________________
त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः उवाच-'कृतज्ञेन त्वयोपकारिणो मम साधूपकृतम् । त्वं जात्यैव क्षीरपायकस्याऽपि दष्टा'। एवं वदन्नेव नलो विषेण शरीरे प्रसर्पत। कुब्जतामापित: । तेन च स लघुपिङ्गलकेशो लम्बोष्ठो लघुपादकरो महोदरः सर्वाङ्गेन विकृताकारं प्राप्तवान् । ततः सोऽचिन्तयत्'अनेन रूपेण जीवनं धिक्, ततः परिव्रज्यां गृह्णामि' । एवं ध्यायति नले स सर्पः सर्परूपं दिव्यतेजाः सुरोऽभवत् ।
९२
ततः स नलमुवाच- 'मां विषादं गाः, तव पिताऽहं निषधस्तुभ्यं राज्यं दत्त्वा परिव्रजितो ब्रह्मलोके देवो भूत्वाऽवधिना त्वामित्थं दुर्दशं दृष्ट्वा मायासर्पो भूत्वा तवोद्धारायैव विकृताङ्गतां प्रापितवानस्मि । एतत्कटुकौषधमिव तवोपकाराय स्यात् । त्वया वशीकृता राजानो वैरूप्यात् त्वामनुपलक्ष्य सम्प्रति नोपद्रविष्यन्ति । परिव्रज्यां मा ग्रहीः । तवाऽद्याऽपि भूश्चिरं भोक्तव्याऽस्ति । अहं ते परिव्रज्योचितं समयं कथयिष्यामि । अतः परं त्वया सुस्थितेन भाव्यम् । तथेदं बिल्वफलं रत्नकरण्डकं च गृहाण, यत्नतश्चैतद् रक्षेः । यदा त्वं स्वपूर्णरूपमिच्छेस्तदेदं श्रीफलं स्फोटयेः, तन्मध्ये विशदानि शुद्धानि देवदूष्याणि द्रक्ष्यसि । तद्वस्त्राणि भूषणानि च परिधाय स्वकीयं देवोपमं पूर्वं रूपं समवाप्स्यसि ।
ततो नलः पितरं पप्रच्छ- 'तात! तव वधूर्दवदन्ती यत्र मया मुक्ता तत्रैवाऽस्ति, क्वाऽप्यन्यतो वा गता ?' ततः स देवो दवदन्त्या विदर्भप्राप्त्यन्तं वृत्तान्तं तस्याः सतीत्वं प्रशंसन्नुवाच । तथा नलं 'किं वने भ्रमसि, यत्र त्वं जिगमिषुस्तत्र त्वां नयामीति चाऽवोचत् । ततो नल उवाच- 'मां सुंसुमारपुरं नय' । देवोऽपि तथा कृत्वा निजधाम जगाम ।
अष्टमं पर्व तृतीयः सर्गः
अथ नलस्तत्पुरसमीपमार्गे नन्दनवने स्थितः सिद्धायतनं दृष्ट्वा तत्र प्रविश्य नमिनाथप्रतिमां दृष्ट्वा प्रणम्य ततो निर्गत्य सुंसुमारनगरद्वारं प्राप्तवान् । तत्र च गज आलानमुन्मूल्य भ्रमन्नासीत् । तथा स तत्र महान्तमुपद्रवं चकार । दधिपर्णनृपश्च वप्रमारुह्योवाच- 'यो गजं वशमानयेत् तस्येष्टं दास्यामि' । ततः कुब्जो नलस्तदाकर्ण्य विविधैश्छलैस्तं गजं खेदयित्वा खिन्नं तमारुह्य यथेष्टं वाहयामास । लोकाश्च तज्जयजयारावं चक्रुः । नृपश्च स्वयं तद्गले स्वर्णहारमक्षिपत् । ततो नलस्तं चारुवशे कृत्वाऽऽलाने बद्ध्वा तत उत्ततार । अनन्तरं नृपपार्श्वे तस्य मित्रमिवोपविवेश ।
ततो दधिपर्णस्तं पप्रच्छ 'गजहृदयवेदिन् ! कुब्ज ! किमन्यदपि वेत्सि ?' ततः कुब्ज उवाच- 'नृप ! तव किमन्यत् कथयामि, सूर्यपाकां रसवतीं जानामि किं तद् द्रष्टुमिच्छसि ?' ततो नृपः सूर्यपाकोत्सुको गृहं गत्वा कुब्जाय सर्वं पाकोपकरणमार्पयत् । ततः कुब्ज: सूर्यातपे तण्डुलादीन् मुक्त्वा विद्यां जपन् शीघ्रमेव दिव्यं पाकं निष्पादयामास नृपश्च सपरिच्छदस्तद् भुक्तवान् ।
तदास्वाद्य च दधिपर्ण उवाच - एवंविधं पाकं नल एव जानाति नाऽन्यः, नलं सेवमानस्य ममैष पाकश्चिरं परिचितः । तत्किं त्वं नलोऽसि विकृतरूपधृत्, यद् वा योजनानां शतद्वयान्तरितस्य तस्याऽत्र कुत आगमनम् । एवं प्रशस्य स कुब्जाय वस्त्राऽलङ्करणादिकं टङ्कलक्षं ग्रामपञ्चशतीं चाऽदात् । स कुब्जश्च ग्रामपञ्चशतीं मुक्त्वा सर्वं गृहीतवान् । ततो नृपोऽपृच्छत्'किमधिकान् ग्रामानिच्छसि' । ततः कुब्ज उवाच - 'ममैतामिच्छां पूरय- यद् मृगयां मद्यपानं च राज्ये निवारय । ततो राजा तद्वचनं स्वीकृत्य निजराज्ये मृगया - मद्यपानयोश्चर्चामपि न्यषेधयत् ।