Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 05
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 60
________________ अष्टमं पर्व - तृतीयः सर्गः त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः अथाऽन्यदा दधिपर्णो रहसि कुब्ज पप्रच्छ-'त्वं कोऽसि, कुत आगतः, क्व वास्तव्यश्चेति वद' । ततः कुब्ज उवाच-'अहं कोशलायां नलनृपस्य सूदो हूण्डिकाख्यः । अहं तत्समीप एव कलामग्रहीषम् । नलच भ्रात्रा कूबरेण द्यूतेऽखिलां महीं जितो दवदन्तीमादाय वनवासं प्रपन्नवान् । तथा स तत्रैव विपन्नवान् । अहं चाऽपात्रं कूबरं त्यक्त्वा त्वामुपागतोऽस्मि' । ततो दधिपर्णो नलमृत्युवार्त्तया सपरिच्छदो वज्राहत इव रुदोद । तथाऽश्रूणि मुञ्चन्नलस्य प्रेतकार्यं च चकार । कुब्जश्च गुप्तं विहसन् सर्वं ददर्श । अथाऽन्यदा दधिपर्णः केनाऽपि हेतुना भीमनृपसमीपं दूतं प्रेषयत् । दूतश्च भीमेन सत्कृतस्तत्समीपे निवसन्नेकदाऽवसरे नलस्य सूदो नलशिक्षया सूर्यपाकज्ञो मत्स्वामिनमुपागतोऽस्तीत्युवाच । तच्छ्रुत्वा चोत्कर्णा दवदन्ती पितरमुवाच- 'चरं प्रेष्य जानीहि यत् स कीदृशः सूदः । नलं विना नाऽन्यः सूर्यपाकां रसवतीं वेत्ति । नल एव कदाचिद् वेषान्तरेण भवेत् ? ततो नृपः कुशलनामानं द्विजं दक्षमाहूय सत्कृत्य-'सुंसुमारपुरं गत्वा तन्नृपसूदं पश्य, स कां का रसवतीं वेत्ति । किं रूपश्चेति जानीही'त्युवाच । ततः प्रभोरादेशः प्रमाणमित्युक्त्वा स द्विजः प्रस्थाय सुंसुमारपुरं प्राप्य पृष्ट्वा सूदं तं कुब्जं प्राप्य तं सर्वाङ्गविकृतं दृष्ट्वा विषण्णो 'दवदन्त्या वृथैव नलभ्रान्तिस्तथाऽपि परीक्षे' इति विचार्य नलनिन्दाभितं श्लोकद्वयं जगौ-‘एको नल एव निर्दयो निर्लज्जो निःसत्त्वो दुरात्मा च यः सती पत्नी तत्याज । विश्वस्तामेकाकिनी पत्नीं त्यक्त्वा तस्य मन्दमतेः पादौ गन्तुं कथमुत्थितौ ?' नलश्च पुन: पुन: पठ्यमानं तच्छ्रुत्वा प्रियां स्मरन् भृशमश्रूणि मुञ्चन् रुरोद । किं रोदिषीति विप्रेण पृष्टश्च स कुब्जस्तव मनोहरं श्लोकं श्रुत्वा करुणया रोदिमीत्युवाच । तथा कुब्जेन श्लोकार्थं पृष्टश्च स द्विजो द्यूतादारभ्य कुण्डिनपुरे दवदन्तीगमनान्तं सर्वं वृत्तं शशंस । तथाऽग्रे पुनरुवाच-'धन्योऽसि त्वं कुब्ज ! यत् सूर्यपाकेन रसवतीं करोषि । भीमनृपस्य सुंसुमारेशदूतेन गीतव्यम् । भैम्या चैवंविधो नल एव नाऽन्य इत्यभ्यर्थ्य भीमेन त्वां द्रष्टुं प्रेषितोऽस्मि । त्वां दृष्ट्वा च हताशोऽचिन्तयम्-क्व त्वं कुब्जो विकृताकृतिः, क्व च दिव्यरूपो नलः । प्रस्थानकाले जातानि शकुनान्यन्यथा जातानि । यतस्त्वं नलो नाऽसि' । ततो दवदन्तीं ध्यायन्नधिकाधिकं रुदन् स साग्रहं द्विजं गृहे नीत्वोवाच-'महासत्या दवदन्त्या महापुरुषस्य नलस्य च कथां कथितवतस्तव किं स्वागतं करोमि ?' एवमुक्त्वा तस्य स्नानभोजनादिकं कारयित्वा दधिपर्णदत्तालङ्कारादिकं तस्मायादात् । ततः कुशलः सकुशलं कुण्डिनपुरं गत्वा भीमाय यथादृष्टं कुब्जवृत्तान्तमाख्यत् । कुब्जो यथा गजमखेदयत्, तं गजमारूढवांश्च, दृष्टां सूर्यपाका रसवतीं, स्वर्णमालां, टङ्कलक्षं वस्त्रा-ऽलङ्करणानि च श्लोकगानं च सर्वमेव यथायथं शशंस । __ ततो दवदन्त्युवाच-'तात ! स नल एव, आहारदोषेण कर्मदोषेण वा वैरूप्यं प्राप्तः । नलं विना नैतत् सर्वमन्यस्य कस्याऽपि । तत्केनाऽप्युपायेन तं कुब्जमिहाऽऽनय, यथाऽहं स्वयं परीक्षे, इङ्गितादिभिस्तं निरीक्षे च' । ततो भीमोऽवदत्-'पुत्रि ! तवाऽलीकं स्वयंवरं प्रारभ्य दधिपर्णस्याऽऽह्यनाय दूतः प्रेष्यते । तेन दधिपर्णोऽवश्यं समेष्यति । तेन सह कुब्जोऽप्यागमिष्यति । यदि स नलस्तहि स त्वामन्यस्मै दीयमानां न सहिष्यते । तथा

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159