________________
अष्टमं पर्व - तृतीयः सर्गः गङ्गामिवाऽऽलिङ्गय गले लगित्वा च भृशं रुरोद । अनन्तरं च जलेन मुखं प्रक्षाल्य ते परस्परं संलेपतुः । पुष्पदन्ती च दवदन्तीमङ्कमारोप्य भाग्यात् त्वं दृष्टाऽत्र सुखेन कालं गमयन्ती चिरादपि पति द्रक्ष्यस्येवेत्युवाच । नृपश्च तुष्टो हरिमित्राय ग्रामाणां पञ्चशतीमदात् । तथा नले समागते राज्याधं दास्यामीत्युवाच । पुरे च दवदन्त्यागमोत्सवं देवपूजादिकं च सप्तदिनानि यावद् नृपः कारयामास । अष्टमे दिवसे च नृपो दवदन्तीमुवाच-'तथोपायः करिष्यते यथा शीघ्रं नलः समेष्यति' ।
९०
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ततो नृपो देवीमुवाच-'सूर्येऽस्तमितेऽपि दीपादीनामभावेऽपि कुतो नेह तम: ?' ततो राज्ञी दवदन्त्याः सहजं तेजस्विनं तं तिलकं नृपायाऽदर्शयत् । राजा च कौतुकात् तं तिलकं पाणिना प्यधात् । ततश्च सर्व राजकुलं तमसा गिरिकन्दरेवाऽऽच्छन्नं जातम् । ततः प्रसन्नो नृपः पाणिमपसार्य भैमी राज्यभ्रंशादिकां कथामपृच्छत् । भैमी च नम्रमुखी रुदती नल-कूबरयो तादारभ्य सर्वं वृत्तान्तं कथयामास । ततो नृपः स्वोत्तरीयाञ्चलेन वैदा नेत्रं सम्मार्योवाच-'पुत्रि ! मा रोदीः, भाग्यं ह्यप्रतिविधेयम्' । ___ अत्राऽवसरे च दिवः कश्चिद् देवः सभायामवतीर्य कृताञ्जलिभैमीमुवाच-दवदन्ति ! तवोपदेशाच्चौरोऽहं पिङ्गलः प्रव्रज्य विहरन् तापसपुरं गतः श्मशाने प्रतिमया स्थितः । तत्र च चितानलेनोद्भूतो दवानल: सर्वत: प्रासरत् । धर्मध्यानस्थश्चाऽहं तेन दह्यमानोऽप्यप्रचलितो नमस्कारपरायणो दग्धशरीरो भूतले पतितो विपद्य पिङ्गलो नाम देवोऽभवम् । तव प्रसादादेव मम देवत्वम्, अन्यथा मम चौरस्य का गतिर्भवेत् ! । अवधिना तवोपकारं ज्ञात्वा त्वां द्रष्टुमागतोऽस्मि, त्वं सर्वदा विजयस्व' । एवमुक्त्वा स सप्तस्वर्णकोटीर्वृष्ट्वा विद्युदिव नभसि तिरोऽभवत् । तदानीं चाऽर्हद्धर्मप्रभावात् तस्य सद्यो देवत्वं बुद्ध्वा नृपः स ऋतुपर्णोऽपि तं धर्म प्रपन्नवान् ।
अथ हरिमित्रो नृपमुवाच-देव ! आज्ञापय, चिराद् दवदन्ती पितर्गहं यात्वि'ति । ततो नपश्चन्द्रयशसः सम्मत्या तथास्त्वित्यक्त्वा सेनया सह वैदर्भी विदर्भान् प्रैषयत् । आयान्ती दवदन्तीं श्रुत्वा च भीमरथोऽभ्याजगाम । वैदर्भी च पितरं दृष्ट्वा पादचारिणी स्मयमाना पितुः पादयोः पपात । तथा सा मातरं पुष्पदन्तीं यमुना
अथ नलस्तदानीं भैमी त्यक्त्वाऽरण्येऽटंस्तत्रैकतो धूमं समुत्थितं ददर्श । सधूमश्च ज्वालाजालभयङ्करो वनं व्याप्तवान् । दह्यमानानां वंशानां भीषणो रवो जज्ञे । तथा नल: श्वापदानामाक्रन्दं शुश्राव । तथा तदानीमेव स 'नृप ! नल ! मां रक्ष, त्वं यद्यपि निर्हेतुकोपकारव्रतस्तथाऽपि तवोपकरिष्यामी'ति मानुषं शब्दमप्यशृणोत् । तं शब्दमनुलक्ष्य गच्छंश्च स लतागहने रक्ष रक्षेति वदन्तं महोरगं ददर्श । ततः स तं सर्प पप्रच्छ-'त्वं मम नामादिकं कथं वेत्सि, तव मानुषी वाक् च कथम् ?' ततः स सर्पोऽवोचत्-'अहं पूर्वजन्मनि मनुष्योऽभवं, तदभ्यासादिहाऽपि मम मानुषी भाषा । ममाऽवधिज्ञानं चाऽस्ति, तेन तव नामादिकं जानामि' । ___ ततो दयालुर्नलस्तदुद्धाराय वल्लया उपरि निजं वस्त्रमक्षिपत् । भूस्पृष्टं वस्त्रं स्वभोगेन वेष्टयित्वा च लम्बमाने सर्प कूपादुद्ग्रहणीमिव तदाकृष्य दावानलरहिते प्रदेशे गत्वा तं सर्प नलो मुक्तवान् । स सर्पश्च सद्य एव नलस्य करेऽदशत् । ततो नल