________________
अष्टमं पर्व - तृतीयः सर्गः
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः अथाऽन्यदा दधिपर्णो रहसि कुब्ज पप्रच्छ-'त्वं कोऽसि, कुत आगतः, क्व वास्तव्यश्चेति वद' । ततः कुब्ज उवाच-'अहं कोशलायां नलनृपस्य सूदो हूण्डिकाख्यः । अहं तत्समीप एव कलामग्रहीषम् । नलच भ्रात्रा कूबरेण द्यूतेऽखिलां महीं जितो दवदन्तीमादाय वनवासं प्रपन्नवान् । तथा स तत्रैव विपन्नवान् । अहं चाऽपात्रं कूबरं त्यक्त्वा त्वामुपागतोऽस्मि' । ततो दधिपर्णो नलमृत्युवार्त्तया सपरिच्छदो वज्राहत इव रुदोद । तथाऽश्रूणि मुञ्चन्नलस्य प्रेतकार्यं च चकार । कुब्जश्च गुप्तं विहसन् सर्वं ददर्श ।
अथाऽन्यदा दधिपर्णः केनाऽपि हेतुना भीमनृपसमीपं दूतं प्रेषयत् । दूतश्च भीमेन सत्कृतस्तत्समीपे निवसन्नेकदाऽवसरे नलस्य सूदो नलशिक्षया सूर्यपाकज्ञो मत्स्वामिनमुपागतोऽस्तीत्युवाच । तच्छ्रुत्वा चोत्कर्णा दवदन्ती पितरमुवाच- 'चरं प्रेष्य जानीहि यत् स कीदृशः सूदः । नलं विना नाऽन्यः सूर्यपाकां रसवतीं वेत्ति । नल एव कदाचिद् वेषान्तरेण भवेत् ? ततो नृपः कुशलनामानं द्विजं दक्षमाहूय सत्कृत्य-'सुंसुमारपुरं गत्वा तन्नृपसूदं पश्य, स कां का रसवतीं वेत्ति । किं रूपश्चेति जानीही'त्युवाच ।
ततः प्रभोरादेशः प्रमाणमित्युक्त्वा स द्विजः प्रस्थाय सुंसुमारपुरं प्राप्य पृष्ट्वा सूदं तं कुब्जं प्राप्य तं सर्वाङ्गविकृतं दृष्ट्वा विषण्णो 'दवदन्त्या वृथैव नलभ्रान्तिस्तथाऽपि परीक्षे' इति विचार्य नलनिन्दाभितं श्लोकद्वयं जगौ-‘एको नल एव निर्दयो निर्लज्जो निःसत्त्वो दुरात्मा च यः सती पत्नी तत्याज । विश्वस्तामेकाकिनी पत्नीं त्यक्त्वा तस्य मन्दमतेः पादौ गन्तुं कथमुत्थितौ ?' नलश्च पुन: पुन: पठ्यमानं तच्छ्रुत्वा प्रियां स्मरन्
भृशमश्रूणि मुञ्चन् रुरोद । किं रोदिषीति विप्रेण पृष्टश्च स कुब्जस्तव मनोहरं श्लोकं श्रुत्वा करुणया रोदिमीत्युवाच । तथा कुब्जेन श्लोकार्थं पृष्टश्च स द्विजो द्यूतादारभ्य कुण्डिनपुरे दवदन्तीगमनान्तं सर्वं वृत्तं शशंस । तथाऽग्रे पुनरुवाच-'धन्योऽसि त्वं कुब्ज ! यत् सूर्यपाकेन रसवतीं करोषि । भीमनृपस्य सुंसुमारेशदूतेन गीतव्यम् । भैम्या चैवंविधो नल एव नाऽन्य इत्यभ्यर्थ्य भीमेन त्वां द्रष्टुं प्रेषितोऽस्मि । त्वां दृष्ट्वा च हताशोऽचिन्तयम्-क्व त्वं कुब्जो विकृताकृतिः, क्व च दिव्यरूपो नलः । प्रस्थानकाले जातानि शकुनान्यन्यथा जातानि । यतस्त्वं नलो नाऽसि' ।
ततो दवदन्तीं ध्यायन्नधिकाधिकं रुदन् स साग्रहं द्विजं गृहे नीत्वोवाच-'महासत्या दवदन्त्या महापुरुषस्य नलस्य च कथां कथितवतस्तव किं स्वागतं करोमि ?' एवमुक्त्वा तस्य स्नानभोजनादिकं कारयित्वा दधिपर्णदत्तालङ्कारादिकं तस्मायादात् । ततः कुशलः सकुशलं कुण्डिनपुरं गत्वा भीमाय यथादृष्टं कुब्जवृत्तान्तमाख्यत् । कुब्जो यथा गजमखेदयत्, तं गजमारूढवांश्च, दृष्टां सूर्यपाका रसवतीं, स्वर्णमालां, टङ्कलक्षं वस्त्रा-ऽलङ्करणानि च श्लोकगानं च सर्वमेव यथायथं शशंस । __ ततो दवदन्त्युवाच-'तात ! स नल एव, आहारदोषेण कर्मदोषेण वा वैरूप्यं प्राप्तः । नलं विना नैतत् सर्वमन्यस्य कस्याऽपि । तत्केनाऽप्युपायेन तं कुब्जमिहाऽऽनय, यथाऽहं स्वयं परीक्षे, इङ्गितादिभिस्तं निरीक्षे च' । ततो भीमोऽवदत्-'पुत्रि ! तवाऽलीकं स्वयंवरं प्रारभ्य दधिपर्णस्याऽऽह्यनाय दूतः प्रेष्यते । तेन दधिपर्णोऽवश्यं समेष्यति । तेन सह कुब्जोऽप्यागमिष्यति । यदि स नलस्तहि स त्वामन्यस्मै दीयमानां न सहिष्यते । तथा