो वा स्यात् । तत: कुब्जो रथं साश्वं सज्ज कृत्वा नृपमुवाच 'रथमारोह, रात्र्यन्ते त्वां विदर्भा नेष्यामि' ।
ततो राजा स्थगीछत्रचामरधारिणः कुब्जश्च षडेते रथमारुरुहुः । तथा कुब्जस्तद्विल्वं रत्नकरण्डकं च वस्त्रेण कट्यामाबध्य पञ्चनमस्कारं स्मृत्वा वाहान् वाहयामास । तेन च रथवेगवायना दधिपर्णस्य प्रच्छदपटोऽपतत् । यावच्च दधिपर्णो 'रथं स्थिरीकुरु, पटं गृह्णामी'त्युवाच, तावद् रथः पञ्चविंशतियोजनी ललझे । ततः
अष्टमं पर्व - तृतीय: सर्गः स्मयमानः कुब्जोऽवदत्-'नृप ! नाऽस्ति ते पटी, पटीपातदेशाद् योजनपञ्चविंशतिर्गता । यद्युत्तमा वाहा भवेयुस्तदैतावता पञ्चाशद्योजनान्यपि गच्छेयुः । ___ततो दधिपर्णो दूरात् फलसम्भृतमक्षवृक्षं दृष्ट्वा सारथिमुवाच-'अस्मिन् वृक्षे यावन्ति फलानि तान्यगणयन्नप्यहं वेद्मि, परावृत्तस्तव कौतुकं दर्शयिष्यामि' । ततो नलो जगाद-'मय्यश्वहृदयवेदिनि सति कालक्षेपाद् मा भैषीः । अहमेकमुष्टिप्रहारेणैव सर्वाणि फलानि तवाऽग्रे पातयिष्यामि' । ततो दधिपर्ण उवाच'फलानि पातय, तान्यष्टादश सहस्राणि स्युः' । ततः कुब्जः फलान्यपातयत् । नृपश्च गणयामास । तानि फलानि तावन्त्येव बभूवुः । द्वौ च परस्परं विद्याविनिमयं चक्राते । प्रातश्च रथो विदर्भासमीपं गतः । तेन च दधिपर्णो नितरां मुमुदे । ___अथ तदानीमेव भैमीरात्रिशेषे स्वप्नं दृष्ट्वा प्रबुद्धा प्रमुदिता पितुरग्रे सर्वं यथायथं निवेदयामास-'मयाऽद्य गृहे सुखसुप्तया निर्वृतिदेवी दृष्टा । तथा तयेह गगने समानीते कोशलोद्याने तदाज्ञया पुष्पितं फलितं रसालवृक्षमारूढाऽस्मि । तया च मम हस्ते विकसितं कमलमर्पितम् । मया रसालेऽधिरूढायां सत्यां पुरा तमधिरूढः कश्चिद् विहगः सद्य एव भूमौ पपात' । तच्छ्रुत्वा च भीम उवाच'पुत्रि ! स्वप्नोऽयमुत्तमः । निर्वृतिदेवी तवोद्यत: पुण्यपुञ्जः । गगने दृष्टं कोशलोद्यानं च तव कोशलैश्वर्यं, वृक्षारोहणाच्च भर्ना सहाऽचिरादेव सङ्गमो भविष्यति । विहगपाताच्च कूबरो नृपो राज्यात् पतिष्यति, नाऽत्र संशयः । प्रभाते स्वप्नदर्शनाच्चाऽद्यैव तव नलो मिलिष्यति । प्रभातस्वप्नो हि शीघ्रफलप्रदः' ।